Loading data... On slow networks this could take a few minutes.
100%

संदानान्तादस्त्रिभिः शिक्षितास्त्रै-
रविश्याधः शातशस्त्रावलूनाः ।
कूर्मौपम्यं व्क्तमन्तर्नदीना-
मैभाः प्रापन्नङ्घ्रयोऽसृङ्मयीनाम् ॥

मल्लिनाथः संदानान्तादिति ॥ शिक्षितास्त्रैरभ्यस्तास्त्रविद्यैरस्त्रिभिरायुधीयैः अधः रथानामधस्तादाविश्य प्रविश्य संदानान्ताद्वन्धनप्रदेशात् । गुल्फप्रदेशमधिकृत्येत्यर्थः । `संदानं पशूनां पादबन्धनम्` इति विश्वः । शातं शितम् । `शाच्छोरन्यतरस्याम्` (अष्टाध्यायी ७.४.४१ ) इति विकल्पादीत्वाभावः । तेन शस्त्रेणावलूनाश्छिन्नाः । इभानामिमे ऐभाः अङ्घ्रयश्चरणाः असृङ्मयीनां रक्तविकाराणां नदीनामन्तरभ्यन्तरे व्यक्तं कूर्मौपम्यं कमठोपमाम् । स्वार्थे ष्यञ्प्रत्ययः । अत एवौपम्यादयः चातुर्वर्ण्यवदिति वामनः । प्रापन् प्राप्ताः । आपो लुङि `पुषादि-` (३।११।५५) इति च्लेरङादेशः । उपमा
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
सं दा ना न्ता स्त्रि भिः शि क्षि ता स्त्रै
वि श्या धः शा स्त्रा लू नाः
कू र्मौ म्यं व्क्त न्त र्न दी ना
मै भाः प्रा न्न ङ्घ्र यो ऽसृ ङ्म यी नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.