वैशंपायन उवाच ।
३.२९३.१
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा ।
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ॥
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ॥
M N Dutt
Vaishampayana said : At this time one Adhiratha of the Suta tribe and a friend of Dhritarashthra's accompanied by his wife came to the Jahnavi (Ganga).
३.२९३.२
तस्य भार्याभवद्राजन्रूपेणासदृशी भुवि ।
राधा नाम महाभागा न सा पुत्रमविन्दत ।
अपत्यार्थे परं यत्नमकरोच्च विशेषतः ॥
राधा नाम महाभागा न सा पुत्रमविन्दत ।
अपत्यार्थे परं यत्नमकरोच्च विशेषतः ॥
M N Dutt
O monarch, his wife named Radha was peerless in beauty on earth. That highly fortunate lady had no son.
३.२९३.३
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया ।
दत्तरक्षाप्रतिसरामन्वालभनशोभिताम् ।
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् ॥
दत्तरक्षाप्रतिसरामन्वालभनशोभिताम् ।
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् ॥
M N Dutt
Containing things preventive of dangers and dyed with saffron. And (that basket) was carried before her by the waves of the Janhavi.
३.२९३.४
सा तां कौतूहलात्प्राप्तां ग्राहयामास भामिनी ।
ततो निवेदयामास सूतस्याधिरथस्य वै ॥
ततो निवेदयामास सूतस्याधिरथस्य वै ॥
M N Dutt
And that lady, impelled by curiosity had it seized. She then told all to Adhiratha of the Suta caste.
३.२९३.५
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् ।
यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम् ॥
यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम् ॥
M N Dutt
He (Adhiratha) then carried the basket from the water-side and had it opened by instruments. And therein he teheld a boy.
३.२९३.६
तरुणादित्यसंकाशं हेमवर्मधरं तथा ।
मृष्टकुण्डलयुक्तेन वदनेन विराजता ॥
मृष्टकुण्डलयुक्तेन वदनेन विराजता ॥
M N Dutt
(Beautiful) as the morning sun, clad in a golden armour and with a beautiful face adorned with brilliant ear-rings.
३.२९३.७
स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः ।
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ॥
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ॥
M N Dutt
That Suta together with his wife with eyes expanded in wonder, took the infant on his lap and spoke these words to her.
३.२९३.८
इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि ।
दृष्टवान्देवगर्भोऽयं मन्येऽस्मान्समुपागतः ॥
दृष्टवान्देवगर्भोऽयं मन्येऽस्मान्समुपागतः ॥
M N Dutt
"O timid lady, since my very birth I have never witnessed such a marvel. I think, this boy that has come to us, is begotten by a celestials,
३.२९३.९
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम ।
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ॥
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ॥
M N Dutt
Surely, considering that I have no son, the gods have sent this child to me.” O lord of the earth, saying this, he made over the child to Radha.
३.२९३.१०
प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् ।
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ॥
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ॥
M N Dutt
Thereupon, Radha duly adopted that body of celestials appearance and birth, endued with the splendour of the filaments of lotuses and possessed of excellent grace.
३.२९३.११
पुपोष चैनं विधिवद्ववृधे स च वीर्यवान् ।
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ॥
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ॥
M N Dutt
She brought him properly up and that mighty boy too began to grow up. Since that time he (Adhiratha) had other sons begotten by him.
३.२९३.१२
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् ।
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ॥
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ॥
M N Dutt
The twice-born ones seeing the boy ciad in a golden armour and adorned with golden earrings called him Vasusena.
३.२९३.१३
एवं स सूतपुत्रत्वं जगामामितविक्रमः ।
वसुषेण इति ख्यातो वृष इत्येव च प्रभुः ॥
वसुषेण इति ख्यातो वृष इत्येव च प्रभुः ॥
M N Dutt
Thus did the boy of immeasurable strength and splendour come to be known as the son of a charioteer and was styled Vasusena and Vrisha.
३.२९३.१४
स ज्येष्ठपुत्रः सूतस्य ववृधेऽङ्गेषु वीर्यवान् ।
चारेण विदितश्चासीत्पृथाया दिव्यवर्मभृत् ॥
चारेण विदितश्चासीत्पृथाया दिव्यवर्मभृत् ॥
M N Dutt
That the powerful child, clad in celestials armour (known as) the eldest son of the charioteer (Adhiratha) was growing up in the country of the Angas, was known to Pritha through her spies.
३.२९३.१५
सूतस्त्वधिरथः पुत्रं विवृद्धं समये ततः ।
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ॥
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ॥
M N Dutt
When the charioteer saw that his son in course of time had grown up, he sent him to the city of Hastina.
३.२९३.१६
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि ।
सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान् ॥
सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान् ॥
M N Dutt
There the powerful youth lived with Drona in order to learn weapons and made friends with Duryodhana.
३.२९३.१७
द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् ।
लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ॥
लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ॥
M N Dutt
Having obtained from Drona, Kripa and Rama (i.e. Parashurama), all the four kinds of weapons, he (Karna) became celebrated in the world as a great bowman.
३.२९३.१८
संधाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः ।
योद्धुमाशंसते नित्यं फल्गुनेन महात्मना ॥
योद्धुमाशंसते नित्यं फल्गुनेन महात्मना ॥
M N Dutt
Having contracted a friendship with the son of Dhritarashtra, he became hostile to the Parthas and was always desirous of fighting with the high-souled Falguna.
३.२९३.१९
सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते ।
अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः ॥
अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः ॥
M N Dutt
And O lord of the earth, since they first saw each other, he (Karna) challenged Arjuna and Arjuna too challenged him.
३.२९३.२०
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् ।
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ॥
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ॥
M N Dutt
Seeing that he was furnished with armour and ear-rings, Yudhishthira was much pained thinking that he was unslayable in battle.
३.२९३.२१
यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम् ।
स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः ॥
स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः ॥
M N Dutt
O king of kings, when at noon Karna rose from the water and worshipped the author of the day possessed of rays with joined palms, the Brahmanas prayed to him for riches. And at that time there was nothing that he would not bestow on the twice-born ones.
३.२९३.२२
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः ।
नादेयं तस्य तत्काले किंचिदस्ति द्विजातिषु ॥
नादेयं तस्य तत्काले किंचिदस्ति द्विजातिषु ॥
M N Dutt
O king of kings, when at noon Karna rose from the water and worshipped the author of the day possessed of rays with joined palms, the Brahmanas prayed to him for riches. And at that time there was nothing that he would not bestow on the twice-born ones.
३.२९३.२३
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः ।
स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ॥
स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ॥
M N Dutt
(For this reason) disguised as a Brahmana Indra came to him and said "give me alms." And the son of Radha replied to him "you are welcome."
॥ इति ३.२९३ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.