अर्जुन उवाच ।
३.१६४.१
ततस्तामवसं प्रीतो रजनीं तत्र भारत ।
प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः ॥
प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः ॥
M N Dutt
Arjuna said : Then, O Bharata, by the favour of that highsouled god of gods-Tryambaka-I pleasantly passed that night there.
३.१६४.२
व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम् ।
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा ॥
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा ॥
M N Dutt
Having performed my morning devotions when the night drew to a close, I beheld that best of the Brahmanas whom I had previously seen. see
३.१६४.३
तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम् ।
भगवन्तं महादेवं समेतोऽस्मीति भारत ॥
भगवन्तं महादेवं समेतोऽस्मीति भारत ॥
M N Dutt
I related to him faithfully all that occurred, namely, O Bharata, my interview with the divine Mahadev.
३.१६४.४
स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः ।
दृष्टस्त्वया महादेवो यथा नान्येन केनचित् ॥
दृष्टस्त्वया महादेवो यथा नान्येन केनचित् ॥
M N Dutt
O king of kings, that best of the Brahmanas said to me pleased "none else can Mahadeva as you have seen.
३.१६४.५
समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः ।
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति ॥
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति ॥
M N Dutt
O sinless being, you will behold the lord of the celestials, together with Vaivasvata and all the Lokapalas, who (the lord of the celestials) will grant you weapons.
३.१६४.६
एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः ।
अगच्छत्स यथाकामं ब्राह्मणः सूर्यसंनिभः ॥
अगच्छत्स यथाकामं ब्राह्मणः सूर्यसंनिभः ॥
M N Dutt
O king, saying this and embracing me again and again, that sun-like Brahmana went away whither he liked.
३.१६४.७
अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः ।
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् ॥
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् ॥
M N Dutt
Then, O destroyer of foes, in the afternoon of that day, it pure brceze began to blow, as if making this world anew.
३.१६४.८
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च ।
शैशिरस्य गिरेः पादे प्रादुरासन्समीपतः ॥
शैशिरस्य गिरेः पादे प्रादुरासन्समीपतः ॥
M N Dutt
(And) at the foot of the mountain Himalayas, fragrant, fresh and fair flowers began to blossomi near and around me.
३.१६४.९
वादित्राणि च दिव्यानि सुघोषाणि समन्ततः ।
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ॥
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ॥
M N Dutt
(And) there was heard from all sides, celestials and sweet symphony together with charming eulogy to Indra.
३.१६४.१०
गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च ।
पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः ॥
पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः ॥
M N Dutt
Multitudes of Gandharvas and Apsaras chanted various songs before the god of gods.
३.१६४.११
मरुतां च गणास्तत्र देवयानैरुपागमन् ।
महेन्द्रानुचरा ये च देवसद्मनिवासिनः ॥
महेन्द्रानुचरा ये च देवसद्मनिवासिनः ॥
M N Dutt
And the whole body of the Marutas, the followers of Mahendra and all the inhabitants of the heavenly regions appeared there on celestials cars.
३.१६४.१२
ततो मरुत्वान्हरिभिर्युक्तैर्वाहैः स्वलंकृतैः ।
शचीसहायस्तत्रायात्सह सर्वैस्तदामरैः ॥
शचीसहायस्तत्रायात्सह सर्वैस्तदामरैः ॥
M N Dutt
Then Marutvana, accompanied by Sachi and all the immortals, appeared there in ornamental cars drawn by horses.
३.१६४.१३
एतस्मिन्नेव काले तु कुबेरो नरवाहनः ।
दर्शयामास मां राजल्लक्ष्म्या परमया युतः ॥
दर्शयामास मां राजल्लक्ष्म्या परमया युतः ॥
M N Dutt
And, at the very moment, O king, Kubera, of transcendental beauty who is carried on the shoulders of men, came to my presence.
३.१६४.१४
दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम् ।
वरुणं देवराजं च यथास्थानमवस्थितम् ॥
वरुणं देवराजं च यथास्थानमवस्थितम् ॥
M N Dutt
(And) I beheld Yama seated towards the southern point and the king of the gods and Varuna in their respective places.
३.१६४.१५
ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः ।
सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान् ॥
सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान् ॥
M N Dutt
Having cheered me up, O great king, O best of mortals, they said to me, “O Savyasachi, behold us the Lokapalas seated (here).
३.१६४.१६
सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शंकरम् ।
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः ॥
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः ॥
M N Dutt
You have beheld Mahadeva in order to perform the task in behalf of the celestials. Now, receive the weapons from us seated around.
३.१६४.१७
ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् ।
प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत्प्रभो ॥
प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत्प्रभो ॥
M N Dutt
Thereupon, O lord bowing down to those best of the celestials and with a pure heart I duly accepted those powerful weapons.
३.१६४.१८
गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत ।
अथ देवा ययुः सर्वे यथागतमरिंदम ॥
अथ देवा ययुः सर्वे यथागतमरिंदम ॥
M N Dutt
O Bharata, having accepted the weapons I was recognized by the gods (as one of them). And then, O tormentor of foes, all the gods returned to their respective places.
३.१६४.१९
मघवानपि देवेशो रथमारुह्य सुप्रभम् ।
उवाच भगवान्वाक्यं स्मयन्निव सुरारिहा ॥
उवाच भगवान्वाक्यं स्मयन्निव सुरारिहा ॥
M N Dutt
And the lord king of the gods-Maghavana too, having ascended his splendid car, said "O Falguni, you will have to visit the celestials regions.
३.१६४.२०
पुरैवागमनादस्माद्वेदाहं त्वां धनंजय ।
अतः परं त्वहं वै त्वां दर्शये भरतर्षभ ॥
अतः परं त्वहं वै त्वां दर्शये भरतर्षभ ॥
M N Dutt
O Dhananjaya, even before my arrival here I had known you (would come). After this, O best of the Bharatas, I will reveal myself to you (in heaven).
३.१६४.२१
त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत् ।
तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव ॥
तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव ॥
M N Dutt
O Pandava, as you formerly performed ablutions in various Tirthas (i.e. sacred places resorted to by pilgrims) and were absorbed in rigid asceticism, you will be able to go to heaven.
३.१६४.२३
मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति ।
विदितस्त्वं हि देवानामृषीणां च महात्मनाम् ॥
विदितस्त्वं हि देवानामृषीणां च महात्मनाम् ॥
M N Dutt
At my command Matali will take you to heaven, You are already known to the celestials and the high-souled sages.'
३.१६४.२४
ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम ।
आचार्यं वरये त्वाहमस्त्रार्थं त्रिदशेश्वर ॥
आचार्यं वरये त्वाहमस्त्रार्थं त्रिदशेश्वर ॥
M N Dutt
Thereupon I said to Sakra, “be favourably disposed towards me. In order to learn (the science of) weapons, O lord of heaven, I make you my preceptor."
इन्द्र उवाच ।
३.१६४.२५
क्रूरं कर्मास्त्रवित्तात करिष्यसि परंतप ।
यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि ॥
यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि ॥
M N Dutt
Indra said: O tormentor of foes, O child, you will achieve terrible feats (of arms). And that desire of yours which makes you eager to obtain weapons shall be fulfilled.
अर्जुन उवाच ।
३.१६४.२६
ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन् ।
मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम् ॥
मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम् ॥
M N Dutt
Thereupon I replied, "O destroyer of foes, I will never hurt these celestials weapons at mortals except to ward off their weapons.
३.१६४.२७
तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप ।
लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुंगव ॥
लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुंगव ॥
M N Dutt
Therefore, O lord of the gods, O best of the celestials, grant me those celestials weapons. Then I shall afterwards attain to the region of the warriors."
इन्द्र उवाच ।
३.१६४.२८
परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनंजय ।
ममात्मजस्य वचनं सूपपन्नमिदं तव ॥
ममात्मजस्य वचनं सूपपन्नमिदं तव ॥
M N Dutt
Indra said : "O Dhananjaya, in order to test you I have said these words. You being my son, this speech is worthy of you.
३.१६४.२९
शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत ।
वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात् ॥
वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात् ॥
M N Dutt
Repairing to my abode, O Bharata, learn all the weapons of Vayu, of Agni, of the Vasus, of Varuna of the Marutas,
३.१६४.३०
साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् ।
वैष्णवानि च सर्वाणि नैरृतानि तथैव च ।
मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह ॥
वैष्णवानि च सर्वाणि नैरृतानि तथैव च ।
मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह ॥
M N Dutt
Of the Sadhyas, of Pitamaha, of the Gandharvas, of the Uragas, of the Rakshasas, of Vishnu and of the Nairitas;
अर्जुन उवाच ।
३.१६४.३१
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत ।
अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् ।
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ॥
अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् ।
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ॥
M N Dutt
Then, O king, I saw that sacred, celestials and wonderful and car of Indra, yoked with horses and driven by Matali arrive (there).
३.१६४.३२
लोकपालेषु यातेषु मामुवाचाथ मातलिः ।
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते ॥
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते ॥
M N Dutt
The Lokapalas having gone away, Matali said to me “O you of unrivalled splendour, the lord of the celestials, Sakra, wishes to see you.
३.१६४.३३
संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम् ।
पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज ॥
पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज ॥
M N Dutt
O creation of powerful arms, acquire perfection first and then perform your task. Behold the regions of the virtuous and repair to heaven even in the (mortal) frame.
३.१६४.३८
देवराजोऽपि हि मया नित्यमत्रोपलक्षितः ।
विचलन्प्रथमोत्पाते हयानां भरतर्षभ ॥
विचलन्प्रथमोत्पाते हयानां भरतर्षभ ॥
M N Dutt
That placed in this celestials car you are not jerked even a step from your seat. O best of the Bharatas, I have often noticed that (even) the king of the gods is unable to keep up his balance at the first pull by the horses. O perpetuator of the Kuru race, your sitting (steadily) in the car while in motion,
३.१६४.४०
इत्युक्त्वाकाशमाविश्य मातलिर्विबुधालयान् ।
दर्शयामास मे राजन्विमानानि च भारत ॥
दर्शयामास मे राजन्विमानानि च भारत ॥
M N Dutt
Appears to me that this power of yours has surpassed even that of Sakra himself." O king, O Bharata, saying this and soaring up to the celestials regions, Matali showed to me the abodes and palaces of the celestials. Then that car yoked with horses soared upwards.
॥ इति ३.१६४ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.