Loading data... On slow networks this could take a few minutes.
100%

अलसैर्मदेन सुदृशः शरीरकैः
स्वगृहान्प्रति प्रतिययुः शनैः शनैः ।
अलघुप्रसारित विलोचनाञ्जलि-
द्रुतपीतमाधवरसौघनिर्भरैः ॥

मल्लिनाथः अलसैरिति ॥ अलघु अधिकं प्रसारितैर्विलोचनैरेवाञ्जलिभिः द्रुतं सत्वरम् । `लघु क्षिप्रमरं द्रुतम्` इत्यमरः । पीतो यो माधवो हरिरेव रसोऽमृतम् । अन्यत्र `मधु मद्यं तत्संबन्धि रसो माधुर्यं माधवरसः । `रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे । रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ॥` इति वैजयन्ती । तस्यौधः समूहस्तेन निर्भरैर्दुभरैः । गुरुभिरिति यावत् । अत एव मदेनालसैर्मन्थरैः शरीरकाणि । अल्पशरीराणीत्यर्थः । `अल्पे` (अष्टाध्यायी ५.३.८५ ) इति परिमाणे कन्प्रत्ययः । तैरुपलक्षिताः सुदृशः शनैःशनैः स्वगृहान्प्रति प्रतिययुः प्रतिनिर्गताः। स्वयं लघून्यपि द्रव्याणि रसद्रवभरणाद्गुरु भवन्तीति भावः । अत्र माधवरसौघनिर्भरत्वविशेषणगत्या शनैःशनैः प्रतियानहेतुत्वात्कार्यहेतुकं काव्यलिङ्गं, तच्च माधवरसेनेति श्लेषमूलातिशयोक्त्युत्थापितमिति संकरः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
सै र्म दे सु दृ शः री कैः
स्व गृ हा न्प्र ति प्र ति युः नैः नैः
घु प्र सा रि वि लो ना ञ्ज लि
द्रु पी मा सौ नि र्भ रैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.