संजय उवाच ।
८.३३.१
विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत् ।
रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ॥
रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ॥
M N Dutt
Sanjaya said Riving through that army Karna encountered the pious king surrounded by thousands of cars, elephants, horses and footsoldiers.
८.३३.२
नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषः ।
छित्त्वा बाणशतैरुग्रैस्तानविध्यदसंभ्रमः ॥
छित्त्वा बाणशतैरुग्रैस्तानविध्यदसंभ्रमः ॥
M N Dutt
Sundering with hundreds of dreadful shafts the thousands of arms discharged at him by his enemies Karna fearlessly went through the army.
८.३३.३
निचकर्त शिरांस्येषां बाहूनूरूंश्च सर्वशः ।
ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः ॥
ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः ॥
M N Dutt
The charioteer's son sundered the heads, the arms and the things of his enemies who, deprived of life, fell down on earth. Others, finding their division dispersed, took to their heels.
८.३३.४
द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः ।
अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे ॥
अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे ॥
M N Dutt
The Dravida, the Andhaka and the Nishada infantry, excited by Satyaki once more rushed upon Karna with a view to kill him in that battle.
८.३३.५
ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः ।
पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा ॥
पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा ॥
M N Dutt
Shorn of their arms and head-dresses and killed by Karna with his arrows they fell down all at once on earth like a forest of Sala trees cut down.
८.३३.६
एवं योधशतान्याजौ सहस्राण्ययुतानि च ।
हतानीयुर्महीं देहैर्यशसापूरयन्दिशः ॥
हतानीयुर्महीं देहैर्यशसापूरयन्दिशः ॥
M N Dutt
Deprived of life and filling the heaven and earth with their fame, hundreds, thousands and ten thousands of warriors fell down with their bodies on earth.
८.३३.७
अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम् ।
रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधैरिव ॥
रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधैरिव ॥
M N Dutt
The Pandus and Panchalas obstructed Karna, the son of Vikartana who proceeded in anger to battle like the destroyer himself even as people seek to obstruct a disease with incantations and drugs.
८.३३.८
स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम् ।
मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा ॥
मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा ॥
M N Dutt
Grinding all those combatants Karna once more rushed upon Yudhishthira like irresistible disease unchecked by incantations, drugs and rites.
८.३३.९
स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः ।
नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा ॥
नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा ॥
M N Dutt
Then obstructed by Pandus, Panchalas and Kekayas who were all desirous of rescuing the king he could not overcome them as Death cannot those conversant with Brahman.
८.३३.१०
ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम् ।
अब्रवीत्परवीरघ्नः क्रोधसंरक्तलोचनः ॥
अब्रवीत्परवीरघ्नः क्रोधसंरक्तलोचनः ॥
M N Dutt
Thereupon beholding Karna, the slayer of hostile heroes, obstructed at a distance, an Yudhishthira, with eyes reddened with anger, said-
८.३३.११
कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु ।
सदा स्पर्धसि संग्रामे फल्गुनेन यशस्विना ।
तथास्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः ॥
सदा स्पर्धसि संग्रामे फल्गुनेन यशस्विना ।
तथास्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः ॥
M N Dutt
O Karna, O son of a charioteer, O you of vain seeing, hear my words, You always challenge in fight Phalguna of quick speed. Abiding by the counsel of the son of Dhritarashtra you always obstruct us.
८.३३.१२
यद्बलं यच्च ते वीर्यं प्रद्वेषो यश्च पाण्डुषु ।
तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः ।
युद्धश्रद्धां स तेऽद्याहं विनेष्यामि महाहवे ॥
तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः ।
युद्धश्रद्धां स तेऽद्याहं विनेष्यामि महाहवे ॥
M N Dutt
You bring all your strength, energy and hatred to bear upon the Pandus. Do you display today all your great manliness. I will today give battle and destroy your desire for fight.
८.३३.१३
एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा ।
सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शितैः ॥
सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शितैः ॥
M N Dutt
Having said this to Karna, the monarch, the son of Pandu, pierced him with ten arrows, made of iron and furnished with golden wings.
८.३३.१४
तं सूतपुत्रो नवभिः प्रत्यविध्यदरिंदमः ।
वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत ॥
वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत ॥
M N Dutt
Then that Suta's son, the subduer of foes and a great bowman, pierced him in return as if smiling, O Bharata, with ten arrows furnished with heads like the calf's tooth.
८.३३.१५
ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः ।
जघान समरे शूरः शरैः संनतपर्वभिः ॥
जघान समरे शूरः शरैः संनतपर्वभिः ॥
M N Dutt
Then with two razor he killed in that battle Chandradeva and Dandadhara, the two Panchalas princes who guarded the wheels of the high-souled (Pandu king).
८.३३.१६
तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः ।
रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू ॥
रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू ॥
M N Dutt
Each of those heroes stood by Yudhishthira shining like the constellation Punarvasu by the side of the moon.
८.३३.१७
युधिष्ठिरः पुनः कर्णमविध्यत्त्रिंशता शरैः ।
सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत् ॥
सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत् ॥
M N Dutt
Yudhishthira again struck Karna with thirty arrows. He pierced Sushena and Satyasena each with three arrows.
८.३३.१८
शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम् ।
तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः ॥
तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः ॥
M N Dutt
He pierced Shalya with ninty and struk Karna with seventy-three arrows. He also struck every one of Karna's body guards with three straight arrows.
८.३३.१९
ततः प्रहस्याधिरथिर्विधुन्वानः स कार्मुकम् ।
भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन्मुदा ॥
भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन्मुदा ॥
M N Dutt
Then laughing and shaking his bow the son of Adhiratha wounded the king's body with a Bhalla, then pierce him with sixty arrows and then sent up a loud war-cry.
८.३३.२०
ततः प्रवीराः पाण्डूनामभ्यधावन्युधिष्ठिरम् ।
सूतपुत्रात्परीप्सन्तः कर्णमभ्यर्दयञ्शरैः ॥
सूतपुत्रात्परीप्सन्तः कर्णमभ्यर्दयञ्शरैः ॥
M N Dutt
Then to rescue the king many leading Pandava warriors fell upon Karna in great anger and began to assail him with their arrows.
८.३३.२२
यमौ च भीमसेनश्च शिशुपालस्य चात्मजः ।
कारूषा मत्स्यशेषाश्च केकयाः काशिकोसलाः ।
एते च त्वरिता वीरा वसुषेणमवारयन् ॥
कारूषा मत्स्यशेषाश्च केकयाः काशिकोसलाः ।
एते च त्वरिता वीरा वसुषेणमवारयन् ॥
M N Dutt
Satyaki, Chekitana, Yuyutshu, Shikhandin, the sons of Draupadi, the Prabhadrakas, the twins, Bhimasena, Shishupala, the Karushas, the Matsys, the Kaikeyas the Kashis and the Kosalas, all those valiant and highly active warriors assailed Vasushena.
८.३३.२३
जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः ।
वराहकर्णैर्नाराचैर्नालीकैर्निशितैः शरैः ।
वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः ॥
वराहकर्णैर्नाराचैर्नालीकैर्निशितैः शरैः ।
वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः ॥
M N Dutt
The Panchala prince Janamejaya then struck Karna with many arrows. Encircling Karna with a view to kill him they all rushed upon him with various arrows, such as boareared, Narachas, Nalika, Nishat, calf-toothed, Vipatha, razor shaped, with diverse other weapons chariots horses, elephants.
८.३३.२५
स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः ।
उदैरयद्ब्राह्ममस्त्रं शरैः संपूरयन्दिशः ॥
उदैरयद्ब्राह्ममस्त्रं शरैः संपूरयन्दिशः ॥
M N Dutt
Thus assailed on all sides by the leading Pandava warriors Karna invoked the assistance of the Brahma weapon and filled all the quarters with his arrows.
८.३३.२६
ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः ।
निर्दहन्पाण्डववनं चारु पर्यचरद्रणे ॥
निर्दहन्पाण्डववनं चारु पर्यचरद्रणे ॥
M N Dutt
Like burning fire having arrows for its scorching flame Karna fought on consuming that forest of Pandava troops.
८.३३.२७
स संवार्य महास्त्राणि महेष्वासो महात्मनाम् ।
प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम् ॥
प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम् ॥
M N Dutt
Aiming some powerful weapons and laughing the noble Karna, the great bowman, sundered the bow of that best of men, Yudhishthira.
८.३३.२८
ततः संधाय नवतिं निमेषान्नतपर्वणाम् ।
बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः ॥
बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः ॥
M N Dutt
Thereupon aiming ninety straight arrows within the twinkling of an eye Karna cut-off, with those sharp arrows, the armour of his antagonist.
८.३३.२९
तद्वर्म हेमविकृतं रराज निपतत्तदा ।
सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा ॥
सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा ॥
M N Dutt
Made of gold and set with jewels that armour looked beautiful as if it fell down like the cloud driven by the wind and smitten by the rays of the sun.
८.३३.३०
तदङ्गं पुरुषेन्द्रस्य भ्रष्टवर्म व्यरोचत ।
रत्नैरलंकृतं दिव्यैर्व्यभ्रं निशि यथा नभः ॥
रत्नैरलंकृतं दिव्यैर्व्यभ्रं निशि यथा नभः ॥
M N Dutt
The armour, adorned with jewels fallen off the body of that foremost of men, appeared like the sky in the night bespangled with stars. Having his armour sundered with those arrows the son of Pritha covered with blood.
८.३३.३२
तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः ।
सा छिन्ना भूमिमपतन्महेष्वासस्य सायकैः ॥
सा छिन्ना भूमिमपतन्महेष्वासस्य सायकैः ॥
M N Dutt
He hurled in anger at the son of Adhiratha a dart made of iron. He too cut of that (dart) shining in the sky with seven arrows; sundered with shafts by that great bowman it reached the earth.
८.३३.३३
ततो बाह्वोर्ललाटे च हृदि चैव युधिष्ठिरः ।
चतुर्भिस्तोमरैः कर्णं ताडयित्वा मुदानदत् ॥
चतुर्भिस्तोमरैः कर्णं ताडयित्वा मुदानदत् ॥
M N Dutt
Then striking Karna with four lances on his two arms, forehead and chest Yudhishthira again and again sent up loud shouts.
८.३३.३४
उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन् ।
ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम् ।
इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् ॥
ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम् ।
इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् ॥
M N Dutt
Then blood gushed out from Karna wounds. Then filled with anger breathing like a snake he cut-off his enemy's standard and struck Pandava with three Bhallas. He also cutoff his two quivers and car into pieces.
८.३३.३५
एवं पार्थो व्यपायात्स निहतप्रार्ष्टिसारथिः ।
अशक्नुवन्प्रमुखतः स्थातुं कर्णस्य दुर्मनाः ॥
अशक्नुवन्प्रमुखतः स्थातुं कर्णस्य दुर्मनाः ॥
M N Dutt
Unable to stand before Karna, thus did the son of Pritha, with his charioteer Parshin slain, cheerlessly fly away.
८.३३.४०
एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः ।
न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् ।
ततः प्रायाद्द्रुतं राजन्व्रीडन्निव जनेश्वरः ॥
न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् ।
ततः प्रायाद्द्रुतं राजन्व्रीडन्निव जनेश्वरः ॥
M N Dutt
Having said this and left off the son of Pritha the highly powerful Karna began to slay Pandava like the holder of thunder-bolt, the army of Asuras.
८.३३.४१
अथ प्रयान्तं राजानमन्वयुस्ते तदाच्युतम् ।
चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः ।
द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ ॥
चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः ।
द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ ॥
M N Dutt
Then the king Yudhishthira, O king, took to his heels quickly in great shame. Seeing the king take to his heels, the Chedis, the Pandavas, the Panchalas and the powerful carwarrior Satyaki, the heroic sons of Draupadi and the twin sons of Madri followed him of eternal glory.
८.३३.४२
ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम् ।
कुरुभिः सहितो वीरैः पृष्ठगैः पृष्ठमन्वयात् ॥
कुरुभिः सहितो वीरैः पृष्ठगैः पृष्ठमन्वयात् ॥
M N Dutt
Thereupon beholding the retreat of the army of Yudhishthira the heroes pursued them in great delight.
८.३३.४३
शङ्खभेरीनिनादैश्च कार्मुकाणां च निस्वनैः ।
बभूव धार्तराष्ट्राणां सिंहनादरवस्तदा ॥
बभूव धार्तराष्ट्राणां सिंहनादरवस्तदा ॥
M N Dutt
Then there arose the leonine shout of the sons of Dhritarashtra accompanied by the sound of bugles, conch, mridangas and the twang of bows.
८.३३.४४
युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरः ।
श्रुतकीर्तेर्महाराज दृष्टवान्कर्णविक्रमम् ॥
श्रुतकीर्तेर्महाराज दृष्टवान्कर्णविक्रमम् ॥
M N Dutt
O king, his horses become tired so getting upon quickly the car of Srutakirti, Yudhishthira began to witness the prowess of Karna.
८.३३.४५
काल्यमानं बलं दृष्ट्वा धर्मराजो युधिष्ठिरः ।
तान्योधानब्रवीत्क्रुद्धो हतैनं वै सहस्रशः ॥
तान्योधानब्रवीत्क्रुद्धो हतैनं वै सहस्रशः ॥
M N Dutt
Then beholding his own army slain the pious king Yudhishthira said to his own warriors-"Kill them; why do you sit idle?"
८.३३.४६
ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः ।
भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् ॥
भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् ॥
M N Dutt
Thereupon obtaining the command of the king all the mighty car-warriors of the Pandavas headed by Bhimasena rushed upon your sons.
८.३३.४७
अभवत्तुमुलः शब्दो योधानां तत्र भारत ।
हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस्ततः ॥
हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस्ततः ॥
M N Dutt
O Bharata, then there arose a great tumult of the warriors, chariots, elephants, horses, infantry and weapons.
८.३३.४८
उत्तिष्ठत प्रहरत प्रैताभिपततेति च ।
इति ब्रुवाणा अन्योन्यं जघ्नुर्योधा रणाजिरे ॥
इति ब्रुवाणा अन्योन्यं जघ्नुर्योधा रणाजिरे ॥
M N Dutt
“Rise, strike, face the foe" uttering those words the warriors killed one another in that great battle.
८.३३.४९
अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे ।
समावृत्तैर्नरवरैर्निघ्नद्भिरितरेतरम् ॥
समावृत्तैर्नरवरैर्निघ्नद्भिरितरेतरम् ॥
M N Dutt
On account of the showers of arrows discharged by them a shadow as that of clouds seemed to spread over the field abounding in the best of men killing those weaker then they.
॥ इति ८.३३ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.