लोमश उवाच ।
३.९९.१
ततः स वज्री बलिभिर्दैवतैरभिरक्षितः ।
आससाद ततो वृत्रं स्थितमावृत्य रोदसी ॥
आससाद ततो वृत्रं स्थितमावृत्य रोदसी ॥
M N Dutt
Lomasha said : Thereupon that wielder of Vajra (Indra) supported by the powerful celestials came to Vritra who was then occupying both the earth and the heaven.
३.९९.२
कालकेयैर्महाकायैः समन्तादभिरक्षितम् ।
समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ॥
समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ॥
M N Dutt
He was guarded on all sides by the huge bodied Kalkeyas with upraised weapons, looking like great mountains with towering peaks.
३.९९.३
ततो युद्धं समभवद्देवानां सह दानवैः ।
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ॥
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ॥
M N Dutt
O best of the Bharata race, then a great battle appalling on the three worlds was fought by the celestials with the Danavas for a short while.
३.९९.४
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः ।
आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम् ॥
आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम् ॥
M N Dutt
Loud was the clashing of swords upraised and warded off by the heroic hands, those that were aimed at one another's bodies.
३.९९.५
शिरोभिः प्रपतद्भिश्च अन्तरिक्षान्महीतलम् ।
तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत ॥
तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत ॥
M N Dutt
The heads began to fall from the sky on the earth like fruits of palmyra palm, falling on the ground loosened from their stalks.
३.९९.६
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः ।
त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ॥
त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ॥
M N Dutt
The Kaleyas, clad in golden armour and armed with iron mounted in aces rushed towards the celestials like moving mountains on fire.
३.९९.७
तेषां वेगवतां वेगं सहितानां प्रधावताम् ।
न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ॥
न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ॥
M N Dutt
Being unable to stand the onrush of those impetuous heroes, the celestials broke (their ranks) and fled away from fear.
३.९९.८
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः ।
वृत्रे विवर्धमाने च कश्मलं महदाविशत् ॥
वृत्रे विवर्धमाने च कश्मलं महदाविशत् ॥
M N Dutt
Seeking them (the celestials) flying in fear and Vritra growing in boldness, the thousand eyed Purandra (Indra) was greatly confounded with fear.
३.९९.९
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः ।
स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन् ॥
स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन् ॥
M N Dutt
The eternal Vishnu, seeing Sakra (Indra) confounded with fear and grief, enhanced his prowess by importing to him a portion of his own might.
३.९९.१०
विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास्ततः ।
स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ॥
स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ॥
M N Dutt
Having seen Sakra (Indra) thus protected by Vishnu, all the celestials and the Brahmana Rishis of spotless deeds imparted to him their own might.
३.९९.११
स समाप्यायितः शक्रो विष्णुना दैवतैः सह ।
ऋषिभिश्च महाभागैर्बलवान्समपद्यत ॥
ऋषिभिश्च महाभागैर्बलवान्समपद्यत ॥
M N Dutt
Thus favoured by Vishnu by all the celestials and by the highly-blessed Rishis Sakra (Indra) became more powerful than before.
३.९९.१२
ज्ञात्वा बलस्थं त्रिदशाधिपं तु
ननाद वृत्रो महतो निनादान् ।
तस्य प्रणादेन धरा दिशश्च
खं द्यौर्नगाश्चापि चचाल सर्वम् ॥
ननाद वृत्रो महतो निनादान् ।
तस्य प्रणादेन धरा दिशश्च
खं द्यौर्नगाश्चापि चचाल सर्वम् ॥
M N Dutt
Knowing that the chief of the celestials had been filled with the prowess of others, Vitra sent forth fearful roars. The earth, the directions, the heaven and the mountains all began to tremble.
३.९९.१३
ततो महेन्द्रः परमाभितप्तः
श्रुत्वा रवं घोररूपं महान्तम् ।
भये निमग्नस्त्वरितं मुमोच
वज्रं महत्तस्य वधाय राजन् ॥
श्रुत्वा रवं घोररूपं महान्तम् ।
भये निमग्नस्त्वरितं मुमोच
वज्रं महत्तस्य वधाय राजन् ॥
M N Dutt
O king, thereupon hearing that fearful and loud roar, Indra was filled with grief and fear and in order to kill the Asura he hurled the great Vajra.
३.९९.१४
स शक्रवज्राभिहतः पपात
महासुरः काञ्चनमाल्यधारी ।
यथा महाञ्शैलवरः पुरस्ता
त्स मन्दरो विष्णुकरात्प्रमुक्तः ॥
महासुरः काञ्चनमाल्यधारी ।
यथा महाञ्शैलवरः पुरस्ता
त्स मन्दरो विष्णुकरात्प्रमुक्तः ॥
M N Dutt
Struck with Vajra, that great Asura adorned with garlands of gold, fell down as the great Mandara mountain did in the days of yore when hurled from the hand of Vishnu.
३.९९.१५
तस्मिन्हते दैत्यवरे भयार्तः
शक्रः प्रदुद्राव सरः प्रवेष्टुम् ।
वज्रं न मेने स्वकरात्प्रमुक्तं
वृत्रं हतं चापि भयान्न मेने ॥
शक्रः प्रदुद्राव सरः प्रवेष्टुम् ।
वज्रं न मेने स्वकरात्प्रमुक्तं
वृत्रं हतं चापि भयान्न मेने ॥
M N Dutt
When that foremost of Daityas was killed, even then Sakra (Indra) fled away in fear to take shelter in a lake, thinking that the Vajra had not been hurled from his hands and that Vitra had not (really) been killed.
३.९९.१६
सर्वे च देवा मुदिताः प्रहृष्टा
महर्षयश्चेन्द्रमभिष्टुवन्तः ।
सर्वांश्च दैत्यांस्त्वरिताः समेत्य
जघ्नुः सुरा वृत्रवधाभितप्तान् ॥
महर्षयश्चेन्द्रमभिष्टुवन्तः ।
सर्वांश्च दैत्यांस्त्वरिताः समेत्य
जघ्नुः सुरा वृत्रवधाभितप्तान् ॥
M N Dutt
The celestials and the great Rishis were all filled with joy and they cheerfully sang the praise of Indra. Then the celestials mustering together began to kill all the Daityas who grew dejected by the death of Vitra.
३.९९.१७
ते वध्यमानास्त्रिदशैस्तदानीं
समुद्रमेवाविविशुर्भयार्ताः ।
प्रविश्य चैवोदधिमप्रमेयं
झषाकुलं रत्नसमाकुलं च ॥
समुद्रमेवाविविशुर्भयार्ताः ।
प्रविश्य चैवोदधिमप्रमेयं
झषाकुलं रत्नसमाकुलं च ॥
M N Dutt
Struck with panic at the sight of the assembled celestials, they entered the fathomless ocean, full of fishes and alligators. They (the Danavas) assembled together with pride began to conspire for the destruction of the three worlds.
३.९९.१८
तदा स्म मन्त्रं सहिताः प्रचक्रु
स्त्रैलोक्यनाशार्थमभिस्मयन्तः ।
तत्र स्म केचिन्मतिनिश्चयज्ञा
स्तांस्तानुपायाननुवर्णयन्ति ॥
स्त्रैलोक्यनाशार्थमभिस्मयन्तः ।
तत्र स्म केचिन्मतिनिश्चयज्ञा
स्तांस्तानुपायाननुवर्णयन्ति ॥
M N Dutt
Some among them who were wise suggested some courses of action, each according to his own judgment.
३.९९.१९
तेषां तु तत्र क्रमकालयोगा
द्घोरा मतिश्चिन्तयतां बभूव ।
ये सन्ति विद्यातपसोपपन्ना
स्तेषां विनाशः प्रथमं तु कार्यः ॥
द्घोरा मतिश्चिन्तयतां बभूव ।
ये सन्ति विद्यातपसोपपन्ना
स्तेषां विनाशः प्रथमं तु कार्यः ॥
M N Dutt
In course of time they made the fearful resolution that they should first destroy all persons' knowledge and ascetic virtues.
३.९९.२०
लोका हि सर्वे तपसा ध्रियन्ते; तस्मात्त्वरध्वं तपसः क्षयाय ।
ये सन्ति केचिद्धि वसुंधरायां; तपस्विनो धर्मविदश्च तज्ज्ञाः ।
तेषां वधः क्रियतां क्षिप्रमेव; तेषु प्रनष्टेषु जगत्प्रनष्टम् ॥
ये सन्ति केचिद्धि वसुंधरायां; तपस्विनो धर्मविदश्च तज्ज्ञाः ।
तेषां वधः क्रियतां क्षिप्रमेव; तेषु प्रनष्टेषु जगत्प्रनष्टम् ॥
M N Dutt
"The worlds are all supported by asceticism, therefore lose no time to destroy asceticism. All those men who are on earth endued with ascetic virtues and with the knowledge of the precepts of virtue and that of Brahma.
३.९९.२१
एवं हि सर्वे गतबुद्धिभावा
जगद्विनाशे परमप्रहृष्टाः ।
दुर्गं समाश्रित्य महोर्मिमन्तं
रत्नाकरं वरुणस्यालयं स्म ॥
जगद्विनाशे परमप्रहृष्टाः ।
दुर्गं समाश्रित्य महोर्मिमन्तं
रत्नाकरं वरुणस्यालयं स्म ॥
M N Dutt
Then they made the ocean, with the mountain, like waves, the abode of Varuna, their fort.
॥ इति ३.९९ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.