Loading data... On slow networks this could take a few minutes.
100%

नानाविधाविष्कृसामजस्वरः
सहस्रवर्त्मा चपलैर्दुरध्ययः ।
गान्धर्वभूय्ष्ठतया समानतां
स सामवेदस्य दधौ बलोदधिः ॥

मल्लिनाथः नानेति ॥ सामजा गजाः । `सामजौ गजसामोत्थौ` इति शाश्वतः । नानाविधमाविष्कृताः सामजानां स्वरा ध्वनयो बृंहितानि यस्मिन् स सहस्रवर्त्मा बहुभिर्मार्गैर्गच्छन् । गन्धर्वा एव गान्धर्वा अश्वाः । `वाजिवाहार्वगन्धर्व-` इत्यमरः । तैर्भूयिष्ठतया चपलैरस्थिरैः दुरध्ययो दुष्प्रापः । `इण् गतौ` इत्यस्मात्कृच्छ्रार्थे खल् । ईदृशः स बलोदधिः सेनासमुद्रः सामवेदस्य समानतां दधौ । तत्समोऽभूदित्यर्थः । सामवेदोऽपि बहुधाविष्कृतबृहद्रथन्तरादिसामोत्थितस्वरः । सहस्रशाखत्वात्सहस्रवर्त्मा । गान्धर्वगानबहुत्वाच्चपलमतिभिरध्येतुमशक्य इत्यर्थः। `इङ् अध्ययने` इत्यस्माद्धातोः खलि दुरध्यय इत्येवं रूपम्
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
ना ना वि धा वि ष्कृ सा स्व रः
स्र र्त्मा लै र्दु ध्य यः
गा न्ध र्व भू य्ष्ठ या मा तां
सा वे स्य धौ लो धिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.