इभकुम्भतुंङ्गकठिनेतरेतर-
स्तनभारदूरविनिवारितोदराः ।
परिफुल्लगण्डफलकाः परस्परं
परिरेभिरे कुकुरकौरवस्त्रियः ॥

मल्लिनाथः इभेति ॥ इभकुम्भा इव ये तुङ्गाः कठिनाश्च इतरेतरासां स्तनभारास्तैर्दूरे विनिवारितान्यतिकार्यादस्फुटतया स्थापितान्युदराणि यासां ताः । `स्वाङ्गाच्च-` (४।१०५४) इति विकल्पादनीकारः । परिफुल्लगण्डफलकाः हर्षपुलकितगण्डस्थलाः कुकुरकौरवस्त्रियो यादवपाण्डवागनाः परस्परं परिरेभिर आश्लिष्टवत्यः । `परिरम्भः परिष्वङ्ग आश्लेष उपगूहनम्` इत्यमरः । परिफुल्लेति फुल्लतेः पचाद्यजन्तं न तु फलतेः निष्टान्तम् । अनुपसर्गादिति कथनविरोधात्
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
कु म्भ तुं ङ्ग ठि ने रे
स्त भा दू वि नि वा रि तो राः
रि फु ल्ल ण्ड काः स्प रं
रि रे भि रे कु कु कौ स्त्रि यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.