दिवमिन्युधा गन्तुं कोमलामलसम्पदम् ।
दधौ दधानोऽसिलतां कोऽमलामलसम्पदम् ॥

मल्लिनाथः दिवमिति ॥ युधा युद्धेन कोमलाश्चारवः अमलाः शीतोष्णादिदोषरहिताः संपदो यस्यां तां कोमलामलसंपदं दिवं स्वर्ग गन्तुमिच्छन् कः पुमान् अमलां&#३२; धौतामसिलतां दधानः अलसं पदं दधौ । सर्वोऽपि निःशङ्कमाक्रमतेत्यर्थः । अत्र । स्वर्गेच्छाया विशेषणगत्या निःशङ्कप्रस्थानहेतुत्वात्काव्यलिङ्गं तद्यमकेन संसृज्यते
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दि मि न्यु धा न्तुं
को ला म्प दम्
धौ धा नो ऽसि तां
को ऽम ला म्प दम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.