वैशंपायन उवाच ।
व्यास उवाच ।
६.२.४
राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः ।
ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम् ॥
ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम् ॥
M N Dutt
Vyasa said O king, the (last) moment of your sons and of other kings has arrived. They have assembled to fight and they will kill one another.
६.२.५
तेषु कालपरीतेषु विनश्यत्सु च भारत ।
कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः ॥
कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः ॥
M N Dutt
O descendant of Bharata, their (last) moment having arrived, they would now all perish. Reinembering the changes that are brought by Time, do not grieve.
६.२.६
यदि त्विच्छसि संग्रामे द्रष्टुमेनं विशां पते ।
चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय ॥
चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय ॥
M N Dutt
O king, O child, if you wish to see them in battle, I shall bestow on you sight. Behold the battle.
धृतराष्ट्र उवाच ।
६.२.७
न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम ।
युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा ॥
युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा ॥
M N Dutt
Dhritarashtra said O foremost of Brahmarshis, I do not desire to see the slaughter of my friends and relatives. I shall, however, through your grace, hear the account of this battle, minutely described to me.
वैशंपायन उवाच ।
६.२.८
तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति ।
वराणामीश्वरो दाता संजयाय वरं ददौ ॥
वराणामीश्वरो दाता संजयाय वरं ददौ ॥
M N Dutt
Vaishampayana said On his not wishing to see the battle but to hear of it, that giver of boons Vyasa bestowed a boon on Sanjaya.
व्यास उवाच ।
६.२.९
एष ते संजयो राजन्युद्धमेतद्वदिष्यति ।
एतस्य सर्वं संग्रामे नपरोक्षं भविष्यति ॥
एतस्य सर्वं संग्रामे नपरोक्षं भविष्यति ॥
M N Dutt
Vyasa said ( king, this Sanjaya will describe to you this great battle. Nothing of the whole battle will remain unseen by him.
६.२.१०
चक्षुषा संजयो राजन्दिव्येनैष समन्वितः ।
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥
M N Dutt
O king, possessing a possessing a celestial vision Sanjaya will narrate the battle to you. He will possess the knowledge of every thing regarding this battle.
६.२.११
प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा ।
मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः ॥
मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः ॥
M N Dutt
Whether manifest or concealed whether occurring by day or by night, even what will be thought in the mind, will be known to Sanjaya.
६.२.१२
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः ।
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ॥
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ॥
M N Dutt
Wcapons will not cut him, exertion will not cxhaust him, this son of Gavalgani will return from battle alive.
६.२.१३
अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ ।
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥
M N Dutt
O foremost of the Bharata race, as for myself, I shall vad the fame of the Kurus and the Pandavas. Do not therefore grieve.
६.२.१४
दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि ।
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥
M N Dutt
O foremost of men, this is destiny. You should not grieve. It is not to be prevented. As for victory, it would be there where righteousness would be.
वैशंपायन उवाच ।
६.२.१५
एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः ।
पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह ॥
पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह ॥
M N Dutt
Vaishampayana said That highly exalted and holy grand father of the Kurus, having said thus, again thus spoke to Dhritarashtra.
६.२.१६
इह युद्धे महाराज भविष्यति महान्क्षयः ।
यथेमानि निमित्तानि भयायाद्योपलक्षये ॥
यथेमानि निमित्तानि भयायाद्योपलक्षये ॥
M N Dutt
Vyasa said O king, there will be a great slaughter in this battle. I also see many omens that forebode evil.
६.२.१७
श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः ।
संपतन्ति वनान्तेषु समवायांश्च कुर्वते ॥
संपतन्ति वनान्तेषु समवायांश्च कुर्वते ॥
M N Dutt
Hawks and vultures and crows and herons and cranes are coming down on the top of trees and are assembling in great numbers.
६.२.१८
अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः ।
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥
M N Dutt
These birds, becoming exceedingly glad at the prospect of the battle, are loO king down on the field of battle. Carnivorous beasts will feast on the flesh of elephants and horses.
६.२.१९
खटाखटेति वाशन्तो भैरवं भयवेदिनः ।
कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् ॥
कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् ॥
M N Dutt
Fearful herons, foreboding evil and uttering harsh cries, are going across the centre and are flying towards the south.
६.२.२०
उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत ।
उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥
उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥
M N Dutt
O descendant of Bharata, in both the twilights, morning and evening, I daily see the sun covered by headless trunks when rising or setting.
६.२.२१
श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः ।
त्रिवर्णाः परिघाः संधौ भानुमावारयन्त्युत ॥
त्रिवर्णाः परिघाः संधौ भानुमावारयन्त्युत ॥
M N Dutt
Three coloured clouds with their edges white and red and their middle black, charged with lightning and loO king like bludgeons, cover the sun in both the twilights.
६.२.२२
ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम् ।
अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति ॥
अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति ॥
M N Dutt
I have seen the sun, the moon and the stars ablaze. No difference can be found in them in the evening, I have seen this all day and all night. All this forebodes evil.
६.२.२३
अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम् ।
चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले ॥
चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले ॥
M N Dutt
Even in the night of the full moon in the month of Kartikeya the moon, having lost all its splendour, became invisible or looked like fire, the sky loO king like lotus.
६.२.२४
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः ।
राजानो राजपुत्राश्च शूराः परिघबाहवः ॥
राजानो राजपुत्राश्च शूराः परिघबाहवः ॥
M N Dutt
many heroic rulers of earth, many kings and princes, possessing great bravery and weapons loO king like maces will all be killed. They will sleep covering the earth.
६.२.२५
अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः ।
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥
M N Dutt
I during the night daily see in the sky the fearful cries of fighting boars and cats.
६.२.२६
देवताप्रतिमाश्चापि कम्पन्ति च हसन्ति च ।
वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च ॥
वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च ॥
M N Dutt
The images of gods and goddesses sometime smile, sometime tremble, and again vomit blood, perspire and drop down.
६.२.२७
अनाहता दुन्दुभयः प्रणदन्ति विशां पते ।
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥
M N Dutt
O king, drums without being beaten give out sounds. The great cars of the Kshatriyas move, though no animals are yoked to them.
६.२.२८
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा ।
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥
M N Dutt
Kokilas, wood packers, jaws, water cocks, parrots, crows, peacocks, all emit fearful cries,
६.२.२९
गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः ।
अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः ॥
अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः ॥
M N Dutt
Here and there everywhere horse men clad in armours and armed with weapons give out war cries. In the morning when the sun rises, hundreds of fights of insects are seen
६.२.३०
उभे संध्ये प्रकाशेते दिशां दाहसमन्विते ।
आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत ॥
आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत ॥
M N Dutt
O descendant of Bharata, in both the twilights, the four quarters appear to be ablaze. The clouds pour down dust and flesh.
६.२.३१
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता ।
अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ॥
अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ॥
M N Dutt
O king, she who is celebrated over the three worlds and who is praised by the pious men, en that Arundhati (constellation) keeps Vasishtha on her back.
६.२.३२
रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः ।
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥
M N Dutt
O king, the planet Shani appears with (the constellation) Rohini. The sign of the dear in the moon has deviated from its original position, a great evil is foreboded by all this.
६.२.३३
अनभ्रे च महाघोरं स्तनितं श्रूयतेऽनिशम् ।
वाहनानां च रुदतां प्रपतन्त्यश्रुबिन्दवः ॥
वाहनानां च रुदतां प्रपतन्त्यश्रुबिन्दवः ॥
M N Dutt
Even when the sky is cloudless, even then fearful roars are heard there. The animals are all weeping and tears are falling fast from their eyes.
॥ इति ६.२ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.