वैशंपायन उवाच ।
३.२३४.१
ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः ।
विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ॥
विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ॥
M N Dutt
Vaishampayana said : Thereupon the Gandharvas armed with celestials weapons and adorned with golden garlands, showering showering innumerable blazing arrows, surrounded them on all sides.
३.२३४.२
चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः ।
रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् ॥
रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् ॥
M N Dutt
There were but four Pandavas heroes; on the other hand there were thousands of Gandharvas. Therefore, O king, the battle that was fought was extraordinary.
३.२३४.३
यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः ।
गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे ॥
गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे ॥
M N Dutt
As the Gandharvas cut off the chariot of Karna and of the sons of Dhritarashtra, so they tried to do the same with respect to their (Pandava's) chariots.
३.२३४.४
तान्समापततो राजन्गन्धर्वाञ्शतशो रणे ।
प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ॥
प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ॥
M N Dutt
O king, those foremost of men attacked with showers of arrows thousands and thousands of Gandharvas who were rushing towards them.
३.२३४.५
अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः ।
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ॥
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ॥
M N Dutt
Those mighty rangers of the sky, thus checked on all sides by that shower of arrows, did not succeed to come even near the Pandavas.
३.२३४.६
अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा ।
लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे ॥
लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे ॥
M N Dutt
Arjuna who was greatly enraged after carefully aiming at them hurled against the angry Gandharvas his celestials weapons.
३.२३४.७
सहस्राणां सहस्रं स प्राहिणोद्यमसादनम् ।
आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलोत्कटः ॥
आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलोत्कटः ॥
M N Dutt
In that battle the greatly powerful Arjuna with his Agneya weapon sent ten lakhs of Gandharvas to the abode of Yama.
३.२३४.८
तथा भीमो महेष्वासः संयुगे बलिनां वरः ।
गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः ॥
गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः ॥
M N Dutt
That great bowman, Bhima, that foremost of all strong men, killed in that battle thousands of Gandharvas with his sharp arrows.
३.२३४.९
माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ ।
परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ॥
परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ॥
M N Dutt
O king, the greatly powerful sons of Madri, fighting with great prowess, attacked hundreds of Gandharvas and killed them all,
३.२३४.१०
ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः ।
उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ॥
उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ॥
M N Dutt
When the Gandharvas were thus killed by the nighty heroes with the celestials weapons, they ascended the skies and took with them the son of Dhritarashtra.
३.२३४.११
तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनंजयः ।
महता शरजालेन समन्तात्पर्यवारयत् ॥
महता शरजालेन समन्तात्पर्यवारयत् ॥
M N Dutt
But the son of Kunti, Dhananjaya (Arjuna), seeing them rise to the sky, surrounded them on all sides by a net of arrows.
३.२३४.१२
ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे ।
ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ॥
ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ॥
M N Dutt
Having been confined within that net of arrows of birds are confined in a cage, they angrily hurled upon Arjuna maces, darts and swords.
३.२३४.१३
गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित् ।
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनंजयः ॥
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनंजयः ॥
M N Dutt
But Dhananjaya, learned in weapons, soon stopped that shower of maces, darts and swords. He then mangled the limbs of the enemies by his crescent-shaped arrows.
३.२३४.१४
शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा ।
अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ॥
अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ॥
M N Dutt
Heads, legs and arms (of the Gandharvas) began to drop down from above like a shower of stones; thereupon the enemy was struck with terror.
३.२३४.१५
ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना ।
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ॥
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ॥
M N Dutt
As the Gandharvas were killed by the illustrious Pandava, they hurled a heavy shower of weapons on Arjuna who was on earth.
३.२३४.१६
तेषां तु शरवर्षाणि सव्यसाची परंतपः ।
अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ॥
अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ॥
M N Dutt
But that chastiser of foes, that greatly powerful Savyasachi (Arjuna), stopped that shower of weapons with his own weapons and began to wound them.
३.२३४.१७
स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः ।
आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः ॥
आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः ॥
M N Dutt
That descendant of Kuru, Arjuna, shot his well-known weapons, named Sthunakarna, Indrajala, Saura, Agneya and Saumya.
३.२३४.१८
ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः ।
दैतेया इव शक्रेण विषादमगमन्परम् ॥
दैतेया इव शक्रेण विषादमगमन्परम् ॥
M N Dutt
The Gandharvas, consumed by the arrows of the son of Kunti, became greatly afflicted, as the Daityas were by Shakra.
३.२३४.१९
ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः ।
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ॥
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ॥
M N Dutt
When they attacked Savyasachi (Arjuna) from above, they were stopped by his net of arrows. While they attacked him from all sides on earth, they were stopped by his Bhala (weapon).
३.२३४.२०
गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता ।
चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत् ॥
चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत् ॥
M N Dutt
O descendant of Bharata, seeing the Gandharvas routed by the son of Kunti, Chitrasena took up a mace and rushed upon Savyasachi.
३.२३४.२१
तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे ।
गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ॥
गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ॥
M N Dutt
As he was rushing with his mace in his hand, Partha (Arjuna) cut off that iron mace into seven pieces.
३.२३४.२२
स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना ।
संवृत्य विद्ययात्मानं योधयामास पाण्डवम् ।
अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः ॥
संवृत्य विद्ययात्मानं योधयामास पाण्डवम् ।
अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः ॥
M N Dutt
Seeing his mace cut into piece by that very active hero, (Arjuna), with his arrows, he with his own science (of illusion) began to fight with the Pandava.
३.२३४.२३
गन्धर्वराजो बलवान्माययान्तर्हितस्तदा ।
अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः ।
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ॥
अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः ।
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ॥
M N Dutt
Seeing that the ranger of sky was striking at him concealed from sight, Arjuna attacked him with his celestials weapons with proper mantras.
३.२३४.२४
अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा ।
शब्दवेध्यमुपाश्रित्य बहुरूपो धनंजयः ॥
शब्दवेध्यमुपाश्रित्य बहुरूपो धनंजयः ॥
M N Dutt
Dhananjaya, becoming greatly enraged, prevented the disappearance of his enemy with his weapon called Shabdavedha.
३.२३४.२५
स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना ।
अथास्य दर्शयामास तदात्मानं प्रियः सखा ॥
अथास्य दर्शयामास तदात्मानं प्रियः सखा ॥
M N Dutt
When the mighty Gandharva king saw that he was checked by the high-souled Arjuna with his weapons, he disappeared from view by the help of illusion.
३.२३४.२६
चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम् ।
संजहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः ॥
संजहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः ॥
M N Dutt
Chitrasena thus spoke to him, “Behold, your friend is fighting with you." Seeing his friend weak in battle, that foremost of Pandavas withdrew his weapons. The Pandavas, seeing Arjuna withdraw his weapons, checked their flying horses and stopped their weapons and withdrew their bows.
३.२३४.२८
चित्रसेनश्च भीमश्च सव्यसाची यमावपि ।
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ॥
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ॥
M N Dutt
Chitrasena, Bhima and Arjuna and the twins then enquired after one another's welfare and sat down on their respective chariots.
॥ इति ३.२३४ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.