चलाङ्गुलीकिसलयमुद्धतैः करै-
रनृत्यत स्फुटकृतकर्णतालया ।
मदोदकद्रवकटभित्तिसङ्गिभिः
कलस्वरं मधुपगणैरगीयत ॥

मल्लिनाथः चलेत्यादि ॥ स्फुटं कृतः कर्णतालः कर्णताडनं यया तया द्विपघटया का चलाङ्गुल्य एव किसलया यस्मिन्कर्मणि तत्तथोद्धतैः करैर्हस्तैरनृत्यत अनर्ति । भावे लङ् । तथा मदोदकेन द्रवास्वार्द्रासु कटभित्तिषु गण्डस्थलेषु सङ्गिभिरासक्तैः मधुपगणैर्भमरगणैः कलस्वरं मधुरस्वरमगीयत गीतम् । भावे लङ्
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
ला ङ्गु ली कि मु द्ध तैः रै
नृ त्य स्फु कृ र्ण ता या
दो द्र भि त्ति ङ्गि भिः
स्व रं धु णै गी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.