Loading data... On slow networks this could take a few minutes.
100%

अवज्ञया यदहसदुच्चकैर्बलः
समुल्लसद्दशनमयूखमण्डलः ।
रुषारुणीकृतमपि तेन तत्क्षणं
निजं वपुः पुनरयन्निजां रुचिम् ॥

मल्लिनाथः अवशयेति ॥ बलो बलभद्रः समुल्लसत्समन्ततः प्रसरद्दशनमयूखमण्डलं दन्तरश्मिपटलं यस्य स सन् अवज्ञयाऽनादरेण उच्चैरहसदिति यत् तेन हासेन रुषारुणीकृतमपि निजं वपुः तत्क्षणं तस्मिन्क्षणे । अत्यन्तसंयोगे द्वितीया । पुनरुचिं धावल्यमेवानयत् । अत्र वपुषः स्वधावल्यत्यागेन दन्तधावल्यस्वीकारात्तद्गुणालंकारः । `तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाश्रयात्` इति लक्षणात्
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
ज्ञ या दु च्च कै र्ब लः
मु ल्ल द्द यू ण्ड लः
रु षा रु णी कृ पि ते त्क्ष णं
नि जं पुः पु न्नि जां रु चिम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.