' इत्युत्तरोत्तरयुक्तिवादिनि वाचस्पतौ, प्रतिवदति च यथाशक्ति भार्गवे, परिणमति शनैः कलहे, प्रहरणादानभीषणेषु दानवेषु, परिकरमाबध्नत्सु निर्जरेषु, चिन्तयन्मनसा चिरमाराध्य परां शक्ति, आसाद्य तदीयमेव मोहनं रूपमतिसधाय दानवाननुगृह्णीयाममरानिति कृतनिश्चयः सद्य एव तिरोदधे सह कमलासनेन कमललोचनः ।
ततश्च - दोभिर्दुर्भरशैलनिर्भरपरीवर्तावसीदद्बलै- र्गात्रैरुद्भटकालकूटगरलज्वालावलीढोज्झितैः ।
उत्तालैः श्वसितैरुपर्युपरि च प्राणैः प्रतिष्ठासुभिः स्पर्धामात्रबलोत्तरा युयुधिरे देवैः समं दानवाः ॥

About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.