भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः ।
कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥

मल्लिनाथः भीमेति ॥ जिनो हरिः अवतारान्तरनाम्ना व्यपदेशः । भीमा अस्वराजयो यस्य तस्य भीमास्त्रराजिनः । `इकोऽचि विभक्तौ` (अष्टाध्यायी ७.१.७३ ) इति नुमागमः । ध्वजै राजते यस्तस्य ध्वजराजिनः । ताच्छील्ये णिनिः । कृता घोरा आजियुद्धं येन तस्य कृतघोराजिनः । पूर्ववन्नुमागमः । तस्य बलस्य सैन्यस्य संबन्धिनी वस्तद्रणभूमीः सरुधिराः सास्राश्चके । चतुष्पादयमकम्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भी मा स्त्र रा जि स्त स्य
स्य ध्व रा जि नः
कृ घो रा जि श्च क्रे
भु वः रु धि रा जि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.