वैशंपायन उवाच ।
१२.१६.१
अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः ।
धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत् ॥
धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत् ॥
M N Dutt
Vaishampayana said After Arjuna had done the highly wrathful and energetic Bhimasena, collecting all his patience, said these words to his eldest brother:राजन् विदितधर्मोऽसि न तेऽस्त्यविदितं क्वचित्।
१२.१६.२
राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि ।
उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः ॥
उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः ॥
M N Dutt
'You are, O king, conversant with all duties. There is nothing unknown to you. We always wish to imitate your conduct, but, alas, we cannot do it.
१२.१६.३
न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम् ।
अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप ॥
अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप ॥
M N Dutt
I had wished not to say anything. Excited, however, by great grief I am compelled to say something. Listen to these words of mine, O king.
१२.१६.४
भवतस्तु प्रमोहेन सर्वं संशयितं कृतम् ।
विक्लवत्वं च नः प्राप्तमबलत्वं तथैव च ॥
विक्लवत्वं च नः प्राप्तमबलत्वं तथैव च ॥
M N Dutt
Everything has been imperilled by the bewilderment of your faculties, and ourselves are being made disspirited and weak.
१२.१६.५
कथं हि राजा लोकस्य सर्वशास्त्रविशारदः ।
मोहमापद्यते दैन्याद्यथा कुपुरुषस्तथा ॥
मोहमापद्यते दैन्याद्यथा कुपुरुषस्तथा ॥
M N Dutt
How is it that you who are the king of the world, you who are the master of all branches of knowledge, allow your understanding to be clouded, with depression like a coward?
१२.१६.६
आगतिश्च गतिश्चैव लोकस्य विदिता तव ।
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ॥
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ॥
M N Dutt
The fair and unfair paths of the world are known to you. Everything belonging either to the future or the present is known to you, O powerfiil one.
१२.१६.७
एवं गते महाराज राज्यं प्रति जनाधिप ।
हेतुमत्र प्रवक्ष्यामि तदिहैकमनाः शृणु ॥
हेतुमत्र प्रवक्ष्यामि तदिहैकमनाः शृणु ॥
M N Dutt
When such in the case, O king, I will point out, O king, the reasons in favour of your assuming sovereignty. Listen to me with rapt attention.
१२.१६.८
द्विविधो जायते व्याधिः शारीरो मानसस्तथा ।
परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते ॥
परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते ॥
M N Dutt
There are two sorts of diseases, viz., physical and mental. Each originates from the other. None of them exists independently.
१२.१६.९
शारीराज्जायते व्याधिर्मानसो नात्र संशयः ।
मानसाज्जायते व्याधिः शारीर इति निश्चयः ॥
मानसाज्जायते व्याधिः शारीर इति निश्चयः ॥
M N Dutt
Forsooth, mental diseases originate form physical ones. Likewise physical diseases originate from mental ones. This is the truth.
१२.१६.१०
शारीरमानसे दुःखे योऽतीते अनुशोचति ।
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥
M N Dutt
Dead or lost, the person who grieves for what has already taken place, and suffers great grief. By grieving one increases it twofold.
१२.१६.११
शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः ।
तेषां गुणानां साम्यं च तदाहुः स्वस्थलक्षणम् ॥
तेषां गुणानां साम्यं च तदाहुः स्वस्थलक्षणम् ॥
M N Dutt
Cold, heat, and winds,-are the three essentials of the body. Their harmonious existence indicates good heath.
१२.१६.१२
तेषामन्यतमोत्सेके विधानमुपदिष्यते ।
उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते ॥
उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते ॥
M N Dutt
In case of one of the three prevailing over the rest, remedies have been prescribed. Cold is checked by heat, and heat is checked by cold.
१२.१६.१७
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् ।
मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि ॥
मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि ॥
१२.१६.१८
प्रव्राजनं च नगरादजिनैश्च निवासनम् ।
महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि ॥
महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि ॥
M N Dutt
Why do you not remember our expulsion from the (Kuru) city and our exile (into the forest clad in deer-skins, as also our, living in the great forests?
१२.१६.१९
जटासुरात्परिक्लेशं चित्रसेनेन चाहवम् ।
सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि ।
पुनरज्ञातचर्यायां कीचकेन पदा वधम् ॥
सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि ।
पुनरज्ञातचर्यायां कीचकेन पदा वधम् ॥
M N Dutt
Why have you forgotten the woes inflicted by Jatasura, the battle with Chitrasena, and the miseries suffered at the hands of the Sindhu king?
१२.१६.२०
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम ।
मनसैकेन ते युद्धमिदं घोरमुपस्थितम् ॥
मनसैकेन ते युद्धमिदं घोरमुपस्थितम् ॥
M N Dutt
A dreadful battle, O chastiser of foes, like that which you have fought with Bhishma and Drona is now before you, to be fought, (however) with your mind alone.
१२.१६.२१
यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः ।
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥
M N Dutt
Indeed, a battle is now before you in which there is no necessity of arrows, friends, of relatives and kinsmen, but which will have to be fought with your mind only.
१२.१६.२२
तस्मिन्ननिर्जिते युद्धे प्राणान्यदि ह मोक्ष्यसे ।
अन्यं देहं समास्थाय पुनस्तेनैव योत्स्यसे ॥
अन्यं देहं समास्थाय पुनस्तेनैव योत्स्यसे ॥
M N Dutt
If you expire before conquering in this battle, then, assuming another body, you shall have to fight these very enemies again.
१२.१६.२३
तस्मादद्यैव गन्तव्यं युद्धस्य भरतर्षभ ।
एतज्जित्वा महाराज कृतकृत्यो भविष्यसि ॥
एतज्जित्वा महाराज कृतकृत्यो भविष्यसि ॥
M N Dutt
If you cannot win that battle what will be your condition? On the other hand, by acquiring victory in it, O monarch, you shall have attained the great end of life.
१२.१६.२४
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् ।
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥
M N Dutt
And knowing this wisdom and the destiny of all creatures, and following the conduct of your forefathers do you duly govern your kingdom.
१२.१६.२५
दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि ।
द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः ॥
द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः ॥
M N Dutt
By good luck, O king, the sinful Duryodhana has been killed with all his followers. By good luck, you too, like Draupadi's locks, have regained your normal position.
१२.१६.२६
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ।
वयं ते किंकराः पार्थ वासुदेवश्च वीर्यवान् ॥
वयं ते किंकराः पार्थ वासुदेवश्च वीर्यवान् ॥
M N Dutt
Celebrate with due rites and enough presents the horse-sacrifice. We are your servants, O son of Pritha, as also the highly energetic Vasudeva.
॥ इति १२.१६ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.