Loading data... On slow networks this could take a few minutes.
100%

धन्योऽसि यस्य हरिरेष समक्ष एव
दूरादपि क्रतुषु यज्वभिरिज्यते यः ।
दत्वार्घमत्रभवते भुवनेषु याव-
त्संसारमण्डलमवाप्नुहि साधुवादम् ॥

मल्लिनाथः धन्योऽसीति ॥ धनं लब्धो धन्यः पुण्यवानसि । `सुकृती पुण्यवान्धन्यः` इत्यमरः । `धनगणं लब्धा` (४४८४) इति यत्प्रत्ययः । यस्य ते एष हरिः समक्ष एव अक्ष्णोः समीप एव । पुरत एवेत्यर्थः । स्थित इति शेषः । सामीप्येsव्ययीभावः । `अव्ययीभावे शरत्प्रभृतिभ्यः` (अष्टाध्यायी ५.४.१०७ ) इति समासान्तः । अत एव `तृतीयासप्तम्योर्बहुलम्` (अष्टाध्यायी २.४.८४ ) इति सप्तम्या अमभावः । अन्यत्र को विशेषस्तत्राह-यो हरिः दूरादपि परोक्षेऽपि ऋतुषु यागेषु यज्वभिर्विधिवदिष्टवद्भिः । `यज्वा तु विधिनेष्टवान्` इत्यमरः । `सुयजोर्ङ्वनिप्` (अष्टाध्यायी ३.२.१०३ ) इति ङ्वनिप्प्रत्ययः । इज्यते पूज्यते स ते प्रत्यक्ष इति धन्यस्त्वमित्यर्थः । फलितमा–अत्रभवते । पूज्यायेत्यर्थः । `पूज्यस्तत्रभवान्` इति सज्जनः । `इतरेभ्योऽपि दृश्यते` (अष्टाध्यायी ५.३.१४ ) इति सार्वविभक्तिके त्रल्प्रत्यये सुप्सुपेति समासः । अर्धं पूजां दत्त्वा यावत्संसारमण्डलं वर्तते तावदिति शेषः । भुवनेषु साध्विति वादः शब्दस्तं साधुवादं साधुसमाख्यामवाप्नुहि । लभस्वेत्यर्थः । अत्र राज्ञो धन्योऽसीति विशेषणगत्या यस्येत्यादिवाक्यार्थहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः। वसन्ततिलका वृत्तम्
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
न्यो ऽसि स्य रि रे क्ष
दू रा पि क्र तु षु ज्व भि रि ज्य ते यः
त्वा र्घ त्र ते भु ने षु या
त्सं सा ण्ड वा प्नु हि सा धु वा दम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.