संजय उवाच ।
९.९.१
तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् ।
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् ॥
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् ॥
M N Dutt
Sanjaya said Beholding the army thus scattered the brave king of the Madras address his driver, saying-Quickly urge these horses fleet as thought.
९.९.२
एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः ।
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता ॥
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता ॥
M N Dutt
There stands king Yudhishthira, the son of Pandu, shining with the uinbrella held over his head.
९.९.३
अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम् ।
न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि ॥
न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि ॥
M N Dutt
Reach me there quickly driver and witness my power. The Parthas are unable to stand before me in battle."
९.९.४
एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः ।
यत्र राजा सत्यसंधो धर्मराजो युधिष्ठिरः ॥
यत्र राजा सत्यसंधो धर्मराजो युधिष्ठिरः ॥
M N Dutt
Thus addressed the driver, of the Madra king, proceeded where stood the righteous king Yudhishthira of sure aim.
९.९.५
आपतन्तं च सहसा पाण्डवानां महद्बलम् ।
दधारैको रणे शल्यो वेलेवोद्धृतमर्णवम् ॥
दधारैको रणे शल्यो वेलेवोद्धृतमर्णवम् ॥
M N Dutt
Shalya suddenly attacked the mighty army of the Pandavas. Alone he withstood it like the continent withstanding the surging deep.
९.९.६
पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष ।
व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम् ॥
व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम् ॥
M N Dutt
The huge army of the Pandavas, coming against Shalya, O sire, stood still in that battle, like the rushing deep upon being obstructed by a mountain.
९.९.७
मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम् ।
कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥
कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥
M N Dutt
Beholding the king of the Madras standing for battle on the field, the Kouravas returned, making death their goal.
९.९.८
तेषु राजन्निवृत्तेषु व्यूढानीकेषु भागशः ।
प्रावर्तत महारौद्रः संग्रामः शोणितोदकः ।
समार्छच्चित्रसेनेन नकुलो युद्धदुर्मदः ॥
प्रावर्तत महारौद्रः संग्रामः शोणितोदकः ।
समार्छच्चित्रसेनेन नकुलो युद्धदुर्मदः ॥
M N Dutt
After they had come back, O king and separately taken up their positions in a wellformed array, an awful encounter took place in which blood flowed freely like water. The invincible Nakula encountered Chitrasena.
९.९.९
तौ परस्परमासाद्य चित्रकार्मुकधारिणौ ।
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ ॥
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ ॥
M N Dutt
These two heroes, both excellent bowmen, approaching, covered each other with downpours of arrows in that battle, like two pouring clouds risen in the sky on the south and the north. I could mark no difference between the son of Pandu and his antagonist.
९.९.१०
शरतोयैः सिषिचतुस्तौ परस्परमाहवे ।
नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा ॥
नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा ॥
M N Dutt
These two heroes, both excellent bowmen, approaching, covered each other with downpours of arrows in that battle, like two pouring clouds risen in the sky on the south and the north. I could mark no difference between the son of Pandu and his antagonist.
९.९.११
उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ ।
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ ॥
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ ॥
M N Dutt
Both of them were masters of weapons, both very powerful and both were experienced car-warriors. Each determined upon killing the other, they carefully looked for each other's weak point.
९.९.१२
चित्रसेनस्तु भल्लेन पीतेन निशितेन च ।
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः ॥
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः ॥
M N Dutt
Then, O king, with a broad-headed arrow, well-tempered and sharp Chitrasena cut off Nakula's bow at the handle.
९.९.१३
अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः ।
त्रिभिः शरैरसंभ्रान्तो ललाटे वै समर्पयत् ॥
त्रिभिः शरैरसंभ्रान्तो ललाटे वै समर्पयत् ॥
M N Dutt
Fearlessly then the son of Karna struck the bowless Nakula at the forehead with three gold-winged arrows whetted on stone.
९.९.१४
हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे ।
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् ॥
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् ॥
M N Dutt
With a few more sharp arrows he killed Nakula's horses, Next he struck down both the standard and the driver of his antagonist, each with three arrows.
९.९.१५
स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः ।
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः ॥
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः ॥
M N Dutt
With those three arrows shot off the arms of his foe and striking his forehead, Nakula, O king, looked beautiful like a mountain of three summits.
९.९.१६
स छिन्नधन्वा विरथः खड्गमादाय चर्म च ।
रथादवातरद्वीरः शैलाग्रादिव केसरी ॥
रथादवातरद्वीरः शैलाग्रादिव केसरी ॥
M N Dutt
Deprived of his bow and his car, the brave Nakula, taking up a sword, jumped down from his car like a lion from a mountain suminit.
९.९.१७
पद्भ्यामापततस्तस्य शरवृष्टिमवासृजत् ।
नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः ॥
नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः ॥
M N Dutt
As, however, he rushed on foot, his antagonist discharged a shower of arrows upon him. The highly active Nakula received that downpour of arrows on his shield.
९.९.१८
चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः ।
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः ॥
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः ॥
M N Dutt
Getting at the car of Chitrasena, the mightyarmed hero, the untiring son of Pandu, conversant with all modes of warfare, appeared before the troops.
९.९.१९
सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम् ।
चित्रसेनशिरः कायादपाहरत पाण्डवः ।
स पपात रथोपस्थाद्दिवाकरसमप्रभः ॥
चित्रसेनशिरः कायादपाहरत पाण्डवः ।
स पपात रथोपस्थाद्दिवाकरसमप्रभः ॥
M N Dutt
The son of Pandu then cut off from Chitrasena's trunk his diadem-decked head, adorned with ear-rings and bedecked with a beautiful nose and a pair of large eyes. At this, Chitrasena, effulgent like the Sun, dropped down on the terrace of his car.
९.९.२०
चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः ।
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥
M N Dutt
Beholding Chitrasena killed at the great carwarriors shouted there like lions and lauded him.
९.९.२१
विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ ।
सुषेणः सत्यसेनश्च मुञ्चन्तौ निशिताञ्शरान् ॥
सुषेणः सत्यसेनश्च मुञ्चन्तौ निशिताञ्शरान् ॥
M N Dutt
Meanwhile, beholding their brother slain, the two sons of Karna, viz., Sushena and Satyasena, both of whom were great carwarriors, made a downpour of sharp arrows.
९.९.२२
ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् ।
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने ॥
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने ॥
M N Dutt
Those foremost of car-warriors rushed quickly against the son of Pandu like a pair of tigers, O king, in the deep forest rushing against an elephant for slaying him.
९.९.२३
तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम् ।
शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा ॥
शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा ॥
M N Dutt
Both of them covered the great car-worrier Nakula with keen arrows. When they discharged arrows, they looked like two masses of clouds pouring rain in torrents.
९.९.२४
स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः ।
अन्यत्कार्मुकमादाय रथमारुह्य वीर्यवान् ।
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः ॥
अन्यत्कार्मुकमादाय रथमारुह्य वीर्यवान् ।
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः ॥
M N Dutt
Though wounded with arrows all over his body the valiant and heroic son of Pandu cheerfully took up another bow after getting upon another car and stood in battle like the angry Destroyers himself,
९.९.२५
तस्य तौ भ्रातरौ राजञ्शरैः संनतपर्वभिः ।
रथं विशकलीकर्तुं समारब्धौ विशां पते ॥
रथं विशकलीकर्तुं समारब्धौ विशां पते ॥
M N Dutt
Then those two brothers, O kings, with their straight arrows, cut off Nakula's car into pieces.
९.९.२६
ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे ।
जघान निशितैस्तीक्ष्णैः सत्यसेनस्य वाजिनः ॥
जघान निशितैस्तीक्ष्णैः सत्यसेनस्य वाजिनः ॥
M N Dutt
Then Nakula, laughing, struck the four horses of Satyasena with four whetted and keen arrows in that encounter.
९.९.२७
ततः संधाय नाराचं रुक्मपुङ्खं शिलाशितम् ।
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ॥
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ॥
M N Dutt
Shooting a long gold-winged shaft the son of Pandu then cut off, O king, the bow of Satyasena.
९.९.२८
अथान्यं रथमास्थाय धनुरादाय चापरम् ।
सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम् ॥
सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम् ॥
M N Dutt
At this the latter, mounting on another car and taking up another bow, as also his brother Sushena, rushed against the son of Pandu.
९.९.२९
अविध्यत्तावसंभ्रान्तौ माद्रीपुत्रः प्रतापवान् ।
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि ॥
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि ॥
M N Dutt
The brave son of Madri fearlessly struck each of them, O monarch, with a couple of arrows.
९.९.३०
सुषेणस्तु ततः क्रुद्धः पाण्डवस्य महद्धनुः ।
चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः ॥
चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः ॥
M N Dutt
Then worked up with wrath, the mighty car-warrior Sushena, cut off, in that battle, the formidable bow of Pandu's son with a razorshaped arrow.
९.९.३१
अथान्यद्धनुरादाय नकुलः क्रोधमूर्छितः ।
सुषेणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥
सुषेणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥
M N Dutt
Then Nakula, beside himself with rage, took up another bow and struck Sushena with five arrows and his standard with one.
९.९.३२
सत्यसेनस्य च धनुर्हस्तावापं च मारिष ।
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः ॥
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः ॥
M N Dutt
Without losing a moment, he then cut off the boy and the leathern fence of Saryasena also, at which all the troops there sent up a loud shout.
९.९.३३
अथान्यद्धनुरादाय वेगघ्नं भारसाधनम् ।
शरैः संछादयामास समन्तात्पाण्डुनन्दनम् ॥
शरैः संछादयामास समन्तात्पाण्डुनन्दनम् ॥
M N Dutt
Satyasena, taking up another foe-slaying and powerful bow, covered the son of Pandu with arrows on all sides.
९.९.३४
संनिवार्य तु तान्बाणान्नकुलः परवीरहा ।
सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत ॥
सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत ॥
M N Dutt
Baffling those arrows Nakula, that slayer of hostile heroes, struck each of his antagonists with a couple of arrows.
९.९.३५
तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः ।
सारथिं चास्य राजेन्द्र शरैर्विव्यधतुः शितैः ॥
सारथिं चास्य राजेन्द्र शरैर्विव्यधतुः शितैः ॥
M N Dutt
Each of the latter separately struck the son of Pandu in return with ma..y straight coursing arrows. Afterwards they struck Nakula's driver also with many keen arrows.
९.९.३६
सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा ।
पृथक्शराभ्यां चिच्छेद कृतहस्तः प्रतापवान् ॥
पृथक्शराभ्यां चिच्छेद कृतहस्तः प्रतापवान् ॥
M N Dutt
The brave and light-handed Satyasena then cut off without his brother's help the shafts of Nakula's car and his bow with a couple of arrows.
९.९.३७
स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत् ।
स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम् ॥
स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम् ॥
M N Dutt
The great car warrior Nakula, however, standing on his car, took up a golden mounted and keen dart steeped in oil and exceedingly bright.
९.९.३८
लेलिहानामिव विभो नागकन्यां महाविषाम् ।
समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे ॥
समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे ॥
M N Dutt
It resembled, O king, a she-snake of dreadful poison, frequently darting out her tongue. Raising that weapon he hurled it at Satyasena in that battle.
९.९.३९
सा तस्य हृदयं संख्ये बिभेद शतधा नृप ।
स पपात रथाद्भूमौ गतसत्त्वोऽल्पचेतनः ॥
स पपात रथाद्भूमौ गतसत्त्वोऽल्पचेतनः ॥
M N Dutt
That dart, O king, cut the heart of Satyasena in that battle into a hundred pieces and he fell down dead upon the Earth from his car.
९.९.४०
भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्छितः ।
अभ्यवर्षच्छरैस्तूर्णं पदातिं पाण्डुनन्दनम् ॥
अभ्यवर्षच्छरैस्तूर्णं पदातिं पाण्डुनन्दनम् ॥
M N Dutt
Beholding his brother killed Sushena, beside himself with rage, suddenly made Nakula careless in that battle. Without losing a moment, he poured arrows over the son of Pandu fighting on foot. He pierced four arrows and destroyed his four cars. Again he pierced five and cut off his flag. Then by three the son of Karna killed charioteer and uttered a loud leonine roar.
९.९.४१
नकुलं विरथं दृष्ट्वा द्रौपदेयो महाबलः ।
सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे ॥
सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे ॥
M N Dutt
Seeing Nakula carless, the mighty carwarrior Sutasoma, the son of Draupadi rushed, there for rescuing his father in battle.
९.९.४२
ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम् ।
शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी ।
सोऽन्यत्कार्मुकमादाय सुषेणं समयोधयत् ॥
शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी ।
सोऽन्यत्कार्मुकमादाय सुषेणं समयोधयत् ॥
M N Dutt
Riding then the car of Sutasoma, Nakula, that hero of Bharata's race, looked beautiful like a lion upon a mountain. Then taking up another bow, he fought with Sushena.
९.९.४३
तावुभौ शरवर्षाभ्यां समासाद्य परस्परम् ।
परस्परवधे यत्नं चक्रतुः सुमहारथौ ॥
परस्परवधे यत्नं चक्रतुः सुमहारथौ ॥
M N Dutt
Those two great car-warriors, approaching each other and discharging arrows, tried to kill each other.
९.९.४४
सुषेणस्तु ततः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः ।
सुतसोमं च विंशत्या बाह्वोरुरसि चार्पयत् ॥
सुतसोमं च विंशत्या बाह्वोरुरसि चार्पयत् ॥
M N Dutt
Then Sushena, filled with rage, struck the son of Pandu with three arrows and Sutasoma with twenty in the arms and the chest.
९.९.४५
ततः क्रुद्धो महाराज नकुलः परवीरहा ।
शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् ॥
शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् ॥
M N Dutt
At this the impetuous Nakula, O king, that slayer of hostile heroes, covered all the points of the compass with shafts.
९.९.४६
ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् ।
स वेगयुक्तं चिक्षेप कर्णपुत्रस्य संयुगे ॥
स वेगयुक्तं चिक्षेप कर्णपुत्रस्य संयुगे ॥
M N Dutt
Then taking up a sharp and powerful arrow having a semi-circular head, Nakula shot it with great force at Karna's son in that battle.
९.९.४७
तस्य तेन शिरः कायाज्जहार नृपसत्तम ।
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥
M N Dutt
With that arrow, O best of kings, the son of Pandu cut off from Sushena's trunk his head before all the troops. That feat was highly wonderful.
९.९.४८
स हतः प्रापतद्राजन्नकुलेन महात्मना ।
नदीवेगादिवारुग्णस्तीरजः पादपो महान् ॥
नदीवेगादिवारुग्णस्तीरजः पादपो महान् ॥
M N Dutt
Thus killed by the illustrious Nakula Karna's son drooped down like a tall tree on the bank of a river thrown down by the current of the river.
९.९.४९
कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम् ।
प्रदुद्राव भयात्सेना तावकी भरतर्षभ ॥
प्रदुद्राव भयात्सेना तावकी भरतर्षभ ॥
M N Dutt
Seeing the destruction of Karna's son and the power of Nakula, your army, O best of Bharatas, fled away in fear.
॥ इति ९.९ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.