वैशंपायन उवाच ।
३.१८५.१
ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह ।
कथयस्वेह चरितं मनोर्वैवस्वतस्य मे ॥
कथयस्वेह चरितं मनोर्वैवस्वतस्य मे ॥
M N Dutt
Vaishampayana said: Then that son of Pandu (Yudhishthira) spoke thus to the Brahmana Markandeya, “narrate (to me) the history of Vaivasvata Manu.”
मार्कण्डेय उवाच ।
३.१८५.२
विवस्वतः सुतो राजन्परमर्षिः प्रतापवान् ।
बभूव नरशार्दूल प्रजापतिसमद्युतिः ॥
बभूव नरशार्दूल प्रजापतिसमद्युतिः ॥
M N Dutt
Markandeya said : O king, O foremost of men, there was a mighty great Rishi; he was the son of Vivasvata and he was as effulgent as Prajapati.
३.१८५.३
ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः ।
अतिचक्राम पितरं मनुः स्वं च पितामहम् ॥
अतिचक्राम पितरं मनुः स्वं च पितामहम् ॥
M N Dutt
He far excelled his father and grand-father in prowess, in strength, in fortune and also in religious penances.
३.१८५.४
ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः ।
एकपादस्थितस्तीव्रं चचार सुमहत्तपः ॥
एकपादस्थितस्तीव्रं चचार सुमहत्तपः ॥
M N Dutt
Standing on one leg and with uplifted arms, that chief of men performed severe asceticism in the extensive Badari.
३.१८५.५
अवाक्शिरास्तथा चापि नेत्रैरनिमिषैर्दृढम् ।
सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा ॥
सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा ॥
M N Dutt
With head downwards and with steadfast eyes he performed these severe austerities for ten thousand years.
३.१८५.६
तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम् ।
वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् ॥
वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् ॥
M N Dutt
Once upon a time when he, with wet clothes on and with matted looks on his head, was performing such austerities, there came a fish on the banks of the Chirini and spoke to him thus.
३.१८५.७
भगवन्क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम ।
मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत ॥
मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत ॥
M N Dutt
"O exalted one, I am a helpless little fish; I am afraid of the large ones; a vow-observing Rishi, you should extend your protection to me,
३.१८५.९
तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः ।
त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव ॥
त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव ॥
M N Dutt
Especially when this is the fixed custom amongst us that the big fishes prey upon the smaller ones. Therefore be pleased to save me from being drowned in the sea of terrors. I shall requite you for your help to me."
३.१८५.१०
स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः ।
मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् ॥
मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् ॥
M N Dutt
Having heard these words of the fish, the Vaivasvata Manu was filled with pity and took out the fish from the water with his own hands.
३.१८५.११
उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः ।
अलिञ्जरे प्राक्षिपत्स चन्द्रांशुसदृशप्रभम् ॥
अलिञ्जरे प्राक्षिपत्स चन्द्रांशुसदृशप्रभम् ॥
M N Dutt
The fish which had a body as bright as the rays of the moon, after being taken out of the water, was again put back in an earthen water vessel.
३.१८५.१२
स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः ।
पुत्रवच्चाकरोत्तस्मिन्मनुर्भावं विशेषतः ॥
पुत्रवच्चाकरोत्तस्मिन्मनुर्भावं विशेषतः ॥
M N Dutt
O king, thus being reared, that fish grew in size and Manu carefully tended it as if were a child of his.
३.१८५.१३
अथ कालेन महता स मत्स्यः सुमहानभूत् ।
अलिञ्जरे जले चैव नासौ समभवत्किल ॥
अलिञ्जरे जले चैव नासौ समभवत्किल ॥
M N Dutt
After a long period of time that fish grew to be so large that there was no room for it in that vessel.
३.१८५.१४
अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत ।
भगवन्साधु मेऽद्यान्यत्स्थानं संप्रतिपादय ॥
भगवन्साधु मेऽद्यान्यत्स्थानं संप्रतिपादय ॥
M N Dutt
Manu saw that the fish again spoke to him thus, “O exalted one, appoint a better habitation for me."
३.१८५.१५
उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मुनिः ।
तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा ॥
तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा ॥
M N Dutt
Then the exalted Manu, that conqueror of hostile cities, took it out of that vessel and carried it to a large tank and put it into its water).
३.१८५.१८
मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत ।
नय मां भगवन्साधो समुद्रमहिषीं प्रभो ।
गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे ॥
नय मां भगवन्साधो समुद्रमहिषीं प्रभो ।
गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे ॥
M N Dutt
"O exalted one, O pious one, O sire, take me to the Ganga, the favourite wife of the Ocean or do what you think proper.
३.१८५.१९
एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी ।
नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः ॥
नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः ॥
M N Dutt
Having been thus addressed, the up-right, continent and the adorable Manu took the fish to the river Ganga and put it into its water with his own hands.
३.१८५.२०
स तत्र ववृधे मत्स्यः किंचित्कालमरिंदम ।
ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् ॥
ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् ॥
M N Dutt
O chastiser of foes, the fish there also began to grow for some time and then seeing Manu it spoke to him thus,
३.१८५.२१
गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो ।
समुद्रं नय मामाशु प्रसीद भगवन्निति ॥
समुद्रं नय मामाशु प्रसीद भगवन्निति ॥
M N Dutt
"O lord, I am unable to move about in the Ganga on account of my huge body. Therefore, O exalted one, take me soon to the sea.”
३.१८५.२२
उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम् ।
समुद्रमनयत्पार्थ तत्र चैनमवासृजत् ॥
समुद्रमनयत्पार्थ तत्र चैनमवासृजत् ॥
M N Dutt
O son of Pritha, Manu took it out of the Ganga and carried it to the sea and put it there.
३.१८५.२३
सुमहानपि मत्स्यः सन्स मनोर्मनसस्तदा ।
आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै ॥
आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै ॥
M N Dutt
Notwithstanding its huge size Manu easily carried it and its touch and smell were also pleasant to him.
३.१८५.२४
यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा ।
तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् ॥
तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् ॥
M N Dutt
When that fish was thrown into the sea by Manu, it smilingly spoke these words to Manu,
३.१८५.२५
भगवन्कृता हि मे रक्षा त्वया सर्वा विशेषतः ।
प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम ॥
प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम ॥
M N Dutt
“O exalted one, you have protected me with special care; hear what you should do in the fullness of time.
३.१८५.२६
अचिराद्भगवन्भौममिदं स्थावरजङ्गमम् ।
सर्वमेव महाभाग प्रलयं वै गमिष्यति ॥
सर्वमेव महाभाग प्रलयं वै गमिष्यति ॥
M N Dutt
O exalted one, O greatly blessed one; the dissolution of all this mobile and immobile world is now near at hand.
३.१८५.२७
संप्रक्षालनकालोऽयं लोकानां समुपस्थितः ।
तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम् ॥
तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम् ॥
M N Dutt
The proper time for purging off this earth is almost come; therefore I tell you what will be good for you.
३.१८५.२८
त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति ।
तस्य सर्वस्य संप्राप्तः कालः परमदारुणः ॥
तस्य सर्वस्य संप्राप्तः कालः परमदारुणः ॥
M N Dutt
The terrible doom has now come to the mobile and the immobile things of the creation, those that have locomotion and those that have not.
३.१८५.२९
नौश्च कारयितव्या ते दृढा युक्तवटाकरा ।
तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने ॥
तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने ॥
M N Dutt
You should (at once) build a strong and huge ark and furnish it with a long rope. O great Rishis, get into it with the seven Rishis.
३.१८५.३०
बीजानि चैव सर्वाणि यथोक्तानि मया पुरा ।
तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः ॥
तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः ॥
M N Dutt
Take with you all the different seeds which were enumerated in the days of yore by the twice-born Brahmanas; and you must separately and carefully preserve them.
३.१८५.३१
नौस्थश्च मां प्रतीक्षेथास्तदा मुनिजनप्रिय ।
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस ॥
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस ॥
M N Dutt
O beloved of the Rishis, while remaining in that ark wait for me, and I shall appear to you in the shape of a homed animal. O ascetic, recognise me then.
३.१८५.३२
एवमेतत्त्वया कार्यमापृष्टोऽसि व्रजाम्यहम् ।
नातिशङ्क्यमिदं चापि वचनं ते ममाभिभो ॥
नातिशङ्क्यमिदं चापि वचनं ते ममाभिभो ॥
M N Dutt
I now depart, you should act according to my instructions, for without my help, you cannot save yourself from the fearful flood.”
३.१८५.३४
ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह ।
बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा ।
नावा तु शुभया वीर महोर्मिणमरिंदम ॥
बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा ।
नावा तु शुभया वीर महोर्मिणमरिंदम ॥
M N Dutt
O chastiser of foes, O hero, procured all the different seeds and set sail in an excellent vessel on the surging sea.
३.१८५.३५
चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते ।
स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय ।
शृङ्गी तत्राजगामाशु तदा भरतसत्तम ॥
स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय ।
शृङ्गी तत्राजगामाशु तदा भरतसत्तम ॥
M N Dutt
O ruler of earth, O conqueror of hostile cities, he thought of that fish and that fish also, knowing his thought,
३.१८५.३६
तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर्मत्स्यं जलार्णवे ।
शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् ॥
शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् ॥
M N Dutt
O best of the Bharata race, appeared there with horns in its head. O foremost of men, seeing in the ocean that fish with the horn emerging like a rock (as he was told before, he (Manu) threw the noose (made by the rope) on the head of that fish,
३.१८५.४८
अथाब्रवीदनिमिषस्तानृषीन्सहितांस्तदा ।
अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते ।
मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात् ॥
अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते ।
मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात् ॥
M N Dutt
“I am the Lord of creatures, Brahma; none is greater than myself. In ihe form of a fish I have saved you from this fear.
॥ इति ३.१८५ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.