गच्छतापि गगनाग्रमुच्चकै-
र्यस्य भूधरगरीयसाङ्घ्रिणा ।
क्रान्तकन्धर इवाबलो बलिः
स्वर्गभर्तुरगमत्सुबन्धताम् ॥

मल्लिनाथः गच्छतेति ॥ गगनाग्रं गगनोपरिभागं गच्छतापीति विरोधः । भूधरगरीयसेत्युपमा । यस्य वामनस्योच्चकैरुन्नतेनाङ्घ्रिणा क्रान्तकंधरोऽवष्टब्धकण्ठ इवाबलो दुर्बलो बलिर्वैरोचनिः स्वर्गभर्तुरिन्द्रस्य सुखेन बध्यत इति सुबन्धः । `ईषदुःसुषु-` (अष्टाध्यायी ३.३.१२६ ) इत्यादिना खल्प्रत्ययः । तत्तामगमत् । गुरुद्रव्यावष्टब्धकण्ठो हि सुखेन बध्यत इति भावः । `न लोका-` (अष्टाध्यायी २.३.६९ ) इत्यादिना कृद्योगलक्षणाया एव षष्ट्या निषेधात्स्वर्गभर्तुरिति शेषे षष्ठी । अत्र क्रान्तकंधर इवेत्युत्प्रेक्षाया भूधरगरीयसेत्युपमासापेक्षत्वात्संकरः । विरोधेन त्वनपेक्षिता संसृष्टिः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
च्छ ता पि ना ग्र मु च्च कै
र्य स्य भू री सा ङ्घ्रि णा
क्रा न्त न्ध वा लो लिः
स्व र्ग र्तु त्सु न्ध ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.