Loading data... On slow networks this could take a few minutes.
100%

मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् ।
शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ॥

मल्लिनाथः मांसेति ॥ मांसव्यधो मांसखण्डनम् । `व्यधजपोरनुपसर्गे` (अष्टाध्यायी ३.३.६१ ) इत्यप्प्रत्ययः । तत्रोचितानि परिचितानि मुखानि चञ्चवः शल्यानि च येषां तैः शकुन्तिभिः कर्तृभिः शून्यतामचेतनत्वं, अन्यत्र तुच्छत्वममूर्तत्वं वा दधत् अत एव अक्रियमस्पन्दं शत्रुबलं व्यापि व्याप्तम् । आप्नोतेः कर्मणि लुङ् । तस्य हरेरिषुभिः नभो व्यापि । अत्रेषुपक्षिणां न भोबलयोर्व्याप्तितुल्यधर्मयोगित्वात्तुल्ययोगिताभेदः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मां व्य धो चि मु खैः
शू न्य तां क्रि यम्
कु न्ति भिः त्रु लं
व्या पि स्ये षु भि र्न भः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.