सात्यकिरुवाच ।
३.१२०.१
न राम कालः परिदेवनाय
यदुत्तरं तत्र तदेव सर्वे ।
समाचरामो ह्यनतीतकालं
युधिष्ठिरो यद्यपि नाह किंचित् ॥
यदुत्तरं तत्र तदेव सर्वे ।
समाचरामो ह्यनतीतकालं
युधिष्ठिरो यद्यपि नाह किंचित् ॥
M N Dutt
Satyaki said : ORama, this is not the time for lamentation. Let us do without any further delay that which is proper and suited to the present occasion, though Yudhishthira does not say anything.
३.१२०.२
ये नाथवन्तो हि भवन्ति लोके
ते नात्मना कर्म समारभन्ते ।
तेषां तु कार्येषु भवन्ति नाथाः
शैब्यादयो राम यथा ययातेः ॥
ते नात्मना कर्म समारभन्ते ।
तेषां तु कार्येषु भवन्ति नाथाः
शैब्यादयो राम यथा ययातेः ॥
M N Dutt
Those in the world who have other persons to look after them do not undertake to do anything themselves. They have others to do their work as did Shibi and others of Yayati.
३.१२०.३
येषां तथा राम समारभन्ते
कार्याणि नाथाः स्वमतेन लोके ।
ते नाथवन्तः पुरुषप्रवीरा
नानाथवत्कृच्छ्रमवाप्नुवन्ति ॥
कार्याणि नाथाः स्वमतेन लोके ।
ते नाथवन्तः पुरुषप्रवीरा
नानाथवत्कृच्छ्रमवाप्नुवन्ति ॥
M N Dutt
O Rama, those, whose help-mate sact according to their own opinion, those men having others to look after them, never meet with disaster like men who have none to help them.
३.१२०.४
कस्मादयं रामजनार्दनौ च
प्रद्युम्नसाम्बौ च मया समेतौ ।
वसत्यरण्ये सह सोदरीयै
स्त्रैलोक्यनाथानधिगम्य नाथान् ॥
प्रद्युम्नसाम्बौ च मया समेतौ ।
वसत्यरण्ये सह सोदरीयै
स्त्रैलोक्यनाथानधिगम्य नाथान् ॥
M N Dutt
How is it that when the sons of Pritha have these two men, Rama and Janardana (Krishna) also Pradyumna, Samba and myself, all able to protect the three worlds, that they are living in the forest?
३.१२०.५
निर्यातु साध्वद्य दशार्हसेना
प्रभूतनानायुधचित्रवर्मा ।
यमक्षयं गच्छतु धार्तराष्ट्रः
सबान्धवो वृष्णिबलाभिभूतः ॥
प्रभूतनानायुधचित्रवर्मा ।
यमक्षयं गच्छतु धार्तराष्ट्रः
सबान्धवो वृष्णिबलाभिभूतः ॥
M N Dutt
It is proper that this very day the army of the Dasharahas should march out, variously armed and well clad in armours. Let the sons of Dhritarashtra be attacked with the Vrishni soldiers and let them all go with their friends to the abode of Yama. Let him alone who wields the bow made of horn (Krishna), let yourself alone who, if roused, is capable of subverting the wholé, earth, kill the sons of Dhritarashtra with all their friends as the chief of the celestials killed Vitra.
३.१२०.७
भ्राता च मे यश्च सखा गुरुश्च
जनार्दनस्यात्मसमश्च पार्थः ।
यदर्थमभ्युद्यतमुत्तमं त
त्करोति कर्माग्र्यमपारणीयम् ॥
जनार्दनस्यात्मसमश्च पार्थः ।
यदर्थमभ्युद्यतमुत्तमं त
त्करोति कर्माग्र्यमपारणीयम् ॥
M N Dutt
The son of Pritha (Arjuna) is my brother, he is my friend, he is also my preceptor; and he is like the second self of Krishna. It is for this reason that men desire for a worthy son and that a preceptor seeks an obedient and obliging pupil.
३.१२०.१४
यथा प्रविश्यान्तरमन्तकस्य
काले मनुष्यो न विनिष्क्रमेत ।
तथा प्रविश्यान्तरमस्य संख्ये
को नाम जीवन्पुनराव्रजेत ॥
काले मनुष्यो न विनिष्क्रमेत ।
तथा प्रविश्यान्तरमस्य संख्ये
को नाम जीवन्पुनराव्रजेत ॥
M N Dutt
As men coming within the clutches of death can never come out of it, so who is there that once coming under his clutches in the field of battle, escapes with his life.
३.१२०.१५
द्रोणं च भीष्मं च महारथौ तौ
सुतैर्वृतं चाप्यथ सोमदत्तम् ।
सर्वाणि सैन्यानि च वासुदेवः
प्रधक्ष्यते सायकवह्निजालैः ॥
सुतैर्वृतं चाप्यथ सोमदत्तम् ।
सर्वाणि सैन्यानि च वासुदेवः
प्रधक्ष्यते सायकवह्निजालैः ॥
M N Dutt
The son of Vasudeva will consume by the shower of his fiery weapons all the soldiers together with those two great car-warriors, Bhishma and Drona and also Somadatta surrounded by his sons.
३.१२०.१६
किं नाम लोकेष्वविषह्यमस्ति
कृष्णस्य सर्वेषु सदैवतेषु ।
आत्तायुधस्योत्तमबाणपाणे
श्चक्रायुधस्याप्रतिमस्य युद्धे ॥
कृष्णस्य सर्वेषु सदैवतेषु ।
आत्तायुधस्योत्तमबाणपाणे
श्चक्रायुधस्याप्रतिमस्य युद्धे ॥
M N Dutt
Who is there in all the world including the celestials whom Krishna cannot fight on equal footing? When he takes up his weapons, wields his excellent arrows, arms himself with the discus, he becomes matchless in fight.
३.१२०.१७
ततोऽनिरुद्धोऽप्यसिचर्मपाणि
र्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः ।
हृतोत्तमाङ्गैर्निहतैः करोतु
कीर्णां कुशैर्वेदिमिवाध्वरेषु ॥
र्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः ।
हृतोत्तमाङ्गैर्निहतैः करोतु
कीर्णां कुशैर्वेदिमिवाध्वरेषु ॥
M N Dutt
Let Anirudha also take up in his hand buckler and sword, let him cover the earth with Dhritarashta's sons, their heads being severed from their bodies, as in a sacrifice the altar is covered with Kusha (grass).
३.१२०.१८
गदोल्मुकौ बाहुकभानुनीथाः
शूरश्च संख्ये निशठः कुमारः ।
रणोत्कटौ सारणचारुदेष्णौ
कुलोचितं विप्रथयन्तु कर्म ॥
शूरश्च संख्ये निशठः कुमारः ।
रणोत्कटौ सारणचारुदेष्णौ
कुलोचितं विप्रथयन्तु कर्म ॥
M N Dutt
Gada, Ulmuka, Bahuka, Bhanu, Nitha and heroic in battle but young in age, Nishatha, Sarana and Charudeshna, irresistible in war, let all of them perform feats befitting their race.
३.१२०.१९
सवृष्णिभोजान्धकयोधमुख्या
समागता क्षत्रियशूरसेना ।
हत्वा रणे तान्धृतराष्ट्रपुत्रा
ल्लोके यशः स्फीतमुपाकरोतु ॥
समागता क्षत्रियशूरसेना ।
हत्वा रणे तान्धृतराष्ट्रपुत्रा
ल्लोके यशः स्फीतमुपाकरोतु ॥
M N Dutt
Let the united armies of Satvatas and the Suras, together with the chief heroes of the Vrishnis and the Andhakas, killing the sons of Dhritarashtra in the field of battle, spread their fame all over the world,
३.१२०.२०
ततोऽभिमन्युः पृथिवीं प्रशास्तु
यावद्व्रतं धर्मभृतां वरिष्ठः ।
युधिष्ठिरः पारयते महात्मा
द्यूते यथोक्तं कुरुसत्तमेन ॥
यावद्व्रतं धर्मभृतां वरिष्ठः ।
युधिष्ठिरः पारयते महात्मा
द्यूते यथोक्तं कुरुसत्तमेन ॥
M N Dutt
Let Abhimanyu rule the earth so long this foremost of virtuous men, the high-souled Yudhishthira is engaged in fulfilling the vow which this best of the Kuru race took on the occasion of the celebrated gambling match.
३.१२०.२१
अस्मत्प्रमुक्तैर्विशिखैर्जितारि
स्ततो महीं भोक्ष्यति धर्मराजः ।
निर्धार्तराष्ट्रां हतसूतपुत्रा
मेतद्धि नः कृत्यतमं यशस्यम् ॥
स्ततो महीं भोक्ष्यति धर्मराजः ।
निर्धार्तराष्ट्रां हतसूतपुत्रा
मेतद्धि नः कृत्यतमं यशस्यम् ॥
M N Dutt
After his enemies are all defeated by the arrows discharged by us, let the virtuous king then rule over the earth. There will be then no son of Dhritarashtra (Duryodhana) or the son of the charioteer (Karna). This is the most important work for us to do and this will surely lead us to fame.
वासुदेव उवाच ।
३.१२०.२२
असंशयं माधव सत्यमेत
द्गृह्णीम ते वाक्यमदीनसत्त्व ।
स्वाभ्यां भुजाभ्यामजितां तु भूमिं
नेच्छेत्कुरूणामृषभः कथंचित् ॥
द्गृह्णीम ते वाक्यमदीनसत्त्व ।
स्वाभ्यां भुजाभ्यामजितां तु भूमिं
नेच्छेत्कुरूणामृषभः कथंचित् ॥
M N Dutt
Krishna said: O descendant of Madhu, there is no doubt what you say is true. O greatly courageous hero, we accept your words. This foremost of Kurus, (Yudhishthira) does not desire to possess the land that is not won by his won prowess of arms.
३.१२०.२३
न ह्येष कामान्न भयान्न लोभा
द्युधिष्ठिरो जातु जह्यात्स्वधर्मम् ।
भीमार्जुनौ चातिरथौ यमौ वा
तथैव कृष्णा द्रुपदात्मजेयम् ॥
द्युधिष्ठिरो जातु जह्यात्स्वधर्मम् ।
भीमार्जुनौ चातिरथौ यमौ वा
तथैव कृष्णा द्रुपदात्मजेयम् ॥
M N Dutt
Neither for the sake of pleasure, nor from fear, nor from covetousness would Yudhishthira ever abandon the rules of his (Kshatriya) order, nor would the two great carwarriors, Bhima and Arjuna, nor the twins (Nakula and Sahadeva), nor Krishna, the daughter of Drupada.
३.१२०.२४
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां
वृकोदरश्चैव धनंजयश्च ।
कस्मान्न कृत्स्नां पृथिवीं प्रशासे
न्माद्रीसुताभ्यां च पुरस्कृतोऽयम् ॥
वृकोदरश्चैव धनंजयश्च ।
कस्मान्न कृत्स्नां पृथिवीं प्रशासे
न्माद्रीसुताभ्यां च पुरस्कृतोऽयम् ॥
M N Dutt
Vrikodara (Bhima) and Dhananjaya (Arjuna) are both unrivalled in fight on earth. Why should he not rule over the earth when the two sons of Madri are there to espouse his cause?
३.१२०.२५
यदा तु पाञ्चालपतिर्महात्मा
सकेकयश्चेदिपतिर्वयं च ।
योत्स्याम विक्रम्य परांस्तदा वै
सुयोधनस्त्यक्ष्यति जीवलोकम् ॥
सकेकयश्चेदिपतिर्वयं च ।
योत्स्याम विक्रम्य परांस्तदा वै
सुयोधनस्त्यक्ष्यति जीवलोकम् ॥
M N Dutt
When the illustrious king of Panchala together with the king of Kekaya and we also, would put forth our united strength, then the enemies of Yudhishthira would surely be annihilated.
युधिष्ठिर उवाच ।
३.१२०.२६
नैतच्चित्रं माधव यद्ब्रवीषि
सत्यं तु मे रक्ष्यतमं न राज्यम् ।
कृष्णस्तु मां वेद यथावदेकः
कृष्णं च वेदाहमथो यथावत् ॥
सत्यं तु मे रक्ष्यतमं न राज्यम् ।
कृष्णस्तु मां वेद यथावदेकः
कृष्णं च वेदाहमथो यथावत् ॥
M N Dutt
Yudhishthira said: O descendant of Madhu, there is nothing to be surprised that you should speak thus. To me truth is over my sovereignty. It is Krishna alone who knows what I am and it is I alone who know what Krishna is.
३.१२०.२७
यदैव कालं पुरुषप्रवीरो
वेत्स्यत्ययं माधव विक्रमस्य ।
तदा रणे त्वं च शिनिप्रवीर
सुयोधनं जेष्यसि केशवश्च ॥
वेत्स्यत्ययं माधव विक्रमस्य ।
तदा रणे त्वं च शिनिप्रवीर
सुयोधनं जेष्यसि केशवश्च ॥
M N Dutt
O descendant of Madhu, O foremost of the Sinis, when this best of men (Krishna) will perceive that the proper time is come for displaying courage, you and he will then defeat Suyodhana (Duryodhana).
३.१२०.२८
प्रतिप्रयान्त्वद्य दशार्हवीरा
दृढोऽस्मि नाथैर्नरलोकनाथैः ।
धर्मेऽप्रमादं कुरुताप्रमेया
द्रष्टास्मि भूयः सुखिनः समेतान् ॥
दृढोऽस्मि नाथैर्नरलोकनाथैः ।
धर्मेऽप्रमादं कुरुताप्रमेया
द्रष्टास्मि भूयः सुखिनः समेतान् ॥
M N Dutt
Let the heroes of the Dasharaha race go back today. They are my patrons, these best of men have come here to visit me. O immeasurably powerful heroes, never fall off from the path of virtue. I shall see you again when you will be happily assembled together.
वैशंपायन उवाच ।
३.१२०.२९
तेऽन्योन्यमामन्त्र्य तथाभिवाद्य
वृद्धान्परिष्वज्य शिशूंश्च सर्वान् ।
यदुप्रवीराः स्वगृहाणि जग्मू
राजापि तीर्थान्यनुसंचचार ॥
वृद्धान्परिष्वज्य शिशूंश्च सर्वान् ।
यदुप्रवीराः स्वगृहाणि जग्मू
राजापि तीर्थान्यनुसंचचार ॥
M N Dutt
Vaishampayana said: Then after mutual greeting and obeisance to the seniors and embracing the youthful, those foremost of the Yadus and the sons of Pandu separated. The Yadus went home and they (the Pandavas, continued their journey to the Tirthas.
३.१२०.३०
विसृज्य कृष्णं त्वथ धर्मराजो
विदर्भराजोपचितां सुतीर्थाम् ।
सुतेन सोमेन विमिश्रितोदां
ततः पयोष्णीं प्रति स ह्युवास ॥
विदर्भराजोपचितां सुतीर्थाम् ।
सुतेन सोमेन विमिश्रितोदां
ततः पयोष्णीं प्रति स ह्युवास ॥
M N Dutt
Having parted with Krishna, Dharmaraja with his younger brothers and with Lomasha and with servants went to the sacred river Payoshini the landing place of which was constructed by the king of Vidharbha.
॥ इति ३.१२० ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.