विषङ्गिणि प्रतिपदमापिबत्यपो
हताचिरद्युतिनि समीरलक्ष्मणि ।
शनैःशनैरुपचितपङ्कभारिकाः
पयोमुचः प्रययुरपेतवृष्टयः ॥

मल्लिनाथः विषङ्गिणीति ॥ विषङ्गिणि विषक्ते अत एव हताचिरद्युतिनि विरमिताचिरद्युतिनि समीरलक्ष्मणि वातकेतौ रजसि प्रतिपदं प्रतिक्षणमपोऽम्भांस्यपिबत्याकर्षति सति अत एवापेतवृष्टयो निवृत्तवर्षाः पयोमुचः उपचिताः प्रवर्धिताः पङ्कभारिकाः पङ्कभरणानि येषां ते उपचितपङ्कमारिकाः सन्तः । `पर्यायार्हर्णोत्पत्तिषु ण्वुल` (अष्टाध्यायी ३.३.१११ ) इत्यर्हणार्थे ण्वुल प्रत्ययः । अर्हणं च करणसामर्थ्यम् । अत एव भाराच्छनैः शनैः प्रययुः प्राप्ताः । अत्र पयोमुचां पङ्कभरणासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
वि ङ्गि णि प्र ति मा पि त्य पो
ता चि द्यु ति नि मी क्ष्म णि
नैः नै रु चि ङ्क भा रि काः
यो मु चः प्र यु पे वृ ष्ट यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.