मृष्टचन्दनविशेषकभक्ति-
र्म्रषअटभूषणकदर्थितमाल्यः ।
सापराध इव मण्डनमासी-
दात्मनैव सुदृशामुपभोगः ॥

मल्लिनाथः मृष्टेति ॥ मृष्टा प्रमृष्टा चन्दनानां विशेषकाणां तमालपत्राणां च भक्ती रचना येन सः । `तमालपत्रतिलकचित्रकाणि विशेषकम्` इत्यमरः । भ्रष्टानि भूषणानि यस्मिन् स भ्रष्टभूषणः कुत्सितोऽर्थः कदर्थः। लोकतो विशेष्यलिङ्गत्वम् । `कोः कत्तत्पुरुषेऽचि` (६|३।१०१) इति कुशब्दस्य कदादेशः । कदर्थानि कृतानि कदर्थितानि दूषितानि माल्यानि येन सः । ततस्तयोर्वैवक्षिकविशेष्यविशेषणभावाद्विशेषणसमासः । एवंभूत उपभोगः सापराध इव पूर्वमण्डनापहारात् कृतापराध इव सुदृशामात्मनैव स्वयमेव । प्रकृत्यादित्वात्तृतीया । मण्डनमासीत् । प्रतिनिधिकरणेन स्वापराधनिरासार्थमिवेत्युप्रेक्षा । स्त्रीणां संभोग एव मण्डनं तदभावे मण्डनान्तरस्याप्यमण्डनत्वादिति भावः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११ १२ १३
मृ ष्ट न्द वि शे क्ति
र्म्र भू र्थि मा ल्यः
सा रा ण्ड मा सी
दा त्म नै सु दृ शा मु भो गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.