मदाम्भसा परिगलितेन सप्तधा
गजाञ्जनः शमितरजश्चयानधः ।
उपर्यवस्थितघनपांशुमण्डला-
नलोकयत्ततपटमण्डपानिव ॥

मल्लिनाथः मदाम्भसेति ॥ सप्तधा `कराकटाभ्यां मेढ्राच्च नेत्राभ्यां च मदस्रुतिः` इति पालकाप्ये । सप्तभिः स्रोतोभिः परिगलितेन स्रुतेन मदाम्भसा अधः शमितो रजश्चयो यैस्तान् उपर्यवस्थितानि तथैव स्थितानि धनानि सान्द्राणि पांशुमण्डलानि पूर्वोत्थरजःपुञ्जा येषां तान्गजान् जनो लोकस्तता उपरि वितताः पटमण्डपा येषां तानिवेत्युत्प्रेक्षा । अलोकयत्
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
दा म्भ सा रि लि ते प्त धा
जा ञ्ज नः मि श्च या धः
र्य स्थि पां शु ण्ड ला
लो त्त ण्ड पा नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.