जनमेजय उवाच ।
९.४६.१
अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः ।
अभिषेकं कुमारस्य विस्तरेण यथाविधि ॥
अभिषेकं कुमारस्य विस्तरेण यथाविधि ॥
M N Dutt
Janamejaya said "This history, O Rishi, that I have heard from you is highly wonderful, namely this detailed description of the installation according to due rites of Skanda.
९.४६.२
यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन ।
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम ॥
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम ॥
M N Dutt
O you having asceticism for your wealth, I consider myself cleansed by having listened to this account. My hair stands on end and my mind has become cheerful.
९.४६.३
अभिषेकं कुमारस्य दैत्यानां च वधं तथा ।
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे ॥
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे ॥
M N Dutt
Having heard the history of the installation of Kumara and the destruction of the Daityas, I have been greatly pleased, I feel a curiosity, however, regarding another subject.
९.४६.४
अपां पतिः कथं ह्यस्मिन्नभिषिक्तः सुरासुरैः ।
तन्मे ब्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम ॥
तन्मे ब्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम ॥
M N Dutt
How was the king of the waters installed by the celestials in that Tirtha formerly. O best of men, tell me all that, for you are highly wise and are skilled narrator.
वैशंपायन उवाच ।
९.४६.५
शृणु राजन्निदं चित्रं पूर्वकल्पे यथातथम् ।
आदौ कृतयुगे तस्मिन्वर्तमाने यथाविधि ।
वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् ॥
आदौ कृतयुगे तस्मिन्वर्तमाने यथाविधि ।
वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् ॥
M N Dutt
Vaishampayana said "Listen, O king, to this wonderful history as it took place in a previous Kalpa. In days of Yore, in the Satya Yoga, O king, all the celestials, duly approaching Varuna, said to him these words.
९.४६.१२
ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु ।
अग्नितीर्थं महाप्राज्ञः स जगाम प्रलम्बहा ।
नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः ॥
अग्नितीर्थं महाप्राज्ञः स जगाम प्रलम्बहा ।
नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः ॥
M N Dutt
Bathing in that Tirtha also and giving away various kinds of presents, Baladeva, the destroyer of Pralamba, endued with great wisdom, then proceeded to Agni Tirtha, where to the cater of the clarified butter, disappearing from the view, became concealed within the entrails of the Shami word.
९.४६.१३
लोकालोकविनाशे च प्रादुर्भूते तदानघ ।
उपतस्थुर्महात्मानं सर्वलोकपितामहम् ॥
उपतस्थुर्महात्मानं सर्वलोकपितामहम् ॥
M N Dutt
When the light of the words thus disappeared, O sinless one, the gods then went to the Grandsire of the universe.
९.४६.१४
अग्निः प्रनष्टो भगवान्कारणं च न विद्महे ।
सर्वलोकक्षयो मा भूत्संपादयतु नोऽनलम् ॥
सर्वलोकक्षयो मा भूत्संपादयतु नोऽनलम् ॥
M N Dutt
And they said-"The worshipful Agni has disappeared. We do not know the reason. Let not creation go to destruction. Create fire, O powerful Lord?"
जनमेजय उवाच ।
९.४६.१५
किमर्थं भगवानग्निः प्रनष्टो लोकभावनः ।
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः ॥
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः ॥
M N Dutt
Janamejaya said "For what reason did Agni, the Creator of all the worlds, disappear? How also was he found out by the celestials? Tell me all this fully."
वैशंपायन उवाच ।
९.४६.१६
भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् ।
शमीगर्भमथासाद्य ननाश भगवांस्ततः ॥
शमीगर्भमथासाद्य ननाश भगवांस्ततः ॥
M N Dutt
Vaishampayana said The highly powerful Agni became very much frightened at the curse of Bhrigu, Concealing himself within the entrails of the Shami wood, that worshipful god disappeared from the view.
९.४६.१७
प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः ।
अन्वेषन्त तदा नष्टं ज्वलनं भृशदुःखिताः ॥
अन्वेषन्त तदा नष्टं ज्वलनं भृशदुःखिताः ॥
M N Dutt
Upon the disappearance of Agni, all the gods led by Vasava, in great affliction, searched for the missing god.
९.४६.१८
ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि ।
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि ॥
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि ॥
M N Dutt
Finding Agni then, they saw that god lying within the entrails of the Shami wood,
९.४६.१९
देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः ।
ज्वलनं तं समासाद्य प्रीताभूवन्सवासवाः ।
पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् ॥
ज्वलनं तं समासाद्य प्रीताभूवन्सवासवाः ।
पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् ॥
M N Dutt
The celestials, O foremost of kings, with Brihaspati at their head, having found out the god, became very glad with Vasava amongst them.
९.४६.२१
ससर्ज भगवान्यत्र सर्वलोकपितामहः ।
तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा ।
ससर्ज चान्नानि तथा देवतानां यथाविधि ॥
तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा ।
ससर्ज चान्नानि तथा देवतानां यथाविधि ॥
M N Dutt
Formerly the Lord Bramhan having with all the gods bathed in that Tirtha, created all the Tirthas according to due rites, for the celestials.
९.४६.२२
तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च ।
कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत्तपः ।
धनाधिपत्यं संप्राप्तो राजन्नैलबिलः प्रभुः ॥
कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत्तपः ।
धनाधिपत्यं संप्राप्तो राजन्नैलबिलः प्रभुः ॥
M N Dutt
Bathing there and distributing various kinds of gifts, Baladeva then proceeded to the Tirtha called Kaurava where the powerful Ailavila, having practised severe austerities, became the king of riches.
९.४६.२३
तत्रस्थमेव तं राजन्धनानि निधयस्तथा ।
उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली ततः ।
गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ ॥
उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली ततः ।
गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ ॥
M N Dutt
While he dwelt there (practising austerities), all kinds of wealth and all the precious gems, came to him of their own accord. Baladeva, having gone to that Tirtha and bathed in its waters, distributed immense wealth amongst the Brahmanas with due rites.
९.४६.२४
ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे ।
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना ॥
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना ॥
M N Dutt
Rama saw at that spot the excellent woods of Kuvera. In days of yore, the great Kuvera the king of the Yakshas, having practised the severest austerities there, obtained many boons.
९.४६.२९
निषेवितं सर्वसत्त्वैर्नाम्ना बदरपाचनम् ।
नानर्तुकवनोपेतं सदापुष्पफलं शुभम् ॥
नानर्तुकवनोपेतं सदापुष्पफलं शुभम् ॥
M N Dutt
Abounding in various creatures, that Tirtha is known by the name of Badarapachana. There the fruits of every reason are always available and flowers and fruits of every kind always abundant."
॥ इति ९.४६ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.