त्वयि भक्तिमता न सत्कृतः
कुरुराजा गुरुरेव चेदिपः ।
प्रियमांसमृगाधिपोज्झितः
किमवद्यः करिकुम्भजो मणिः ॥

मल्लिनाथः त्वयीति ॥ हे कृष्ण, त्वयि भक्तिमता प्रेमवता । कुरूणां राट् । `सत्सूद्विष-`(अष्टाध्यायी ३.२.६१ ) इत्यादिना क्विप् । तेन कुरुराजा कुरुराजेन पार्थेन न सत्कृतो नार्चितश्चेदिपो गुरुरेव पूज्य एव । तथा हि—प्रियं मांसं यस्य तेन मांसगृध्नुना मृगाधिपेन सिंहेनोज्झितस्त्यक्तः करिकुम्भजो मणिर्मुक्तामणिरवद्यो गर्ह्यः किम् । अनवद्य एवेत्यर्थः । मूर्खानादरान्न महतां किंचिल्लाघवमित्यर्थः । `कुपूयकुत्सितावद्यखेटगार्ह्यणकाः समाः` इत्यमरः । `अवद्यपण्य-` (अष्टाध्यायी ३.१.१०१ ) इत्यादिना निपातः । दृष्टान्तालंकारः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
त्व यि क्ति ता त्कृ तः
कु रु रा जा गु रु रे चे दि पः
प्रि मां मृ गा धि पो ज्झि तः
कि द्यः रि कु म्भ जो णिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.