तनुभिस्त्रिनेत्रनयनानवेक्षित-
स्मरविग्रहद्युतिभिरद्युतन्नराः ।
प्रमदाश्च यत्र खलु राजयक्ष्मणः
परतो निशाकरमनोरमैर्मुखैः ॥

मल्लिनाथः तनुभिरिति ॥ यत्र पुरे नराः पुरुषाः त्रिनेत्रख्यम्बकः । `पूर्वपदात्संज्ञायामगः` (अष्टाध्यायी ८.४.३ ) इति णत्वं तु रघुनाथादिवण्णत्वरहितस्य संज्ञात्वे न प्रवर्तते । तस्य नयनेनानवेक्षितस्य स्मरविग्रहस्य द्युतिरिव द्युतिर्यासां ताभिस्तनुभिमूर्तिभिः । `स्त्रियां मूर्तिस्तनुस्तनूः` इत्यमरः। अद्युतन् द्योतन्तेऽस्म । `द्युत दीप्तौ` `द्युभ्द्यो लुङि` (अष्टाध्यायी १.३.९१ ) इति विकल्पात्परस्मैपदं । `पुषादि` (३।११५५) सूत्रेण च्लेरङादेशः । प्रमदाः स्त्रियश्च राज्ञश्चन्द्रस्य यक्ष्मा राजयक्ष्मा क्षयरोगः । `राजानं यक्ष्मा आरत्` इति श्रवणात् । `राजयक्ष्मा क्षयः शोथः` इत्यमरः । तस्मात्परतः । पूर्वमित्यर्थः । निशाकरवन्मनोरमैः । अक्षीणेन्दुसुन्दरैरित्यर्थः । मुखैरद्युतन् । तत्पुरं प्रविष्ट इति पूर्वेणान्वयः । उपमयोः संसृष्टिः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
नु भि स्त्रि ने त्र ना वे क्षि
स्म वि ग्र द्यु ति भि द्यु न्न राः
प्र दा श्च त्र लु रा क्ष्म णः
तो नि शा नो मै र्मु खैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.