Loading data... On slow networks this could take a few minutes.
100%

नभोनदीव्यतिकरधौतमूर्तिभि-
र्वियद्गतैरनधिगतानि लेभिरे ।
चलच्चमूतुरगखुराहतोत्पत-
न्महीरजःस्नपनसुखानि दिग्गजैः ॥

मल्लिनाथः नभोनदीति ॥ नभोनदीव्यतिकरेणाकाशगङ्गाया अवगाहेन धौतमूर्तिभिः क्षालिताङ्गैः वियद्गतैः खेचरैः अत एव दिग्गजैरनधिगतान्यननुभूतचराणि चलद्भिश्वमूतुरगखुरैराहतम् अत एवोत्पतदुद्गच्छन्महीरजस्तेन स्नपनमभिषेचनं तेन यानि सुखानि तानि लेभिरे । कुञ्जराः पांशुवर्षेणेत्युदाहृतम् । अत्रापि दिग्ग. जानां रजःस्नपनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
भो दी व्य ति धौ मू र्ति भि
र्वि द्ग तै धि ता नि ले भि रे
च्च मू तु खु रा तो त्प
न्म ही जः स्न सु खा नि दि ग्ग जैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.