Loading data... On slow networks this could take a few minutes.
100%

समपेत्य तुल्यमहसः शिलाघना-
न्घनपक्षदीर्घतरबाहुशालिनः ।
परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः
कुलिशात्परेण गिरयो गिरीनिव ॥

मल्लिनाथः सममिति ॥ तुल्यमहसः समतेजस्कान् , शिला इव शिलाभ्यश्च घनान् दृढान् घनैः पक्षैरिव दीर्घतरबाहुभिः बाहुभिरेव पक्षैश्च शालन्त इति तथोक्तानेवंभूतान् क्षितिपतीनेवंभूताः क्षितीश्वराः समं युगपदेत्यागत्य । आङ्पूर्वादिणः क्त्वो ल्यपि तुक् । कुलिशात्परेण परतः । कुलिशक्षतेः पविपक्षच्छेदात् पूर्वमित्यर्थः । संप्रत्यसंभवादिति भावः। परेणेति विभक्तिप्रतिरूपकमव्ययम् । गिरयो गिरीनिव परिशिश्लिषुरालिङ्गितवन्तः । उपमा
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
पे त्य तु ल्य सः शि ला ना
न्घ क्ष दी र्घ बा हु शा लि नः
रि शि श्लि षुः क्षि ति ती न्क्षि ती श्व राः
कु लि शा त्प रे गि यो गि री नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.