अभितः सदोऽथ हरिपाण्डवौ रथा-
दमलांशुमण्डलसमुल्लसत्तनू ।
अवतेरतुर्नयननन्दनौ नभः
शशिभार्गवावुदयपर्वतादिव ॥

मल्लिनाथः अभित इति ॥ अथामलांशुमण्डलेन तेजःपुञ्जेन समुल्लसन्त्यौ भासमाने तनू मूर्ती ययोस्तौ नयननन्दनौ नेत्रानन्दकरौ हरिपाण्डवौ सदोऽभितः सभाभिमुखम् । `अभितःपरित:-` (वा.) इति द्वितीया । रथात् शशिभार्गवौ अमलेत्यादिविशेषणविशिष्टौ शशिभार्गवौ चन्द्रशुक्रो नभोऽभितो नभोऽभिमुखमुदयाख्यात्पर्वतादुदयाचलादिव अवतरतुरवतीर्णवन्तौ । तरतेर्लिट् `तॄफलभजत्रपश्च` (अष्टाध्यायी ६.४.१२२ ) इत्येत्वाभ्यासलोपौ । उपमालङ्कारः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
भि तः दो ऽथ रि पा ण्ड वौ था
लां शु ण्ड मु ल्ल त्त नू
ते तु र्न न्द नौ भः
शि भा र्ग वा वु र्व ता दि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.