अर्जुन उवाच ।
४.५५.५
धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा ।
तस्य राधेय कोपस्य विजयं पश्य मे मृधे ॥
तस्य राधेय कोपस्य विजयं पश्य मे मृधे ॥
M N Dutt
If you had suffered the miseries by having been bound by the noose or morality, you are equally bound so even now though you consider yourself free.
४.५५.६
एहि कर्ण मया सार्धं प्रतिपद्यस्व संगरम् ।
प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः ॥
प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः ॥
M N Dutt
Do you fight with me, O Karna, in the battle. Let the Kurus and your soldiers witness it.
कर्ण उवाच ।
४.५५.७
ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर ।
अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि ॥
अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि ॥
M N Dutt
Karna said Do you carry out your words into action, O Partha. That your words exceed your deeds is known in the world.
४.५५.८
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् ।
इति गृह्णामि तत्पार्थ तव दृष्ट्वापराक्रमम् ॥
इति गृह्णामि तत्पार्थ तव दृष्ट्वापराक्रमम् ॥
M N Dutt
What you deed suffer formerly was in consequence of your inability. We can admit today by seeing your prowess, O Partha.
४.५५.९
धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा ।
तथैव बद्धमात्मानमबद्धमिव मन्यसे ॥
तथैव बद्धमात्मानमबद्धमिव मन्यसे ॥
M N Dutt
Being bound by the noose of piety, I desisted, before, from taking revenge. Do you now see the result of my restrained anger in battle.
४.५५.१०
यदि तावद्वने वासो यथोक्तश्चरितस्त्वया ।
तत्त्वं धर्मार्थवित्क्लिष्टः समयं भेत्तुमिच्छसि ॥
तत्त्वं धर्मार्थवित्क्लिष्टः समयं भेत्तुमिच्छसि ॥
M N Dutt
If you had passed your exile in the same way as you said, and being distressed (for practising austerities) why do you conversant with Dharma and Artha as you are, wish to fight with me?
४.५५.११
यदि शक्रः स्वयं पार्थ युध्यते तव कारणात् ।
तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः ॥
तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः ॥
M N Dutt
If Shakra himself, O Partha, fight on your behalf, still, there will be no obstruction to my displaying my prowess.
४.५५.१२
अयं कौन्तेय कामस्ते नचिरात्समुपस्थितः ।
योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम् ॥
योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम् ॥
M N Dutt
Your wish O son of Kunti, is about to be fulfilled. You will fight with me today and see my prowess.
अर्जुन उवाच ।
४.५५.१३
इदानीमेव तावत्त्वमपयातो रणान्मम ।
तेन जीवसि राधेय निहतस्त्वनुजस्तव ॥
तेन जीवसि राधेय निहतस्त्वनुजस्तव ॥
M N Dutt
Arjuna said Up to now you had always fled from the battle while fighting with me. For this, you are still alive; but your younger brother has been slain, O son of Radha.
४.५५.१४
भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश्च कः ।
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ॥
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ॥
M N Dutt
Having seen his younger brother slain, what other man except you, would retreat from the battle-field, and then boast as you do in the midst of good men?
वैशंपायन उवाच ।
४.५५.१५
इति कर्णं ब्रुवन्नेव बीभत्सुरपराजितः ।
अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ॥
अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ॥
M N Dutt
Vaishampayana said Having thus spoken to Karna, unconquerable Bibhatsu, encountered him, discharging arrows capable of piercing the coats of mail.
४.५५.१६
प्रतिजग्राह तान्कर्णः शरानग्निशिखोपमान् ।
शरवर्षेण महता वर्षमाण इवाम्बुदः ॥
शरवर्षेण महता वर्षमाण इवाम्बुदः ॥
M N Dutt
The mighty car-warrior Karna delightedly received it with a heavy downpour of arrows like a shower of clouds.
४.५५.१७
उत्पेतुः शरजालानि घोररूपाणि सर्वशः ।
अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक् ॥
अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक् ॥
M N Dutt
That dreadful network of arrows covered, on all sides, piercing severally, the horses, arms and gloves (of the hero).
४.५५.१८
सोऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम् ।
चिच्छेद निशिताग्रेण शरेण नतपर्वणा ॥
चिच्छेद निशिताग्रेण शरेण नतपर्वणा ॥
M N Dutt
Unable to bear the attack of Karna, Arjuna cut off the string of his quiver with a keenedged and straight arrow.
४.५५.१९
उपासङ्गादुपादाय कर्णो बाणानथापरान् ।
विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत ॥
विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत ॥
M N Dutt
Then taking out other arrows from his quiver, Karna struck Arjuna with them on his hand, and the latter lost hold of his bow.
४.५५.२०
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् ।
स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः ॥
स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः ॥
M N Dutt
Then the large-armed Arjuna cut off Karnas bow into pieces. He then struck (Arjuna) with a Shakti, but Partha cut it off with his arrows.
४.५५.२१
ततोऽभिपेतुर्बहवो राधेयस्य पदानुगाः ।
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ॥
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ॥
M N Dutt
Then the heroes who followed Karna all attacked Arjunat who killed them with arrows shot from his Gandiva bow.
४.५५.२२
ततोऽस्याश्वाञ्शरैस्तीक्ष्णैर्बीभत्सुर्भारसाधनैः ।
आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन्भुवि ॥
आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन्भुवि ॥
M N Dutt
Then Bibhatsu killed his horses with sharpened arrows shot from his bow drawn to the ears, and they all fell down slain on earth.
४.५५.२३
अथापरेण बाणेन ज्वलितेन महाभुजः ।
विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान् ॥
विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान् ॥
M N Dutt
Then taking up another strong, sharp, and powerful arrow, the powerful son of Kunti struck Karna with it on his breast.
४.५५.२४
तस्य भित्त्वा तनुत्राणं कायमभ्यपतच्छरः ।
ततः स तमसाविष्टो न स्म किंचित्प्रजज्ञिवान् ॥
ततः स तमसाविष्टो न स्म किंचित्प्रजज्ञिवान् ॥
M N Dutt
Boring through his coat of mail, that arrow penetrated into his body and he was deprived of the power of perception and consciousness.
४.५५.२५
स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः ।
ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः ॥
ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः ॥
M N Dutt
Experiencing a great pain and leaving the battle-field, he fled towards the north. Then Arjuna and the mighty car-warrior Uttara began to scoff him.
॥ इति ४.५५ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.