विशदाश्मकूटघटिताः क्षपाकृतः
क्षणदासु यत्र च रुचेकतां गताः ।
गृहपङ्क्तयश्चिरमतीयिरे जनै-
स्तमसीव हस्तपरिमर्शसूचिताः ॥

मल्लिनाथः विशदेति ॥ किंचेति चार्थः । यत्र सभायां विशदाश्मकूटघटिताः स्फटिकशिलासंघातनिर्मिता अत एव क्षणदासु निशासु क्षपाकृतो निशाकरस्य रुचा चन्द्रिकयैकतां सावर्ण्यादभेदं गताः अत एव तमसीव हस्तपरिमर्शसूचिताः। पाणिस्पर्शैकगम्या इत्यर्थः । गृहपङ्क्तयो जनैश्चिरमतीयिरेऽतिक्रान्ताः। पुरोगतान्यपि स्फटिकभवनानि चन्द्रिकाभ्रमादतीत्य गत्वा पश्चात्करपरामर्शैः कथंचित्प्राप्यन्त इत्यर्थः । अत्र प्रकृतानां स्फटिकवेश्मनां गुणसाम्यादप्रस्तुतचन्द्रिकैक्योक्त्या सामान्यालंकारः। `सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता` इति लक्षणात्
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
वि दा श्म कू टि ताः क्ष पा कृ तः
क्ष दा सु त्र रु चे तां ताः
गृ ङ्क्त श्चि ती यि रे नै
स्त सी स्त रि र्श सू चि ताः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.