Loading data... On slow networks this could take a few minutes.
100%

वारणागगभीरा सा साराभीगगणारवा ।
कारितारिवधा सेना नासेधा वारितारिका ॥

मल्लिनाथः (युग्मम् ।) वारणेति ॥ कीदृशी सेना । वारणैरेवागैरचलैर्गभीरा दुरवगाहा वारणागगभीरा सा साराणां श्रेष्ठानां न भियं गच्छन्तीत्यभीगानां निर्भीकाणां गणानां जन्तुसङ्घानामारवो यस्यां सा साराभीगगणारवा कारितारिवधा कृतशत्रुवधा । `रामो राज्यमकारयत्` इतिवदन स्वार्थे णिच् । नास्त्यासेधः प्रतिषेधो यस्यां सा नासेधा । नञर्थेन नशब्देन बहुव्रीहिः । अनासेधा वा वरितारिका ईप्सितशत्रुका । अनेनाहं योत्स्य इति स्वयं वृतप्रतिभटेत्यर्थः । शैषिकः कप्प्रत्ययः । सा सेना पपातेति पूर्वेणान्वयः । अत्र प्रातिलोम्येन अर्धावृत्तेरर्धप्रतिलोमयमकमेतत् । लक्षणं तूक्तं `निध्वनत्-` (१९॥३४) इत्यादिश्लोकप्रतिलोमयमके
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वा णा भी रा सा
सा रा भी णा वा
का रि ता रि धा से ना
ना से धा वा रि ता रि का
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.