वैशंपायन उवाच ।
४.६०.१
भीष्मे तु संग्रामशिरो विहाय
पलायमाने धृतराष्ट्रपुत्रः ।
उच्छ्रित्य केतुं विनदन्महात्मा
स्वयं विगृह्यार्जुनमाससाद ॥
पलायमाने धृतराष्ट्रपुत्रः ।
उच्छ्रित्य केतुं विनदन्महात्मा
स्वयं विगृह्यार्जुनमाससाद ॥
M N Dutt
Vaishampayana said After Bhishma had fled away from the battle-field, the illustrious Duryodhana, hoisting up his flag, approached Arjuna with bow in hand, and sending up a loud roar.
४.६०.२
स भीमधन्वानमुदग्रवीर्यं
धनंजयं शत्रुगणे चरन्तम् ।
आकर्णपूर्णायतचोदितेन
भल्लेन विव्याध ललाटमध्ये ॥
धनंजयं शत्रुगणे चरन्तम् ।
आकर्णपूर्णायतचोदितेन
भल्लेन विव्याध ललाटमध्ये ॥
M N Dutt
Then with a dart shot from the bow drawn to the ear, he wounded, on the forehead, Dhananjaya of fierce energy, and a terrible bowman ranging in the midst of the enemies.
४.६०.३
स तेन बाणेन समर्पितेन
जाम्बूनदाभेन सुसंशितेन ।
रराज राजन्महनीयकर्मा
यथैकपर्वा रुचिरैकशृङ्गः ॥
जाम्बूनदाभेन सुसंशितेन ।
रराज राजन्महनीयकर्मा
यथैकपर्वा रुचिरैकशृङ्गः ॥
M N Dutt
And wounded with a sharp golden arrow on his forehead, that illustrious hero shone like a hill with a single peak.
४.६०.४
अथास्य बाणेन विदारितस्य
प्रादुर्बभूवासृगजस्रमुष्णम् ।
सा तस्य जाम्बूनदपुष्पचित्रा
मालेव चित्राभिविराजते स्म ॥
प्रादुर्बभूवासृगजस्रमुष्णम् ।
सा तस्य जाम्बूनदपुष्पचित्रा
मालेव चित्राभिविराजते स्म ॥
M N Dutt
Severed by his arrow warm life-blood gushed out of the wound. And piercing his forehead, that golden shaft appeared beautiful.
४.६०.६
दुर्योधनश्चापि तमुग्रतेजाः
पार्थश्च दुर्योधनमेकवीरः ।
अन्योन्यमाजौ पुरुषप्रवीरौ
समं समाजघ्नतुराजमीढौ ॥
पार्थश्च दुर्योधनमेकवीरः ।
अन्योन्यमाजौ पुरुषप्रवीरौ
समं समाजघ्नतुराजमीढौ ॥
M N Dutt
Duryodhana of fierce energy, attacked Partha, and Partha attacked him. Thus two foremost of men, born in the family of Ajamidha, struck each other in the battle.
४.६०.७
ततः प्रभिन्नेन महागजेन
महीधराभेन पुनर्विकर्णः ।
रथैश्चतुर्भिर्गजपादरक्षैः
कुन्तीसुतं जिष्णुमथाभ्यधावत् ॥
महीधराभेन पुनर्विकर्णः ।
रथैश्चतुर्भिर्गजपादरक्षैः
कुन्तीसुतं जिष्णुमथाभ्यधावत् ॥
M N Dutt
Then supported by four cars, Vikarna rushed on an infuriated elephant, huge as a mountain, against Jishnu, the son of Kunti.
४.६०.८
तमापतन्तं त्वरितं गजेन्द्रं
धनंजयः कुम्भविभागमध्ये ।
आकर्णपूर्णेन दृढायसेन
बाणेन विव्याध महाजवेन ॥
धनंजयः कुम्भविभागमध्ये ।
आकर्णपूर्णेन दृढायसेन
बाणेन विव्याध महाजवेन ॥
M N Dutt
Seeing him come quickly, Dhananjaya struck that elephant-chief on the head, between the temples, with a fierce iron shaft, discharged from the bow drawn to the ear.
४.६०.९
पार्थेन सृष्टः स तु गार्ध्रपत्र
आ पुङ्खदेशात्प्रविवेश नागम् ।
विदार्य शैलप्रवरप्रकाशं
यथाशनिः पर्वतमिन्द्रसृष्टः ॥
आ पुङ्खदेशात्प्रविवेश नागम् ।
विदार्य शैलप्रवरप्रकाशं
यथाशनिः पर्वतमिन्द्रसृष्टः ॥
M N Dutt
Like thunderbolt, hurled by Indra, smiting a hill, the arrow, with vulture wings, shot by Partha, penetrated up to the very feathers into the huge elephant.
४.६०.१०
शरप्रतप्तः स तु नागराजः
प्रवेपिताङ्गो व्यथितान्तरात्मा ।
संसीदमानो निपपात मह्यां
वज्राहतं शृङ्गमिवाचलस्य ॥
प्रवेपिताङ्गो व्यथितान्तरात्मा ।
संसीदमानो निपपात मह्यां
वज्राहतं शृङ्गमिवाचलस्य ॥
M N Dutt
Struck by the arrow that elephant-chief, greatly pained began to tremble; and being cxhausted, it fell down on the earth like a nountain summit clapped by a thunderbolt.
४.६०.११
निपातिते दन्तिवरे पृथिव्यां
त्रासाद्विकर्णः सहसावतीर्य ।
तूर्णं पदान्यष्टशतानि गत्वा
विविंशतेः स्यन्दनमारुरोह ॥
त्रासाद्विकर्णः सहसावतीर्य ।
तूर्णं पदान्यष्टशतानि गत्वा
विविंशतेः स्यन्दनमारुरोह ॥
M N Dutt
All on a sudden, getting down in great fear from the car, Vikarana ran full eight hundred paces and got on the car of Vivinshati.
४.६०.१२
निहत्य नागं तु शरेण तेन
वज्रोपमेनाद्रिवराम्बुदाभम् ।
तथाविधेनैव शरेण पार्थो
दुर्योधनं वक्षसि निर्बिभेद ॥
वज्रोपमेनाद्रिवराम्बुदाभम् ।
तथाविधेनैव शरेण पार्थो
दुर्योधनं वक्षसि निर्बिभेद ॥
M N Dutt
Having killed with that thunderbolt shaft, that elephant, huge as a hill, and resembling a mass of clouds the son of Pritha struck Duryodhana on the breast, with another arrow of the same kind.
४.६०.१३
ततो गजे राजनि चैव भिन्ने
भग्ने विकर्णे च सपादरक्षे ।
गाण्डीवमुक्तैर्विशिखैः प्रणुन्ना
स्ते योधमुख्याः सहसापजग्मुः ॥
भग्ने विकर्णे च सपादरक्षे ।
गाण्डीवमुक्तैर्विशिखैः प्रणुन्ना
स्ते योधमुख्याः सहसापजग्मुः ॥
M N Dutt
The elephant and the king having thus been both wounded and Vikarana having fled away with the followers, other warriors, smitten with the shafts discharged from the Gandiva, fled from the field in panic.
४.६०.१४
दृष्ट्वैव बाणेन हतं तु नागं
योधांश्च सर्वान्द्रवतो निशम्य ।
रथं समावृत्य कुरुप्रवीरो
रणात्प्रदुद्राव यतो न पार्थः ॥
योधांश्च सर्वान्द्रवतो निशम्य ।
रथं समावृत्य कुरुप्रवीरो
रणात्प्रदुद्राव यतो न पार्थः ॥
M N Dutt
Having seen the elephant slain by Partha, and all other heroes running away, Duryodhana, the foremost of Kurus, turning his chariot, immediately fled where Partha was not.
४.६०.१५
तं भीमरूपं त्वरितं द्रवन्तं
दुर्योधनं शत्रुसहो निषङ्गी ।
प्राक्ष्वेडयद्योद्धुमनाः किरीटी
बाणेन विद्धं रुधिरं वमन्तम् ॥
दुर्योधनं शत्रुसहो निषङ्गी ।
प्राक्ष्वेडयद्योद्धुमनाः किरीटी
बाणेन विद्धं रुधिरं वमन्तम् ॥
M N Dutt
While Duryodhana was thus taking to his heels, in great terror, pierced by that arrow, and throwing up blood, Kiritin, still eager for battle and capable of withstanding every enemy, censured him.
अर्जुन उवाच ।
४.६०.१६
विहाय कीर्तिं विपुलं यशश्च
युद्धात्परावृत्य पलायसे किम् ।
न तेऽद्य तूर्याणि समाहतानि
यथावदुद्यान्ति गतस्य युद्धे ॥
युद्धात्परावृत्य पलायसे किम् ।
न तेऽद्य तूर्याणि समाहतानि
यथावदुद्यान्ति गतस्य युद्धे ॥
M N Dutt
Arjuna said Renouncing your great fame and glory, why do you take to your heels? Why are not your trumpet blown in the same way as when you started from your kingdom.
४.६०.१७
युधिष्ठिरस्यास्मि निदेशकारी
पार्थस्तृतीयो युधि च स्थिरोऽस्मि ।
तदर्थमावृत्य मुखं प्रयच्छ
नरेन्द्रवृत्तं स्मर धार्तराष्ट्र ॥
पार्थस्तृतीयो युधि च स्थिरोऽस्मि ।
तदर्थमावृत्य मुखं प्रयच्छ
नरेन्द्रवृत्तं स्मर धार्तराष्ट्र ॥
M N Dutt
I am the obedient servant of Yudhishthira. I am the third son of Pritha, standing here for battle. Turning back, show me your face. Remember the conduct of kings, O son of Dhritarashtra.
४.६०.१८
मोघं तवेदं भुवि नामधेयं
दुर्योधनेतीह कृतं पुरस्तात् ।
न हीह दुर्योधनता तवास्ति
पलायमानस्य रणं विहाय ॥
दुर्योधनेतीह कृतं पुरस्तात् ।
न हीह दुर्योधनता तवास्ति
पलायमानस्य रणं विहाय ॥
M N Dutt
The name Duryodhana, given to you, is thus made meaningless. Where is your persistence in battle-time. Your run away leaving the battle-field.
४.६०.१९
न ते पुरस्तादथ पृष्ठतो वा
पश्यामि दुर्योधन रक्षितारम् ।
परैहि युद्धेन कुरुप्रवीर
प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष ॥
पश्यामि दुर्योधन रक्षितारम् ।
परैहि युद्धेन कुरुप्रवीर
प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष ॥
M N Dutt
O Duryodhana! As no guard is seen either in front or back of you. Hence, O chivalrous man! Immediately depart from the battle-field and save your life before you die in the hands of Arjuna.
॥ इति ४.६० ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.