धन्योऽसि यस्य हरिरेष समक्ष एव
दूरादपि क्रतुषु यज्वभिरिज्यते यः ।
दत्वार्घमत्रभवते भुवनेषु याव-
त्संसारमण्डलमवाप्नुहि साधुवादम् ॥
धन्योऽसि यस्य हरिरेष समक्ष एव
दूरादपि क्रतुषु यज्वभिरिज्यते यः ।
दत्वार्घमत्रभवते भुवनेषु याव-
त्संसारमण्डलमवाप्नुहि साधुवादम् ॥
दूरादपि क्रतुषु यज्वभिरिज्यते यः ।
दत्वार्घमत्रभवते भुवनेषु याव-
त्संसारमण्डलमवाप्नुहि साधुवादम् ॥
मल्लिनाथः
धन्योऽसीति ॥ धनं लब्धो धन्यः पुण्यवानसि । `सुकृती पुण्यवान्धन्यः` इत्यमरः । `धनगणं लब्धा` (४४८४) इति यत्प्रत्ययः । यस्य ते एष हरिः समक्ष एव अक्ष्णोः समीप एव । पुरत एवेत्यर्थः । स्थित इति शेषः । सामीप्येsव्ययीभावः । `अव्ययीभावे शरत्प्रभृतिभ्यः` (अष्टाध्यायी ५.४.१०७ ) इति समासान्तः । अत एव `तृतीयासप्तम्योर्बहुलम्` (अष्टाध्यायी २.४.८४ ) इति सप्तम्या अमभावः । अन्यत्र को विशेषस्तत्राह-यो हरिः दूरादपि परोक्षेऽपि ऋतुषु यागेषु यज्वभिर्विधिवदिष्टवद्भिः । `यज्वा तु विधिनेष्टवान्` इत्यमरः । `सुयजोर्ङ्वनिप्` (अष्टाध्यायी ३.२.१०३ ) इति ङ्वनिप्प्रत्ययः । इज्यते पूज्यते स ते प्रत्यक्ष इति धन्यस्त्वमित्यर्थः । फलितमा–अत्रभवते । पूज्यायेत्यर्थः । `पूज्यस्तत्रभवान्` इति सज्जनः । `इतरेभ्योऽपि दृश्यते` (अष्टाध्यायी ५.३.१४ ) इति सार्वविभक्तिके त्रल्प्रत्यये सुप्सुपेति समासः । अर्धं पूजां दत्त्वा यावत्संसारमण्डलं वर्तते तावदिति शेषः । भुवनेषु साध्विति वादः शब्दस्तं साधुवादं साधुसमाख्यामवाप्नुहि । लभस्वेत्यर्थः । अत्र राज्ञो धन्योऽसीति विशेषणगत्या यस्येत्यादिवाक्यार्थहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः। वसन्ततिलका वृत्तम्
छन्दः
वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ | १३ | १४ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| ध | न्यो | ऽसि | य | स्य | ह | रि | रे | ष | स | म | क्ष | ए | व |
| दू | रा | द | पि | क्र | तु | षु | य | ज्व | भि | रि | ज्य | ते | यः |
| द | त्वा | र्घ | म | त्र | भ | व | ते | भु | व | ने | षु | या | व |
| त्सं | सा | र | म | ण्ड | ल | म | वा | प्नु | हि | सा | धु | वा | दम् |
| त | भ | ज | ज | ग | ग | ||||||||
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.