Loading data... On slow networks this could take a few minutes.
100%

अलक्ष्यत क्षणदलिताङ्गदे गदे
करोदरप्रहितनिजांसधामनि ।
समुल्लसच्छकलितपाटलोपलैः
स्फुलिङ्गवान्स्फुटमिव कोपपावकः ॥

मल्लिनाथः अलक्ष्यतेत्यादि ॥ करोदरप्रहितं पाणितलास्फालितं निजमंसधाम स्वांसप्रदेशो येन तस्मिन् । अत एव क्षणाद्दलिताङ्गदे भग्नकेयूरे गदे गदाख्ये कृष्णानुजे समुल्लसद्भिरुत्पतद्भिः शकलितैः शकलीकृतैर्दलदङ्गदगलितैः पाटलोपलैः पद्मरागैः कोपपावकः स्फुलिङ्गवानिव स्फुटं व्यक्तमलक्ष्यतेत्युत्प्रेक्षा । `त्रिषु स्फुलिङ्गोऽग्निकणः` इत्यमरः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
क्ष्य क्ष लि ता ङ्ग दे दे
रो प्र हि नि जां धा नि
मु ल्ल च्छ लि पा लो लैः
स्फु लि ङ्ग वा न्स्फु मि को पा कः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.