वैशंपायन उवाच ।
४.४१.१
उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् ।
आयुधं सर्वमादाय ततः प्रायाद्धनंजयः ॥
आयुधं सर्वमादाय ततः प्रायाद्धनंजयः ॥
M N Dutt
Vaishampayana said Making Uttara his charioteer and going round the Shami tree the son of Pandu taking all his weapons set out.
४.४१.२
ध्वजं सिंहं रथात्तस्मादपनीय महारथः ।
प्रणिधाय शमीमूले प्रायादुत्तरसारथिः ॥
प्रणिधाय शमीमूले प्रायादुत्तरसारथिः ॥
M N Dutt
Having taken down the banner with the lion's figure and placed it at the foot of the Shami tree the mighty car-warrior set out with Uttara as his charioteer,
४.४१.३
दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा ।
काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् ॥
काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् ॥
M N Dutt
He hoisted on his chariot the golden flag having the emblem of a monkey which was a celestials illusion created by Vishvakarman.
४.४१.४
मनसा चिन्तयामास प्रसादं पावकस्य च ।
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यचोदयत् ॥
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यचोदयत् ॥
M N Dutt
As soon as he thought of the favour of Agni in his mind the deity, knowing his desire, ordered the creatures (to sit) on the flag.
४.४१.६
बद्धासिः सतनुत्राणः प्रगृहीतशरासनः ।
ततः प्रायादुदीचीं स कपिप्रवरकेतनः ॥
ततः प्रायादुदीचीं स कपिप्रवरकेतनः ॥
M N Dutt
Seeing the banner reach his car the hero went round it reverentially. Then getting on his car, Bibhatsu, the son of Kunti, having white steeds and the emblem of a monkey on his banner, having his fingers protected by the gloves of Inguana skin, and taking up his bow and arrows, started in a northerly direction.
४.४१.७
स्वनवन्तं महाशङ्खं बलवानरिमर्दनः ।
प्राधमद्बलमास्थाय द्विषतां लोमहर्षणम् ॥
प्राधमद्बलमास्थाय द्विषतां लोमहर्षणम् ॥
M N Dutt
Then that highly powerful repressor of foes, energetically blew his large conch-shell of thundering sound, capable of making the hairs of the body of his enemies stand erect.
४.४१.८
ततस्ते जवना धुर्या जानुभ्यामगमन्महीम् ।
उत्तरश्चापि संत्रस्तो रथोपस्थ उपाविशत् ॥
उत्तरश्चापि संत्रस्तो रथोपस्थ उपाविशत् ॥
M N Dutt
At that sound the quick-coursing horses dropped down their knees on earth. Uttara too, stricken with fear, sat down on the car.
४.४१.९
संस्थाप्य चाश्वान्कौन्तेयः समुद्यम्य च रश्मिभिः ।
उत्तरं च परिष्वज्य समाश्वासयदर्जुनः ॥
उत्तरं च परिष्वज्य समाश्वासयदर्जुनः ॥
M N Dutt
Then raising the horses up with reins and keeping them in their proper places and embracing Uttara, Arjuna, the son of Kunti, consoled him.
४.४१.१०
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परंतप ।
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ॥
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ॥
M N Dutt
Arjuna said O foremost of princes, O slayer of foes, be not afraid; you are a Kshatriya; why do you look sorry, O foremost of men, in the midst of enemies?
४.४१.११
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः ।
कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् ॥
कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् ॥
M N Dutt
You have heard enough of the sound of my conch shells as well as that of trumpets and the roar of many elephants in the midst of soldiers arranged for battle.
४.४१.१२
स त्वं कथमिहानेन शङ्खशब्देन भीषितः ।
विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ॥
विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ॥
M N Dutt
Why are you therefore, so dispirited agitated and terrified by the sound of the conch like an ordinary man.
उत्तर उवाच ।
४.४१.१३
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः ।
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम् ॥
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम् ॥
M N Dutt
You have heard enough of the sound of my conch shells as well as that of trumpets and the roar of many elephants in the midst of soldiers arranged for battle.
४.४१.१४
नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः ।
ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् ।
धनुषश्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित् ॥
ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् ।
धनुषश्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित् ॥
M N Dutt
Uttara said I have heard the sound of many a conch and many a trumpet and the roar of many an elephant in the battle field but never have I heard the sound of such a conch. Never have I seen before a flag like this.
४.४१.१५
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च ।
रथस्य च निनादेन मनो मुह्यति मे भृशम् ॥
रथस्य च निनादेन मनो मुह्यति मे भृशम् ॥
M N Dutt
Never have I heard before the twang of such a bow. With the blowing of this conch, the twang of this bow, the superhuman cries of creatures placed on the banner, and with the rattle of this chariot my mind has been greatly agitated.
४.४१.१६
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव मे ।
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे ।
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ॥
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे ।
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ॥
M N Dutt
All the quarters have been agitated and my mind has been pained; all the quarters have been covered with flags and thus do not come to my view. With the twang of the Gandiva my ears have been deafened.
अर्जुन उवाच ।
४.४१.१७
एकान्ते रथमास्थाय पद्भ्यां त्वमवपीडय ।
दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ॥
दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ॥
M N Dutt
Arjuna said Stand you firmly on this chariot, pressing your feet on it. Get hold lightly of the reins for I will blow the conch again.
वैशंपायन उवाच ।
४.४१.१८
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च ।
गाण्डीवस्य च घोषेण पृथिवी समकम्पत ॥
गाण्डीवस्य च घोषेण पृथिवी समकम्पत ॥
M N Dutt
The earth shook with the sound of his conch, the rattle of his chariot and the twang of his Gandiva bow,
द्रोण उवाच ।
॥ इति ४.४१ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.