Loading data... On slow networks this could take a few minutes.
100%

महतः कुकुरान्धकद्रुमा-
नतिमात्रं दववद्दहन्नपि ।
अतिचित्रमिदं महीपति-
र्यदकृष्णामवनीं करिष्यति ॥

मल्लिनाथः महत इति ॥ यत्तदोनित्यसंबन्धात् । स महीपतिर्महतोऽधिकान् कुकुराश्चा न्धकाश्च यादवभेदास्तानेव द्रुमानतिमात्रं दववद्दवाग्निवत् । `दवदावौ वनारण्यवह्नी` इत्यमरः । दहन्नपि अवनीमकृष्णामश्यामां करिष्यति इति यत् इदमतिचित्रम् । विरुद्धमित्यर्थः । कृष्णरहितामित्यविरोधः । अत एव विरोधाभासोऽलंकारः । कुकुरान्धकैः सह कृष्णं हनिष्यतीति श्लेषार्थः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
तः कु कु रा न्ध द्रु मा
ति मा त्रं द्द न्न पि
ति चि त्र मि दं ही ति
र्य कृ ष्णा नीं रि ष्य ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.