गते मुखच्छदपटसादृशीं दृशः
पथस्थिरो दधति घने रजस्यपि ।
मदानिलैरधिमधुचूतगन्धिभि-
र्द्विपा द्विपानभिययुरेव रंहसा ॥

मल्लिनाथः गत इति ॥ छाद्यतेऽनेनेति छदः । मुखस्य छदो मुखच्छदः । `पुंसि संज्ञायां घः प्रायेण` (अष्टाध्यायी ३.३.११८ ) इति घप्रत्ययः `छादेर्धेऽद्वयुपसर्गस्य` (६४९६) इति ह्रस्वः । स चासौ पटश्च तत्सादृशीं तत्सादृश्यम् । ब्राह्मणादित्वात्व्यञ्प्रत्यये `षिद्गौरादिभ्यश्च` (अष्टाध्यायी ४.१.४१ ) इति ङीष् । स च ष्यञः पित्करणादीकारो बहुल मिति वामनवचनाद्वैकल्पिकः । गते प्राप्ते । गजानां युद्धपूर्वकाले मुखावरणकारणात्तत्सदृशे घने सान्द्रे रजसि दृशो दृष्टेः पथो मार्गांस्तिरोदधति छादयति सत्यपि । अधिमधोरधिकमकरन्दस्य चूतस्येव गन्धो येषां तैः । `उपमानाच्च` (अष्टाध्यायी ५.४.१३७ ) इति गन्धस्यत्वे तदेकान्तग्रहणं तु व्यभिचारि । मदानिलैरभिज्ञानैर्द्विपा गजाः द्विपान्गजान्प्रति रंहसा वेगेनाभिययुरेव । अत्र तिरोहितदृष्टेरभियानविरोधस्य मदानिलैः परिहाराद्विरोधाभासोऽलंकारः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
ते मु च्छ सा दृ शीं दृ शः
स्थि रो ति ने स्य पि
दा नि लै धि धु चू न्धि भि
र्द्वि पा द्वि पा भि यु रे रं सा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.