Loading data... On slow networks this could take a few minutes.
100%

नानाजाववजानाना सा जनौघघनौजसा ।
परानिहऽहानिराप तान्वियाततयान्विता ॥

मल्लिनाथः नानेति ॥ इहास्यां नानाविधायामाजौ चित्रयुद्धे ओजसा तेजसा अवजानाना अवज्ञां कुर्वती । `अकर्मकाच्च` (१॥३।२६) इत्यात्मनेपदम् । जनौघैर्घना सान्द्रा जनौघघना । बहुजनेत्यर्थः । अहानिरभया वियाततया वैयात्येन धाष्ट्येनान्विता । पृष्टेत्यर्थः । `धृष्टो धृष्णुर्वियातश्च` इत्यमरः । सा चैद्यसेना तान्परानरीनाप प्राप । अत्र प्रतिपादं पादार्धस्यैवावृत्तेरर्धपादप्रतिलोमयमकम्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ना ना जा जा ना ना
सा नौ नौ सा
रा नि ऽहा नि रा
ता न्वि या या न्वि ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.