क्रियते धवलः खलूच्च-
कैर्धवलैरेव सितेतरैरधः ।
शिरसौधमधत्त श्ङ्क-
रः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा ॥

मल्लिनाथः क्रियत इति ॥ धवलो निर्मलो धवलैर्निर्मलैरेवोच्चकैरुन्नतः क्रियते खलु । सितेतरैमलिनैरधः क्रियते। तथा हि—शंकरः शिवः सुरसिन्धोरोघं मन्दाकिनीपूरं शिरसा अधत्त । उभयोर्नैर्मल्यादिति भावः । मधुजिन्मधुशत्रुर्विष्णुस्तु तमोगमङ्घ्रिणा अधत्त । स्वयं मलिनत्वादिति भावः । अतो विशेषविदुषां राजा पूज्य एवेति भावः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः गीतिः
छन्दोविश्लेषणम्
१० ११ १२
क्रि ते लः लू च्च
कै र्ध लै रे सि ते रै धः
शि सौ त्त श्ङ्क
रः सु सि न्धो र्म धु जि त्त ङ्घ्रि णा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.