संजय उवाच ।
९.१६.१
अथान्यद्धनुरादाय बलवद्वेगवत्तरम् ।
युधिष्ठिरं मद्रपतिर्विद्ध्वा सिंह इवानदत् ॥
युधिष्ठिरं मद्रपतिर्विद्ध्वा सिंह इवानदत् ॥
M N Dutt
Sanjaya said Taking up another very strong bow the king of the Madras struck Yudhishthira and roared like a lion.
९.१६.२
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् ।
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥
M N Dutt
That foremost of Kshatriyas, viz., Shalya of great energy poured over the Kshatriyas in that battle dense. showers of arrows like Indra pouring torrents of rain.
९.१६.३
सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः ।
सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥
सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥
M N Dutt
Piercing Satyaki with ten arrows and Bhima with three and Sahadeva with as many, he assailed Yudhishthira greatly.
९.१६.४
तांस्तानन्यान्महेष्वासान्साश्वान्सरथकुञ्जरान् ।
कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रयायिनः ।
रथांश्च रथिभिः सार्धं जघान रथिनां वरः ॥
कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रयायिनः ।
रथांश्च रथिभिः सार्धं जघान रथिनां वरः ॥
M N Dutt
That foremost of car-warriors destroyed elephants and elephant-riders, horses and horse-men and cars and car-warriors,
९.१६.५
बाहूंश्चिच्छेद च तथा सायुधान्केतनानि च ।
चकार च महीं योधैस्तीर्णां वेदीं कुशैरिव ॥
चकार च महीं योधैस्तीर्णां वेदीं कुशैरिव ॥
M N Dutt
And he cut off the arms of combatants holding weapons and the standards of cars and filled the earth with (slain) warriors like the sacrificial altar with blades of Kusha grass.
९.१६.६
तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् ।
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ॥
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ॥
M N Dutt
Then the Pandus, the Panchalas and the Somakas, encompassed angrily that hero who was thus killing their soldiers like alldestroying Death.
९.१६.७
तं भीमसेनश्च शिनेश्च नप्ता
माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।
समागतं भीमबलेन राज्ञा
पर्यापुरन्योन्यमथाह्वयन्तः ॥
माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।
समागतं भीमबलेन राज्ञा
पर्यापुरन्योन्यमथाह्वयन्तः ॥
M N Dutt
Bhimasena and the grandson of Shini and those two foremost of men, the two sons of Madri surrounded that hero while he was fighting with the highly powerful (Pandava) king. Ana all of them challenged him to battle.
९.१६.८
ततस्तु शूराः समरे नरेन्द्रं
मद्रेश्वरं प्राप्य युधां वरिष्ठम् ।
आवार्य चैनं समरे नृवीरा
जघ्नुः शरैः पत्रिभिरुग्रवेगैः ॥
मद्रेश्वरं प्राप्य युधां वरिष्ठम् ।
आवार्य चैनं समरे नृवीरा
जघ्नुः शरैः पत्रिभिरुग्रवेगैः ॥
M N Dutt
Then those heroes, O king, having obtained the king of the Madras, that best of warriors in battle, opposed that first of men in that encounter and began to strike him with powerful winged arrows.
९.१६.९
संरक्षितो भीमसेनेन राजा
माद्रीसुताभ्यामथ माधवेन ।
मद्राधिपं पत्रिभिरुग्रवेगैः
स्तनान्तरे धर्मसुतो निजघ्ने ॥
माद्रीसुताभ्यामथ माधवेन ।
मद्राधिपं पत्रिभिरुग्रवेगैः
स्तनान्तरे धर्मसुतो निजघ्ने ॥
M N Dutt
Protected by Bhimasena and the two sons of Madri and Krishna the royal son of Dharma struck the king of the Madras on the chest with powerful winged arrows.
९.१६.१०
ततो रणे तावकानां रथौघाः
समीक्ष्य मद्राधिपतिं शरार्तम् ।
पर्यावव्रुः प्रवराः सर्वशश्च
दुर्योधनस्यानुमते समन्तात् ॥
समीक्ष्य मद्राधिपतिं शरार्तम् ।
पर्यावव्रुः प्रवराः सर्वशश्च
दुर्योधनस्यानुमते समन्तात् ॥
M N Dutt
Then beholding the king of the Madras greatly wounded with arrows in that battle, the car-warriors and other combatants of your army, clad in mail and armed with weapons, surrounded him on all sides at Duryodhana's behest.
९.१६.११
ततो द्रुतं मद्रजनाधिपो रणे
युधिष्ठिरं सप्तभिरभ्यविध्यत् ।
तं चापि पार्थो नवभिः पृषत्कै
र्विव्याध राजंस्तुमुले महात्मा ॥
युधिष्ठिरं सप्तभिरभ्यविध्यत् ।
तं चापि पार्थो नवभिः पृषत्कै
र्विव्याध राजंस्तुमुले महात्मा ॥
M N Dutt
They king of the Madras at this time quickly struck Yudhishthira with seven arrows in that battle. The great son of Pritha. O king, in return, struck his foe with nine arrows in that dreadful battle.
९.१६.१२
आकर्णपूर्णायतसंप्रयुक्तैः
शरैस्तदा संयति तैलधौतैः ।
अन्योन्यमाच्छादयतां महारथौ
मद्राधिपश्चापि युधिष्ठिरश्च ॥
शरैस्तदा संयति तैलधौतैः ।
अन्योन्यमाच्छादयतां महारथौ
मद्राधिपश्चापि युधिष्ठिरश्च ॥
M N Dutt
Those two great car-warriors, viz., Shalya and Yudhishthira, began to cover each other with arrows bathed in oil and shot off bows drawn to their ears.
९.१६.१३
ततस्तु तूर्णं समरे महारथौ; परस्परस्यान्तरमीक्षमाणौ । शरैर्भृशं विव्यधतुर्नृपोत्तमौ; महाबलौ शत्रुभिरप्रधृष्यौ ॥
M N Dutt
Those two best of kings, both gifted with great strength, both incapable of being defeated by foes and both foremost of car-warriors looking at each other's loop-holes, quickly and deeply struck each other's shafts.
९.१६.१४
तयोर्धनुर्ज्यातलनिस्वनो महा
न्महेन्द्रवज्राशनितुल्यनिस्वनः ।
परस्परं बाणगणैर्महात्मनोः
प्रवर्षतोर्मद्रपपाण्डुवीरयोः ॥
न्महेन्द्रवज्राशनितुल्यनिस्वनः ।
परस्परं बाणगणैर्महात्मनोः
प्रवर्षतोर्मद्रपपाण्डुवीरयोः ॥
M N Dutt
The loud noise of their bows, bowstrings and palms, resembled that of Indra's thunder as those great car-warriors showered upon each other innumerable arrows.
९.१६.१५
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ
महावनेष्वामिषगृद्धिनाविव ।
विषाणिनौ नागवराविवोभौ
ततक्षतुः संयुगजातदर्पौ ॥
महावनेष्वामिषगृद्धिनाविव ।
विषाणिनौ नागवराविवोभौ
ततक्षतुः संयुगजातदर्पौ ॥
M N Dutt
They moved about in the field of battle like two young tigers in the deep forest fighting for a piece of meat. Elated with the pride of prowess, they wounded each other like a couple of infuriate elephants of powerful tusks.
९.१६.१६
ततस्तु मद्राधिपतिर्महात्मा
युधिष्ठिरं भीमबलं प्रसह्य ।
विव्याध वीरं हृदयेऽतिवेगं
शरेण सूर्याग्निसमप्रभेण ॥
युधिष्ठिरं भीमबलं प्रसह्य ।
विव्याध वीरं हृदयेऽतिवेगं
शरेण सूर्याग्निसमप्रभेण ॥
M N Dutt
Displaying his vigor, then the illustrious king of the Madras struck the heroic Yudhishthira of terrible might in the chest with an arrow effulgent like the fire or the sun.
९.१६.१७
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि
सुसंप्रयुक्तेन शरेण राजन् ।
जघान मद्राधिपतिं महात्मा
मुदं च लेभे ऋषभः कुरूणाम् ॥
सुसंप्रयुक्तेन शरेण राजन् ।
जघान मद्राधिपतिं महात्मा
मुदं च लेभे ऋषभः कुरूणाम् ॥
M N Dutt
Deeply struck, O king, that best of Kurus, the illustrious Yudhishthira, then struck the king of the Madras with a well aimed arrow and was filled with joy.
९.१६.१८
ततो मुहूर्तादिव पार्थिवेन्द्रो
लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः ।
शतेन पार्थं त्वरितो जघान
सहस्रनेत्रप्रतिमप्रभावः ॥
लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः ।
शतेन पार्थं त्वरितो जघान
सहस्रनेत्रप्रतिमप्रभावः ॥
M N Dutt
Regaining his consciousness within a moment that foremost of kings viz., Shalya, powerful like Indra with eyes reddened in wrath, quickly struck the son of Pritha with a hundred arrows.
९.१६.१९
त्वरंस्ततो धर्मसुतो महात्मा
शल्यस्य क्रुद्धो नवभिः पृषत्कैः ।
भित्त्वा ह्युरस्तपनीयं च वर्म
जघान षड्भिस्त्वपरैः पृषत्कैः ॥
शल्यस्य क्रुद्धो नवभिः पृषत्कैः ।
भित्त्वा ह्युरस्तपनीयं च वर्म
जघान षड्भिस्त्वपरैः पृषत्कैः ॥
M N Dutt
At this the illustrious son of Dharma, filled with rage, quickly struck Shalya's chest an then, without losing a moment, struck his golden mail with six arrows.
९.१६.२०
ततस्तु मद्राधिपतिः प्रहृष्टो
धनुर्विकृष्य व्यसृजत्पृषत्कान् ।
द्वाभ्यां क्षुराभ्यां च तथैव राज्ञ
श्चिच्छेद चापं कुरुपुंगवस्य ॥
धनुर्विकृष्य व्यसृजत्पृषत्कान् ।
द्वाभ्यां क्षुराभ्यां च तथैव राज्ञ
श्चिच्छेद चापं कुरुपुंगवस्य ॥
M N Dutt
Filled with joy, the 1. ing of the Madras then, drawing his bow and having discharged many arrows, at last cut off, with a pair of razorfaced shafts, the bow of his royal foe.
९.१६.२१
नवं ततोऽन्यत्समरे प्रगृह्य
राजा धनुर्घोरतरं महात्मा ।
शल्यं तु विद्ध्वा निशितैः समन्ता
द्यथा महेन्द्रो नमुचिं शिताग्रैः ॥
राजा धनुर्घोरतरं महात्मा ।
शल्यं तु विद्ध्वा निशितैः समन्ता
द्यथा महेन्द्रो नमुचिं शिताग्रैः ॥
M N Dutt
The illustrious Yudhishthira then, taking a new and more powerful bow in that battle, struck Shalya with many keen pointed arrows from all sides like Indra striking the Asura Namuchi.
९.१६.२२
ततस्तु शल्यो नवभिः पृषत्कै
र्भीमस्य राज्ञश्च युधिष्ठिरस्य ।
निकृत्य रौक्मे पटुवर्मणी तयो
र्विदारयामास भुजौ महात्मा ॥
र्भीमस्य राज्ञश्च युधिष्ठिरस्य ।
निकृत्य रौक्मे पटुवर्मणी तयो
र्विदारयामास भुजौ महात्मा ॥
M N Dutt
Cutting off the golden coats of mail of both Bhima and king Yudhishthira with nine arrows, the illustrious Shalya then struck the arins of both of them.
९.१६.२३
ततोऽपरेण ज्वलितार्कतेजसा
क्षुरेण राज्ञो धनुरुन्ममाथ ।
कृपश्च तस्यैव जघान सूतं
षड्भिः शरैः सोऽभिमुखं पपात ॥
क्षुरेण राज्ञो धनुरुन्ममाथ ।
कृपश्च तस्यैव जघान सूतं
षड्भिः शरैः सोऽभिमुखं पपात ॥
M N Dutt
With another razor-faced arrow effulgent like the fire of the sun, he then cut off the bow of Yudhishthira. At this time Kripa, with six arrows, killed the king's driver who fell down in front of the car.
९.१६.२४
मद्राधिपश्चापि युधिष्ठिरस्य
शरैश्चतुर्भिर्निजघान वाहान् ।
वाहांश्च हत्वा व्यकरोन्महात्मा
योधक्षयं धर्मसुतस्य राज्ञः ॥
शरैश्चतुर्भिर्निजघान वाहान् ।
वाहांश्च हत्वा व्यकरोन्महात्मा
योधक्षयं धर्मसुतस्य राज्ञः ॥
M N Dutt
The king of the Madras then killed with four arrows the four horses of Yudhishthira. Having slain the horses of the king, the great Shalya then began to kill the soldiers of the royal son of Dharma.
९.१६.२५
तथा कृते राजनि भीमसेनो
मद्राधिपस्याशु ततो महात्मा ।
छित्त्वा धनुर्वेगवता शरेण
द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् ॥
मद्राधिपस्याशु ततो महात्मा ।
छित्त्वा धनुर्वेगवता शरेण
द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् ॥
M N Dutt
When the (Pandava) king had been reduced to that plight, the great Bhimasena, quickly cutting off the bow of the Madra king with an arrow of great force, struck the king himself with a couple of arrows,
९.१६.२६
अथापरेणास्य जहार यन्तुः
कायाच्छिरः संनहनीयमध्यात् ।
जघान चाश्वांश्चतुरः स शीघ्रं
तथा भृशं कुपितो भीमसेनः ॥
कायाच्छिरः संनहनीयमध्यात् ।
जघान चाश्वांश्चतुरः स शीघ्रं
तथा भृशं कुपितो भीमसेनः ॥
M N Dutt
With another arrow he cut off the head of Shalya's driver from his trunk the middle of which was encased in mail. Beside himself with anger, Bhimasena next killed without a moment's delay, the four horses of his enemy.
९.१६.२७
तमग्रणीः सर्वधनुर्धराणा
मेकं चरन्तं समरेऽतिवेगम् ।
भीमः शतेन व्यकिरच्छराणां
माद्रीपुत्रः सहदेवस्तथैव ॥
मेकं चरन्तं समरेऽतिवेगम् ।
भीमः शतेन व्यकिरच्छराणां
माद्रीपुत्रः सहदेवस्तथैव ॥
M N Dutt
That foremost of all bowmen, viz., Bhima, then covered with a hundred arrows that hero who, gifted with great energy, was moving about alone in the field. Sahadeva, the son of Madri, did the same. Beholding Shalya stupefied with those arrows, Bhima cut off his armour with other arrows.
९.१६.२९
प्रगृह्य खड्गं च रथान्महात्मा
प्रस्कन्द्य कुन्तीसुतमभ्यधावत् ।
छित्त्वा रथेषां नकुलस्य सोऽथ
युधिष्ठिरं भीमबलोऽभ्यधावत् ॥
प्रस्कन्द्य कुन्तीसुतमभ्यधावत् ।
छित्त्वा रथेषां नकुलस्य सोऽथ
युधिष्ठिरं भीमबलोऽभ्यधावत् ॥
M N Dutt
His armour having been cut off by Bhimasena, the great king of Madras, taking up a sword and a shield adorned with a thousand stars, leaped down from his car and rushed towards the son of Kunti. Cutting off the shaft of Nakula's car, the powerful Shalya rushed towards Yudhishthira.
९.१६.३०
तं चापि राजानमथोत्पतन्तं
क्रुद्धं यथैवान्तकमापतन्तम् ।
धृष्टद्युम्नो द्रौपदेयाः शिखण्डी
शिनेश्च नप्ता सहसा परीयुः ॥
क्रुद्धं यथैवान्तकमापतन्तम् ।
धृष्टद्युम्नो द्रौपदेयाः शिखण्डी
शिनेश्च नप्ता सहसा परीयुः ॥
M N Dutt
Beholding him rushing with great force towards the king even like the Destroyer himself rushing in anger, Dhristadyumna and Sikhandin and the (five) sons of Draupadi and the grandson of Sini suddenly advanced towards him.
९.१६.३१
अथास्य चर्माप्रतिमं न्यकृन्त
द्भीमो महात्मा दशभिः पृषत्कः ।
खड्गं च भल्लैर्निचकर्त मुष्टौ
नदन्प्रहृष्टस्तव सैन्यमध्ये ॥
द्भीमो महात्मा दशभिः पृषत्कः ।
खड्गं च भल्लैर्निचकर्त मुष्टौ
नदन्प्रहृष्टस्तव सैन्यमध्ये ॥
M N Dutt
Then the illustrious Bhima cut off the ten arrows the matchless shield of that hero. With another broad-headed arrow he cut off the sword also of that warrior. Filled with joy at this, he cried aloud in the midst of the army.
९.१६.३२
तत्कर्म भीमस्य समीक्ष्य हृष्टा
स्ते पाण्डवानां प्रवरा रथौघाः ।
नादं च चक्रुर्भृशमुत्स्मयन्तः
शङ्खांश्च दध्मुः शशिसंनिकाशान् ॥
स्ते पाण्डवानां प्रवरा रथौघाः ।
नादं च चक्रुर्भृशमुत्स्मयन्तः
शङ्खांश्च दध्मुः शशिसंनिकाशान् ॥
M N Dutt
Beholding that feat of Bhima, all the foremost car-warriors among the Pandavas were filled with joy. Laughing aloud, they uttered terrible roars and blew their moonwhite conchs.
९.१६.३३
तेनाथ शब्देन विभीषणेन
तवाभितप्तं बलमप्रहृष्टम् ।
स्वेदाभिभूतं रुधिरोक्षिताङ्गं
विसंज्ञकल्पं च तथा विषण्णम् ॥
तवाभितप्तं बलमप्रहृष्टम् ।
स्वेदाभिभूतं रुधिरोक्षिताङ्गं
विसंज्ञकल्पं च तथा विषण्णम् ॥
M N Dutt
At that terrible noise the army, protected by your warriors, were depressed, covered with sweat, bathed in blood, exceedingly melancholy and dispirited.
९.१६.३४
स मद्रराजः सहसावकीर्णो
भीमाग्रगैः पाण्डवयोधमुख्यैः ।
युधिष्ठिरस्याभिमुखं जवेन
सिंहो यथा मृगहेतोः प्रयातः ॥
भीमाग्रगैः पाण्डवयोधमुख्यैः ।
युधिष्ठिरस्याभिमुखं जवेन
सिंहो यथा मृगहेतोः प्रयातः ॥
M N Dutt
Assailed by those foremost of Pandava warriors headed by Bhimasena, the king of the Madras proceeded towards Yudhishthira, like a lion going to catch a deer.
९.१६.३५
स धर्मराजो निहताश्वसूतं
क्रोधेन दीप्तज्वलनप्रकाशम् ।
दृष्ट्वा तु मद्राधिपतिं स तूर्णं
समभ्यधावत्तमरिं बलेन ॥
क्रोधेन दीप्तज्वलनप्रकाशम् ।
दृष्ट्वा तु मद्राधिपतिं स तूर्णं
समभ्यधावत्तमरिं बलेन ॥
M N Dutt
Deprived of his car and horses, king Yudhishthira, looked like a blazing fire for the anger with which he was then excited. Beholding the king of the Madras before him, he rushed towards that foe with great force.
९.१६.३६
गोविन्दवाक्यं त्वरितं विचिन्त्य
दध्रे मतिं शल्यविनाशनाय ।
स धर्मराजो निहताश्वसूते
रथे तिष्ठञ्शक्तिमेवाभिकाङ्क्षन् ॥
दध्रे मतिं शल्यविनाशनाय ।
स धर्मराजो निहताश्वसूते
रथे तिष्ठञ्शक्तिमेवाभिकाङ्क्षन् ॥
M N Dutt
Recollecting the words of Govinda, he quickly set his heart on the destruction of Shalya. Indeed, king Yudhishthira, staying on his steedless and driverless car, waited to take up a dart.
९.१६.३७
तच्चापि शल्यस्य निशम्य कर्म
महात्मनो भागमथावशिष्टम् ।
स्मृत्वा मनः शल्यवधे यतात्मा
यथोक्तमिन्द्रावरजस्य चक्रे ॥
महात्मनो भागमथावशिष्टम् ।
स्मृत्वा मनः शल्यवधे यतात्मा
यथोक्तमिन्द्रावरजस्य चक्रे ॥
M N Dutt
Beholding that feat of Shalya and thinking that the person who had been allotted to him as his share was not yet killed the son of Pandu firmly made up his mind to do what Indra's younger brother had advised him to do.
९.१६.३८
स धर्मराजो मणिहेमदण्डां
जग्राह शक्तिं कनकप्रकाशाम् ।
नेत्रे च दीप्ते सहसा विवृत्य
मद्राधिपं क्रुद्धमना निरैक्षत् ॥
जग्राह शक्तिं कनकप्रकाशाम् ।
नेत्रे च दीप्ते सहसा विवृत्य
मद्राधिपं क्रुद्धमना निरैक्षत् ॥
M N Dutt
King Yudhishthira took up a dart whose handle was made of gold and set with gems and which was bright like gold. Rolling his wide open eyes, he looked at the king of Madras, his heart filled with anger.
९.१६.३९
निरीक्षितो वै नरदेव राज्ञा
पूतात्मना निर्हृतकल्मषेण ।
अभून्न यद्भस्मसान्मद्रराज
स्तदद्भुतं मे प्रतिभाति राजन् ॥
पूतात्मना निर्हृतकल्मषेण ।
अभून्न यद्भस्मसान्मद्रराज
स्तदद्भुतं मे प्रतिभाति राजन् ॥
M N Dutt
Thus looked at, O god among men, by that king of pure and sinless soul the king of the Madras was not reduced to ashes. This was indeed wonderful, O monarch.
९.१६.४०
ततस्तु शक्तिं रुचिरोग्रदण्डां
मणिप्रवालोज्ज्वलितां प्रदीप्ताम् ।
चिक्षेप वेगात्सुभृशं महात्मा
मद्राधिपाय प्रवरः कुरूणाम् ॥
मणिप्रवालोज्ज्वलितां प्रदीप्ताम् ।
चिक्षेप वेगात्सुभृशं महात्मा
मद्राधिपाय प्रवरः कुरूणाम् ॥
M N Dutt
The chief of the Kurus then hurled with great force at the king of the Madras that blazing dart of beautiful and fierce handle set with gems and corals.
९.१६.४१
दीप्तामथैनां महता बलेन
सविस्फुलिङ्गां सहसा पतन्तीम् ।
प्रैक्षन्त सर्वे कुरवः समेता
यथा युगान्ते महतीमिवोल्काम् ॥
सविस्फुलिङ्गां सहसा पतन्तीम् ।
प्रैक्षन्त सर्वे कुरवः समेता
यथा युगान्ते महतीमिवोल्काम् ॥
M N Dutt
All the Kauravas beheld that blazing dart sending forth scintillations of fire as it passed through the sky after having been discharged with great force, like a large meteor dropping from the sky at the end of the cycle.
९.१६.४२
तां कालरात्रीमिव पाशहस्तां
यमस्य धात्रीमिव चोग्ररूपाम् ।
सब्रह्मदण्डप्रतिमाममोघां
ससर्ज यत्तो युधि धर्मराजः ॥
यमस्य धात्रीमिव चोग्ररूपाम् ।
सब्रह्मदण्डप्रतिमाममोघां
ससर्ज यत्तो युधि धर्मराजः ॥
M N Dutt
King Yudhishthira, in that battle, carefully discharged that dart which resembled the Death-night armed with the dreadful noose or the dreadful mother of Yama himself and which like the Brahmana's curse, was of sure effect.
९.१६.४३
गन्धस्रगग्र्यासनपानभोजनै
रभ्यर्चितां पाण्डुसुतैः प्रयत्नात् ।
संवर्तकाग्निप्रतिमां ज्वलन्तीं
कृत्यामथर्वाङ्गिरसीमिवोग्राम् ॥
रभ्यर्चितां पाण्डुसुतैः प्रयत्नात् ।
संवर्तकाग्निप्रतिमां ज्वलन्तीं
कृत्यामथर्वाङ्गिरसीमिवोग्राम् ॥
M N Dutt
Carefully the sons of Pandu had always worshipped that weapon with scents, garland, seats and the best food and drinks. That weapon seemed to born like the Samvartaka fire and was as dreadful as a rite performed according to the Atharvan of Angirasa.
९.१६.४४
ईशानहेतोः प्रतिनिर्मितां तां
त्वष्ट्रा रिपूणामसुदेहभक्षाम् ।
भूम्यन्तरिक्षादिजलाशयानि
प्रसह्य भूतानि निहन्तुमीशाम् ॥
त्वष्ट्रा रिपूणामसुदेहभक्षाम् ।
भूम्यन्तरिक्षादिजलाशयानि
प्रसह्य भूतानि निहन्तुमीशाम् ॥
M N Dutt
Made by Tashtri the celestial architect for the use of Shiva it destroyed the vital airs and the bodies of all foes. It could destroy by its force the earth, the sky and all the reservoirs of water and animals of every description.
९.१६.४५
घण्टापताकामणिवज्रभाजं
वैडूर्यचित्रां तपनीयदण्डाम् ।
त्वष्ट्रा प्रयत्नान्नियमेन कॢप्तां
ब्रह्मद्विषामन्तकरीममोघाम् ॥
वैडूर्यचित्रां तपनीयदण्डाम् ।
त्वष्ट्रा प्रयत्नान्नियमेन कॢप्तां
ब्रह्मद्विषामन्तकरीममोघाम् ॥
M N Dutt
Adorned with bells, flags, gems, diamonds, lapis lazuli and equipt with a golden handle, the celestial Architect himself had made it with great care after having practised many vows. This fatal weapon was destructive of all haters of Brahma.
९.१६.४६
बलप्रयत्नादधिरूढवेगां
मन्त्रैश्च घोरैरभिमन्त्रयित्वा ।
ससर्ज मार्गेण च तां परेण
वधाय मद्राधिपतेस्तदानीम् ॥
मन्त्रैश्च घोरैरभिमन्त्रयित्वा ।
ससर्ज मार्गेण च तां परेण
वधाय मद्राधिपतेस्तदानीम् ॥
M N Dutt
Having inspired it with many mantras and impregnated it with terrible velocity by the exercise of great power and care, king Yudhishthira hurled it by the best path for the destruction of the king of the Madras.
९.१६.४७
हतोऽस्यसावित्यभिगर्जमानो
रुद्रोऽन्तकायान्तकरं यथेषुम् ।
प्रसार्य बाहुं सुदृढं सुपाणिं
क्रोधेन नृत्यन्निव धर्मराजः ॥
रुद्रोऽन्तकायान्तकरं यथेषुम् ।
प्रसार्य बाहुं सुदृढं सुपाणिं
क्रोधेन नृत्यन्निव धर्मराजः ॥
M N Dutt
Saying in a loud voice the words-"you are killed, O wretch”-the king hurled it, even as Rudra had, in days of yore, shot his arrow for the destruction of the Asura Andhaka, extending his strong arm adorned with a beautiful hand and dancing in anger.
९.१६.४८
तां सर्वशक्त्या प्रहितां स शक्तिं
युधिष्ठिरेणाप्रतिवार्यवीर्याम् ।
प्रतिग्रहायाभिननर्द शल्यः
सम्यग्घुतामग्निरिवाज्यधाराम् ॥
युधिष्ठिरेणाप्रतिवार्यवीर्याम् ।
प्रतिग्रहायाभिननर्द शल्यः
सम्यग्घुतामग्निरिवाज्यधाराम् ॥
M N Dutt
Shalya cried aloud and tried to catch that excellent dart of great energy hurled by Yudhishthira with all his strength even as a fire laps forth for catching the clarified butter poured over it.
९.१६.४९
सा तस्य मर्माणि विदार्य शुभ्र
मुरो विशालं च तथैव वर्म ।
विवेश गां तोयमिवाप्रसक्ता
यशो विशालं नृपतेर्दहन्ती ॥
मुरो विशालं च तथैव वर्म ।
विवेश गां तोयमिवाप्रसक्ता
यशो विशालं नृपतेर्दहन्ती ॥
M N Dutt
Cutting through his very vitals and his fair and broad chest, that dart entered the Earth as easily as it would water without the slightest obstruction and carrying away the world-wide reputation of Shalya.
॥ इति ९.१६ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.