रामेण त्रिःसप्तकृत्वो ह्रदानां
चित्रं चक्रे पञ्चकं क्षत्रियास्त्रैः ।
रक्ताम्भोभिःस्तत्क्षणादेव तस्मि-
न्संख्येऽसंख्याः प्रवहन्द्वीपवत्यः ॥
रामेण त्रिःसप्तकृत्वो ह्रदानां
चित्रं चक्रे पञ्चकं क्षत्रियास्त्रैः ।
रक्ताम्भोभिःस्तत्क्षणादेव तस्मि-
न्संख्येऽसंख्याः प्रवहन्द्वीपवत्यः ॥
चित्रं चक्रे पञ्चकं क्षत्रियास्त्रैः ।
रक्ताम्भोभिःस्तत्क्षणादेव तस्मि-
न्संख्येऽसंख्याः प्रवहन्द्वीपवत्यः ॥
मल्लिनाथः
रामेणेति ॥ रामेण भार्गवेण सामर्थ्यात्रीन्वारान् त्रिः । ` द्वित्रिचतुर्भ्यः सुच्` (अष्टाध्यायी ५.४.१८ ) इति सुच्प्रत्ययः । त्रिरावृत्ताः सप्त त्रिःसप्तकृत्वः। एकविंशतिवारानित्यर्थः । `संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्` (अष्टाध्यायी ५.४.१७ ) इति कृत्वसुच् प्रत्ययः । क्षत्रियास्त्रै राजन्यरक्तैः चित्रमद्भुतं हृदानां पञ्चपरिमाणमस्य पञ्चकम् । `संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु` (अष्टाध्यायी ५.१.५८ ) इति सङ्घार्थे कन्प्रत्ययः । चक्रे कृतम् । तस्मिन्संख्ये युद्धे । `मृधमास्कन्दनं संख्यम्` इत्यमरः । क्षणादेव रक्तरेवाम्भोभिः असंख्या द्वीपवत्यो नद्यः प्रावहन्प्रासरन् । रामेण बहुकालेन च स्यमन्तपञ्चकाख्यं हृदपञ्चकमेव कथंचित्कृतम् । अत्र तु क्षणमात्रेणासंख्या नद्यः प्रवृत्ता इत्युपमानादुपमेयस्याधिक्योक्तेर्व्यतिरेकालंकारः
छन्दः
उपजातिः [११]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| रा | मे | ण | त्रिः | स | प्त | कृ | त्वो | ह्र | दा | नां |
| चि | त्रं | च | क्रे | प | ञ्च | कं | क्ष | त्रि | या | स्त्रैः |
| र | क्ता | म्भो | भिः | स्त | त्क्ष | णा | दे | व | त | स्मि |
| न्सं | ख्ये | ऽसं | ख्याः | प्र | व | ह | न्द्वी | प | व | त्यः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.