अर्जुन उवाच ।
४.५३.२
अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः ।
स्निग्धविद्रुमसंकाशास्ताम्रास्याः प्रियदर्शनाः ।
युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः ॥
स्निग्धविद्रुमसंकाशास्ताम्रास्याः प्रियदर्शनाः ।
युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः ॥
M N Dutt
May you fare well, O charioteer; take m before Drona's army, on whose high standard appears the emblem of a golden altar and around which flags are streaming, whose car is drawn by red, big, highly beautiful, trained, pleasant-looking and quiet horses of the colour of coral and having copper-coloured faces.
४.५३.३
दीर्घबाहुर्महातेजा बलरूपसमन्वितः ।
सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान् ॥
सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान् ॥
M N Dutt
Of large arms, great energy, endued with beauty and strength, the powerful son of Bharadvaja is known in all the worlds for his prowess.
४.५३.४
बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये ।
वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च ॥
वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च ॥
M N Dutt
In intelligence he is like Shukra, and in the knowledge of moral laws like Brihaspati. He is equally well-read in the four Vedas, and follows the Brahmacharya mode of life.
४.५३.५
ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष ।
धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः ॥
धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः ॥
M N Dutt
All the celestials weapons with the means of their withdrawal, and the entire science of archery always reside in him.
४.५३.६
क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम् ।
एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे ॥
एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे ॥
M N Dutt
Forgiveness, self-control, truthfulness, disinclination to injury and straight forwardness these and various other accomplishments always live in that twice-born one.
४.५३.७
तेनाहं योद्धुमिच्छामि महाभागेन संयुगे ।
तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय ॥
तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय ॥
M N Dutt
I wish to fight with that great one in battle. Therefore, O Uttara, take me soon to the preceptor.
वैशंपायन उवाच ।
४.५३.८
अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान् ।
चोदयामास तानश्वान्भारद्वाजरथं प्रति ॥
चोदयामास तानश्वान्भारद्वाजरथं प्रति ॥
M N Dutt
Thus accosted by Arjuna, Virata's son urged the horses adorned with gold towards the car of Bharadvaja's son.
४.५३.९
तमापतन्तं वेगेन पाण्डवं रथिनां वरम् ।
द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम् ॥
द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम् ॥
M N Dutt
Drona rushed with great force towards Partha, the son of Pandu, the foremost of carwarriors, who was advancing like a mad elephant rushing at another such.
४.५३.१०
ततः प्राध्मापयच्छङ्खं भेरीशतनिनादितम् ।
प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः ॥
प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः ॥
M N Dutt
Drona then blew his conch, the sound of which resembled that of a hundred trumpets. And the whole army was agitated thereat like the ocean.
४.५३.११
अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः ।
मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः ॥
मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः ॥
M N Dutt
Beholding his excellent red horses mixing with those (of Arjuna) white as swans and fleet as the mind in the encounter, all people were filled with surprise.
४.५३.१२
तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि ।
आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ ॥
आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ ॥
M N Dutt
Beholding those car-warriors, in the field of battle, the preceptor and disciple, Drona and Partha, both endued with prowess, irrepressible, learned, high-minded and greatly powerful, engaged with each other, the huge army of the Bharatas continually trembled (in fear).
४.५३.१३
समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ ।
दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम् ॥
दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम् ॥
M N Dutt
Beholding those car-warriors, in the field of battle, the preceptor and disciple, Drona and Partha, both endued with prowess, irrepressible, learned, high-minded and greatly powerful, engaged with each other, the huge army of the Bharatas continually trembled (in fear).
४.५३.१४
हर्षयुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान् ।
रथं रथेन द्रोणस्य समासाद्य महारथः ॥
रथं रथेन द्रोणस्य समासाद्य महारथः ॥
M N Dutt
Reaching Drona's car by his own, the mighty car-warrior and highly energetic Partha was filled with joy, and smiled.
४.५३.१५
अभिवाद्य महाबाहुः सान्त्वपूर्वमिदं वचः ।
उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा ॥
उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा ॥
M N Dutt
Saluting him, the mighty-armed son of Kunti, the slayer of hostile heroes, said in sweet and becoming words.
४.५३.१६
उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः ।
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥
M N Dutt
Having spent out the term of our exile in the woods, we wish to take revenge. O you irrepressible in battle, it does not behove you to be always angry.
४.५३.१७
अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ ।
इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति ॥
इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति ॥
M N Dutt
O gentle one, I will not strike you unless you strike me first. This is my determination. Do what you like.
४.५३.१८
ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकविंशतिम् ।
अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत् ॥
अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत् ॥
M N Dutt
Thus addressed, Drona discharged at him more than twenty shafts. But the light-handed Partha severed them all before they could fall down on him.
४.५३.१९
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् ।
अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन् ॥
अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन् ॥
M N Dutt
Displaying his weapons the energetic Drona soon covered Partha's chariot on all sides with thousands of arrows.
४.५३.२०
एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः ।
समं विमुञ्चतोः संख्ये विशिखान्दीप्ततेजसः ॥
समं विमुञ्चतोः संख्ये विशिखान्दीप्ततेजसः ॥
M N Dutt
When the encounter thus took place between Drona and Arjuna, they equally discharged in battle fiery arrows.
४.५३.२१
तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे ।
उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ ।
क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान् ॥
उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ ।
क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान् ॥
M N Dutt
Both of them were equally illustrious and equal to the wind in speed, equally conversant with celestials weapons and gifted with great energy.
४.५३.२३
द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात् ।
रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत ।
इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः ॥
रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत ।
इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः ॥
M N Dutt
Surely the duty of a Kshatriya is very hard, since he fights with his preceptor.” Thus did the people, stationed in the battle field, say.
४.५३.२४
वीरौ तावपि संरब्धौ संनिकृष्टौ महारथौ ।
छादयेतां शरव्रातैरन्योन्यमपराजितौ ॥
छादयेतां शरव्रातैरन्योन्यमपराजितौ ॥
M N Dutt
Worked up with anger those two longarmed heroes, confronting each other, and each capable of vanquishing the other, covered each other with arrows.
४.५३.२५
विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम् ।
संरब्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत ॥
संरब्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत ॥
M N Dutt
Then inflated with anger, the son of Bharadvaja, drawing his huge bow plated with gold and hard to be severed, struck Phalguni.
४.५३.२६
स सायकमयैर्जालैरर्जुनस्य रथं प्रति ।
भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् ॥
भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् ॥
M N Dutt
Then shooting at Arjuna's car a goodly number of sharp arrows, bright as the sun, he covered the rays of the sun.
४.५३.२७
पार्थं च स महाबाहुर्महावेगैर्महारथः ।
विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम् ॥
विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम् ॥
M N Dutt
That mighty car-warrior of large arms wounded Partha with sharpened arrows, as the clouds discharge showers on a mountain.
४.५३.२८
तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः ।
शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम् ।
विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून् ॥
शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम् ।
विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून् ॥
M N Dutt
Taking up the best of bows, the celestials Gandiva, capable of destroying enemies and carrying a heavy weight, the son of Pandu delightedly.
४.५३.३४
अग्निचक्रोपमं घोरं विकर्षन्परमायुधम् ।
व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः ।
महानभूत्ततः शब्दो वंशानामिव दह्यताम् ॥
व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः ।
महानभूत्ततः शब्दो वंशानामिव दह्यताम् ॥
M N Dutt
Then Drona, ornament of an assembly, discharged sharpened arrows. Then arose a sound like that of bamboo's when set on fire.
४.५३.३५
जाम्बूनदमयैः पुङ्खैश्चित्रचापवरातिगैः ।
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ॥
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ॥
M N Dutt
That of immeasurable energy enveloped all the quarters and the lustre of the sun with gold-winged arrows discharged from a variegated bow. one
४.५३.३६
ततः कनकपुङ्खानां शराणां नतपर्वणाम् ।
वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः ॥
वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः ॥
M N Dutt
Those arrows, with depressed knots and golden wings, when they passed through the sky, looked like so many birds.
४.५३.३७
द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात् ।
एको दीर्घ इवादृश्यदाकाशे संहतः शरः ॥
एको दीर्घ इवादृश्यदाकाशे संहतः शरः ॥
M N Dutt
The arrows shot from Drona's bow touching one another by the wings appeared like one long-extending row of arrows in the sky.
४.५३.३८
एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान् ।
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ॥
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ॥
M N Dutt
Those heroes, then shooting their golden arrows, enveloped, as it were the welkin with a downpour of fire-brands.
४.५३.३९
शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः ।
पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव ॥
पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव ॥
M N Dutt
Decked with the feathers of Kanka birds, these arrows looked like a number of cranes wandering in the autumnal sky.
४.५३.४०
युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः ।
द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव ॥
द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव ॥
M N Dutt
Then there ensued a highly terrific encounter between the high-souled Drona and Arjuna like that between Vritra and Vasava.
४.५३.४१
तौ गजाविव चासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥
M N Dutt
They wounded each other with arrows shot from bows drawn to the highest stretch like two elephants assailing each other with their tusks.
४.५३.४२
तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ ।
उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः ॥
उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः ॥
M N Dutt
Those two angry heroes, ornamenting the battle-field, fighting according to the practice, showed many celestials weapons in due order.
४.५३.४३
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् ।
न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः ॥
न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः ॥
M N Dutt
one Arjuna, the foremost of victors, warded off, with sharp arrows, the sharpened arrows shot by the foremost of preceptors.
४.५३.४४
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः ।
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् ॥
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् ॥
M N Dutt
Showing many weapons to the spectators, that of dreadful prowess speedily enveloped the sky with many arrows.
॥ इति ४.५३ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.