नस्यागृहीतोऽपि धुवन्विषाणयो-
र्युगं ससूत्कारविवर्तितत्रिकः ।
गोणीं जनन स्म निधातुमुद्धृता-
मनुक्षणं नोक्षतरः प्रतीच्छति ॥

मल्लिनाथः नस्येति ॥ नस्या । नासिकाया नसादेशः । नासिकाभवा नस्या । दिगादित्वाद्यत् । तस्यां नासिकाप्रोतरज्जौ गृहीतोऽपि विषाणयोर्युगं धुवन् विधुन्वन् शृङ्गद्वयं कम्पयन् । ससूत्कारेति । सूत्कार इति शब्दानुकरणम् । अमर्षजः सशब्दनिश्वासो वा ससूत्कारं यथा तथा विवर्तितं त्रिकं पृष्ठवंशाधरसन्धिर्येन । `पृष्ठवंशाधरे त्रिकम्` इत्यमरः । उक्षतरो महोक्षः पृष्ठे निधातुं जनेनानुक्षणमुद्धृतां गोणीं न प्रतीच्छति स्म न स्वीकृतवान् । निधातुमवसरं न दत्तवानित्यर्थः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२
स्या गृ ही तो ऽपि धु न्वि षा यो
र्यु गं सू त्का वि र्ति त्रि कः
गो णीं स्म नि धा तु मु द्धृ ता
नु क्ष णं नो क्ष रः प्र ती च्छ ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.