नलिनी निगूढसलिला च यत्र सा
स्थलमित्यधः पतति या सुयोधने ।
अनिलात्मजप्रहसनाकुलाखिल-
क्षितिपक्षयागमनिमित्ततां ययौ ॥

मल्लिनाथः &#३२; नलिनीति ॥ यत्र सभायां निगूढसलिला दलच्छन्नत्वाददृश्यसलिला नलिनी । वर्तत इति शेषः । या नलिनी सुष्टु युध्यत इति सुयोधने दुर्योधने । `भाषायां शासियुधिदृशिधृषिभ्यो युच् वक्तव्यः` (वा०)। स्थलमिति भ्रान्त्या अधः पतति सति अनिलात्मजस्य भीमसेनस्य प्रहसनेनाट्टहासेनाकुलानां क्षुभितानामखिलक्षितिपानां क्षयागमे नाशप्राप्तौ निमित्ततां ययौ । नलिनीदलच्छन्नत्वात्सुयोधनस्य जले स्थलभ्रान्तिः तया तस्य पातस्तेन भीमसेनप्रहासस्तेन राज्ञां क्षोभस्ततस्तेषां मारणो रणः प्रवृत्त इति परम्परया तत्क्षयकारणत्वं गतेत्यर्थः । अत्र सभावर्णनाङ्गतया भीमसेनादिचरितवर्णनादुदात्तालंकारभेदः । लक्षणं चोक्तम्
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
लि नी नि गू लि ला त्र सा
स्थ मि त्य धः ति या सु यो ने
नि ला त्म प्र ना कु ला खि
क्षि ति क्ष या नि मि त्त तां यौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.