संजय उवाच ।
९.७.१
व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा ।
अब्रवीत्तावकान्सर्वान्संनह्यन्तां महारथाः ॥
अब्रवीत्तावकान्सर्वान्संनह्यन्तां महारथाः ॥
M N Dutt
Sanjaya said After the termination of the night king Duryodhana addressed all your soldiers, saying-Arm, you mighty car-warriors!
९.७.२
राज्ञस्तु मतमाज्ञाय समनह्यत सा चमूः ।
अयोजयन्रथांस्तूर्णं पर्यधावंस्तथापरे ॥
अयोजयन्रथांस्तूर्णं पर्यधावंस्तथापरे ॥
M N Dutt
Hearing the orders of the king, the warriors began to put on their armours. Some began to yoke horses to their card quickly, others ran about hither and thither.
९.७.३
अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः ।
हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः ॥
हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः ॥
M N Dutt
The elephants were also got ready. The infantry began to arm themselves. Thousands of attendants began to spread carpets on the cars.
९.७.४
वादित्राणां च निनदः प्रादुरासीद्विशां पते ।
बोधनार्थं हि योधानां सैन्यानां चाप्युदीर्यताम् ॥
बोधनार्थं हि योधानां सैन्यानां चाप्युदीर्यताम् ॥
M N Dutt
The sound of musical instruments, O king, arose there, for exciting the war-like spirit of the soldiers.
९.७.५
ततो बलानि सर्वाणि सेनाशिष्टानि भारत ।
संनद्धान्येव ददृशुर्मृत्युं कृत्वा निवर्तनम् ॥
संनद्धान्येव ददृशुर्मृत्युं कृत्वा निवर्तनम् ॥
M N Dutt
Then all the troops, stationed in their proper posts, were seen, O Bharata, to stand, clad in mail and determined to die.
९.७.६
शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः ।
प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः ॥
प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः ॥
M N Dutt
Having made the king of the Madras their leader, the great car-warriors, of the Kauravas, made detachments of their soldiers.
९.७.७
ततः सर्वे समागम्य पुत्रेण तव सैनिकाः ।
कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः ॥
कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः ॥
M N Dutt
Then all warriors, with Kripa and Kritavarman and Drona's son and Shalya, Subala's son and the other kings that were yet। alive, met your son and settled, that none of them would individually fight with the Pandavas.
९.७.८
अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा ।
न न एकेन योद्धव्यं कथंचिदपि पाण्डवैः ॥
न न एकेन योद्धव्यं कथंचिदपि पाण्डवैः ॥
M N Dutt
Then all warriors, with Kripa and Kritavarman and Drona's son and Shalya, Subala's son and the other kings that were yet। alive, met your son and settled, that none of them would individually fight with the Pandavas.
९.७.९
यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् ।
स पञ्चभिर्भवेद्युक्तः पातकैः सोपपातकैः ।
अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः ॥
स पञ्चभिर्भवेद्युक्तः पातकैः सोपपातकैः ।
अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः ॥
M N Dutt
And they said-"He who will fight alone with the Pandavas or he that will leave a comrade engaged in fight, will be visited by the five grave and all the minor sins.”—–And they said-"Do not fight Ashvatthama alone, son of Drona. All of us, unitedly will fight with the enemy.
९.७.१०
एवं ते समयं कृत्वा सर्वे तत्र महारथाः ।
मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान् ॥
मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान् ॥
M N Dutt
Having made this contact those great carworriers placed the king of the Madras at their head and speedily ran against their foes.
९.७.११
तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे ।
अभ्ययुः कौरवान्सर्वान्योत्स्यमानाः समन्ततः ॥
अभ्ययुः कौरवान्सर्वान्योत्स्यमानाः समन्ततः ॥
M N Dutt
Similarly, all the Pandavas, having arranged their soldiers in that great battle, proceeded against the Kauravas, O king, fighting with them.
९.७.१२
तद्बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम् ।
समुद्धूतार्णवाकारमुद्धूतरथकुञ्जरम् ॥
समुद्धूतार्णवाकारमुद्धूतरथकुञ्जरम् ॥
M N Dutt
Soon, O chief of the Bharatas, that army, whose noise resembled that of the agitated ocean and which seemed wondrous for its cars and elephants, shone like the deep with heaving billows.
धृतराष्ट्र उवाच ।
९.७.१३
द्रोणस्य भीष्मस्य च वै राधेयस्य च मे श्रुतम् ।
पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे ॥
पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे ॥
M N Dutt
Dhritarashtra said I have heard the fall of Drona, of Bhishma and the son of Radha. Tell me now of the fall of Shalya and of my son.
९.७.१४
कथं रणे हतः शल्यो धर्मराजेन संजय ।
भीमेन च महाबाहुः पुत्रो दुर्योधनो मम ॥
भीमेन च महाबाहुः पुत्रो दुर्योधनो मम ॥
M N Dutt
How, O Sanjaya, was Shalya killed by the . righteous king Yudhishthira? And how was my son Duryodhana slain by the powerful Bhimasena?
संजय उवाच ।
९.७.१५
क्षयं मनुष्यदेहानां रथनागाश्वसंक्षयम् ।
शृणु राजन्स्थिरो भूत्वा संग्रामं शंसतो मम ॥
शृणु राजन्स्थिरो भूत्वा संग्रामं शंसतो मम ॥
M N Dutt
Sanjaya said Hear, O king, patiently of the destruction of human beings, elephants and horses as I describe the battle.
९.७.१६
आशा बलवती राजन्पुत्राणां तेऽभवत्तदा ।
हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते ।
शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष ॥
हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते ।
शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष ॥
M N Dutt
O king, your sons became very sanguine that, after Drona and Bhishma and the Suta's son had been killed, Shalya would kill all the sons of Pritha in battle.
९.७.१७
तामाशां हृदये कृत्वा समाश्वास्य च भारत ।
मद्रराजं च समरे समाश्रित्य महारथम् ।
नाथवन्तमथात्मानममन्यत सुतस्तव ॥
मद्रराजं च समरे समाश्रित्य महारथम् ।
नाथवन्तमथात्मानममन्यत सुतस्तव ॥
M N Dutt
Cherishing that hope in his heart and being comforted, O Bharata, your son Duryodhana, relying in battle upon that great car-carrier, the ruler of the Madras, thought himself as having a protector.
९.७.१८
यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे ।
तदा राजन्धार्तराष्ट्रानाविवेश महद्भयम् ॥
तदा राजन्धार्तराष्ट्रानाविवेश महद्भयम् ॥
M N Dutt
When after Karna's fall Partha sent up leonine war-cries your sons were possessed by a mighty fear.
९.७.२०
प्रत्युद्यातो रणे पार्थान्मद्रराजः प्रतापवान् ।
विधुन्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् ॥
विधुन्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् ॥
M N Dutt
Assuring him the valiant king of the Madras, having formed, O king, a grand array, proceeded against the Parthas in battle. And the brave king of the Madras possessed, shaking his beautiful and strong bow capable of shooting arrows with great force.
९.७.२१
रथप्रवरमास्थाय सैन्धवाश्वं महारथः ।
तस्य सीता महाराज रथस्थाशोभयद्रथम् ॥
तस्य सीता महाराज रथस्थाशोभयद्रथम् ॥
M N Dutt
And that mighty car-warrior drove an excellent car having horses of the Sindhu breed yoked to it. Riding upon his car, his driver made the car resplendent.
९.७.२२
स तेन संवृतो वीरो रथेनामित्रकर्शनः ।
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् ॥
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् ॥
M N Dutt
Protected by that car, that hero, that brave destroyer of foes, stood, O king dissipating the fears of your sons.
९.७.२३
प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः ।
मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः ॥
मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः ॥
M N Dutt
The king of the Madras, clad in mail, proceeded at the head of the army accompanied by the brave Madrakas and the invincible sons of Karna.
९.७.२४
सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः ।
गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह ॥
गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह ॥
M N Dutt
On the left stood Kritavarman, surrounded by the Trigartas. On the right was (Kripa) with the Sakas and the Yavanas.
९.७.२५
अश्वत्थामा पृष्ठतोऽभूत्काम्बोजैः परिवारितः ।
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुंगवैः ॥
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुंगवैः ॥
M N Dutt
In the rear was Ashvathaman surrounded by the Kambojas. In the centre was Duryodhana, protected by the best of Kuru warriors.
९.७.२६
हयानीकेन महता सौबलश्चापि संवृतः ।
प्रययौ सर्वसैन्येन कैतव्यश्च महारथः ॥
प्रययौ सर्वसैन्येन कैतव्यश्च महारथः ॥
M N Dutt
Surrounded by a large army of cavalry and other troops, Subala's son, Sakuni, as also the great car-warrior, Uluka, proceeded with others.
९.७.२७
पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिंदमाः ।
त्रिधा भूत्वा महाराज तव सैन्यमुपाद्रवन् ॥
त्रिधा भूत्वा महाराज तव सैन्यमुपाद्रवन् ॥
M N Dutt
The great bowmen amongst the Pandavas, those chastisers of foes, dividing themselves, O king, into three divisions, rushed against your troops.
९.७.२८
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः ।
शल्यस्य वाहिनीं तूर्णमभिदुद्रुवुराहवे ॥
शल्यस्य वाहिनीं तूर्णमभिदुद्रुवुराहवे ॥
M N Dutt
Dhrishtadyumna and Shikhandin and the great car-warrior Satyaki proceeded quickly against the army of Shalya.
९.७.२९
ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः ।
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभ ॥
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभ ॥
M N Dutt
Then king Yudhishthira, accompanied by his soldiers, rushed against Shalya alone, with a view to kill him, O best of Bharata's race.
९.७.३०
हार्दिक्यं तु महेष्वासमर्जुनः शत्रुपूगहा ।
संशप्तकगणांश्चैव वेगतोऽभिविदुद्रुवे ॥
संशप्तकगणांश्चैव वेगतोऽभिविदुद्रुवे ॥
M N Dutt
Arjuna, the slayer of foes, rushed against that great bowman, Kritavarman and the Samsaptakas.
९.७.३१
गौतमं भीमसेनो वै सोमकाश्च महारथाः ।
अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान्युधि ॥
अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान्युधि ॥
M N Dutt
Bhimasena and the great car-warriors among the Somakas rushed, O monarch, against Kripa, desirous of killing their enemies in battle.
९.७.३२
माद्रीपुत्रौ तु शकुनिमुलूकं च महारथौ ।
ससैन्यौ सहसेनौ तावुपतस्थतुराहवे ॥
ससैन्यौ सहसेनौ तावुपतस्थतुराहवे ॥
M N Dutt
The two sons of Madri, accompanied by their soldiers, proceeded against Sakuni and the great car-warrior Uluka at the head of their forces.
९.७.३३
तथैवायुतशो योधास्तावकाः पाण्डवान्रणे ।
अभ्यद्रवन्त संक्रुद्धा विविधायुधपाणयः ॥
अभ्यद्रवन्त संक्रुद्धा विविधायुधपाणयः ॥
M N Dutt
Similarly, thousands of warriors, of your army, armed with various weapons and filled with anger, proceeded against the Pandavas in that battle.
धृतराष्ट्र उवाच ।
९.७.३४
हते भीष्मे महेष्वासे द्रोणे कर्णे महारथे ।
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे ॥
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे ॥
M N Dutt
Dhritarashtra said After the fall of the great bowmen Bhishma and Drona and the great car-warrior Karna and after both the Kurus and the Pandavas had been lessened in numbers and when the powerful Parthas became once more angry in battle, what, O Sanjaya, was the strength of each of the armies.
संजय उवाच ।
९.७.३६
यथा वयं परे राजन्युद्धाय समवस्थिताः ।
यावच्चासीद्बलं शिष्टं संग्रामे तन्निबोध मे ॥
यावच्चासीद्बलं शिष्टं संग्रामे तन्निबोध मे ॥
M N Dutt
Sanjaya said Hear, O king, how we and the enemy both stood for battle on that occasion and what was then the relative strength of the two armies.
९.७.३९
रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः ।
दश चाश्वसहस्राणि पत्तिकोटी च भारत ॥
दश चाश्वसहस्राणि पत्तिकोटी च भारत ॥
M N Dutt
Six thousand cars, six thousand elephants, ten thousand horse and one million of foot, O Bharata, war the remnant of the Pandava force in that battle. These, O best of Bharata's race, met each other for battle.
९.७.४१
एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः ।
पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः ॥
पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः ॥
M N Dutt
Having divided our armies in this way, O) king, we, worked up with wrath and filled with the desire of victory, rushed against the Pandavas, under the command of the king of the Madras.
९.७.४२
तथैव पाण्डवाः शूराः समरे जितकाशिनः ।
उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः ॥
उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः ॥
M N Dutt
Similarly, the brave Pandavas, those foremost of men, desirous of killing their enemies, encountered one another early in the morning, O king.
९.७.४३
एवमेते बलौघेन परस्परवधैषिणः ।
उपयाता नरव्याघ्राः पूर्वां संध्यां प्रति प्रभो ॥
उपयाता नरव्याघ्राः पूर्वां संध्यां प्रति प्रभो ॥
M N Dutt
Similarly, the brave Pandavas, those foremost of men, desirous of killing their enemies, encountered one another early in the morning, O king.
९.७.४४
ततः प्रववृते युद्धं घोररूपं भयानकम् ।
तावकानां परेषां च निघ्नतामितरेतरम् ॥
तावकानां परेषां च निघ्नतामितरेतरम् ॥
M N Dutt
Then began a battle once more that was highly terrific, between your troops and the enemy, that resembled the one between the gods and demons.
॥ इति ९.७ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.