Loading data... On slow networks this could take a few minutes.
100%

अधिनागं प्रजविनो विकसत्पिच्छचारवः ।
पेतुर्बर्हिणदेशीयाः शङ्कवः प्राणहारिणः ॥

मल्लिनाथः अधीति ॥ प्रजवन्तीति प्रजविनोऽतिजवनाः । `प्रजोरिनिः` (अष्टाध्यायी ३.२.१५६ ) इति इनिप्रत्ययः । विकसद्भिः पिच्छैः कलापैश्चारवः । अत एव ईषदसमाप्सबर्हिण बर्हिणदेशीया मयूरकल्पाः । `ईषदसमाप्तौ-` (अष्टाध्यायी ५.३.६७ ) इत्यादिना देशीयर्प्रत्ययः । प्राणहारिणः शङ्कवः शल्यायुधानि । `वा पुंसि शल्यं शङ्कुर्ना` इत्यमरः । नागेष्वधिनागम् । विभक्त्यर्थेऽव्ययीभावः । गजेषु, सर्पेषु च निपेतुः । सर्पेषु बर्हिण इवेत्यर्थः । अत एवोपमालंकारः । `ग्रहो ग्राहि गजा नागाः` इति वैजयन्ती
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
धि ना गं प्र वि नो
वि त्पि च्छ चा वः
पे तु र्ब र्हि दे शी याः
ङ्क वः प्रा हा रि णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.