किं क्रमिष्यति किलैष वामनो
यावदित्थमहसन्न दानवाः ।
तावदस्य न ममौ नभस्तले
लङ्घितार्कशशिमण्डलः क्रमः ॥

मल्लिनाथः किमिति ॥ एष वामनः खर्वः । `खर्वो हस्त्रश्च वामनः` इत्यमरः । किं क्रमिष्यति इत्थमनेन प्रकारेण दानवा यावन्नाहसन् तावत्ततः प्रागेव लवितेऽतिक्रान्ते अर्कशशिमण्डले येन सोऽस्य हरेः क्रमः पादविक्षेपो नभस्तले न ममौ न परिमाणं गतवान् । यथा न माति तथा ववृधे इत्यर्थः । अत्राधारान्नभस्तलादाधेयस्य क्रमस्याधिक्यकथनादधिकालंकारभेदः । आश्रयाश्रयिणोराधिक्यमधिकमिति लक्षणात्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
किं क्र मि ष्य ति कि लै वा नो
या दि त्थ न्न दा वाः
ता स्य मौ स्त ले
ङ्घि ता र्क शि ण्ड लः क्र मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.