गान्धार्युवाच ।
११.२३.१
एष शल्यो हतः शेते साक्षान्नकुलमातुलः ।
धर्मज्ञेन सता तात धर्मराजेन संयुगे ॥
धर्मज्ञेन सता तात धर्मराजेन संयुगे ॥
M N Dutt
Gandhari said There lies Shalya, the maternal uncle himself of Nakula, killed in battle, by the pious and virtuous Yudhishthira.
११.२३.२
यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ ।
स एष निहतः शेते मद्रराजो महारथः ॥
स एष निहतः शेते मद्रराजो महारथः ॥
M N Dutt
He used everywhere, O foremost of men, to boast of his equality with you. That powerful car-warrior, viz., the king of the Madras, now lies dead.
११.२३.३
येन संगृह्णता तात रथमाधिरथेर्युधि ।
जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः ॥
जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः ॥
M N Dutt
When he accepted the drivership of Karna's car in battle, he tried to depress Karna for securing victory for the sons of Pandu.
११.२३.४
अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम् ।
मुखं पद्मपलाशाक्षं वडैरादष्टमव्रणम् ॥
मुखं पद्मपलाशाक्षं वडैरादष्टमव्रणम् ॥
M N Dutt
Alas, alas, look at the smooth face of Shalya, beautiful as the moon, and having eyes resembling lotus petals, eaten away by crows.
११.२३.५
एषा चामीकराभस्य तप्तकाञ्चनसप्रभा ।
आस्याद्विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः ॥
आस्याद्विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः ॥
M N Dutt
There, the tongue of that king, beautiful like molten gold, looting out of his mouth, is, O। Krishna, being devoured by carnivorous birds.
११.२३.६
युधिष्ठिरेण निहतं शल्यं समितिशोभनम् ।
रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रियः ॥
रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रियः ॥
M N Dutt
the ladies of the royal house of Madra, crying aloud, are sitting around the body of that king, that ornament of assemblies, killed by Yudhishthira.
११.२३.७
एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम् ।
क्रोशन्त्यभिसमासाद्य क्षत्रियाः क्षत्रियर्षभम् ॥
क्रोशन्त्यभिसमासाद्य क्षत्रियाः क्षत्रियर्षभम् ॥
M N Dutt
Those ladies are sitting around that fallen hero like a herd of she-elephants in their season around their leader sunk in mud.
११.२३.९
शल्यं शरणदं शूरं पश्यैनं रथसत्तमम् ।
शयानं वीरशयने शरैर्विशकलीकृतम् ॥
शयानं वीरशयने शरैर्विशकलीकृतम् ॥
M N Dutt
Look at the brave Shalya, the great protector and the foremost of car-warriors, stretched on the bed of heroes, his body wounded with arrows.
११.२३.१०
एष शैलालयो राजा भगदत्तः प्रतापवान् ।
गजाङ्कुशधरः श्रेष्ठः शेते भुवि निपातितः ॥
गजाङ्कुशधरः श्रेष्ठः शेते भुवि निपातितः ॥
M N Dutt
There the highly powerful king Bhagadatta, the king of a mountainous kingdom, the foremost of all holders of good, lies dead on the Earth.
११.२३.११
यस्य रुक्ममयी माला शिरस्येषा विराजते ।
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् ॥
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् ॥
M N Dutt
Look at the golden and shining garland that he still wears on his head. Though the body is being devoroured by beasts of prey, that garland still adorns the beautiful hairs on his head.
११.२३.१२
एतेन किल पार्थस्य युद्धमासीत्सुदारुणम् ।
लोमहर्षणमत्युग्रं शक्रस्य बलिना यथा ॥
लोमहर्षणमत्युग्रं शक्रस्य बलिना यथा ॥
M N Dutt
Dreadful was the battle that took place between this king and Partha, making the hairs stand erect, like that between Shakra and the Asura Vritra.
११.२३.१३
योधयित्वा महाबाहुरेष पार्थं धनंजयम् ।
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः ॥
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः ॥
M N Dutt
Having fought Dhananjaya ine son of Pritha, and brought him to a perilous condition,। this mighty-armed one, was at last killed by his antagonist.
११.२३.१४
यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन ।
स एष निहतः शेते भीष्मो भीष्मकृदाहवे ॥
स एष निहतः शेते भीष्मो भीष्मकृदाहवे ॥
M N Dutt
He who had no equal on Earth in heroism and energy, that achiever of dreadful feasts in battle, viz., Bhishma, lies there dead.
११.२३.१५
पश्य शांतनवं कृष्ण शयानं सूर्यवर्चसम् ।
युगान्त इव कालेन पातितं सूर्यमम्बरात् ॥
युगान्त इव कालेन पातितं सूर्यमम्बरात् ॥
M N Dutt
Behold the son of Shantanu, O Krishna, that hero effulgent like the sun, stretched on the Earth, like the Sun himself dropped off the sky at the end of the Yuga.
११.२३.१६
एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान् ।
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव ॥
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव ॥
M N Dutt
Having scorched his enemies with the fire of his weapons in battle, that brave warrior, that Sun among men, O Keshava, has set like the real Sun at evening.
११.२३.१७
शरतल्पगतं वीरं धर्मे देवापिना समम् ।
शयानं वीरशयने पश्य शूरनिषेविते ॥
शयानं वीरशयने पश्य शूरनिषेविते ॥
M N Dutt
Look at that hero, O Krishna, who in knowledge of duty was equal to Devapi himself, now lying on a bed of arrows, worthy of heroes.
११.२३.१८
कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम् ।
आविश्य शेते भगवान्स्कन्दः शरवणं यथा ॥
आविश्य शेते भगवान्स्कन्दः शरवणं यथा ॥
M N Dutt
Having spread his bed of barbed and unbarbed arrows, that hero lieth on it like Skanda on a clump of reeds.
११.२३.१९
अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम् ।
उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना ॥
उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना ॥
M N Dutt
Indeed, the son of Ganga lies there, resting his head on that excellent pillow, consisting of three arrows,-given him by Arjuna.
११.२३.२०
पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः ।
एष शांतनवः शेते माधवाप्रतिमो युधि ॥
एष शांतनवः शेते माधवाप्रतिमो युधि ॥
M N Dutt
For obeying the mandate of his father, this illustrious one drew up his vital seed. Peerless in battle, that son of Shantanu lies there, O Madhava.
११.२३.२१
धर्मात्मा तात धर्मज्ञः पारंपर्येण निर्णये ।
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत् ॥
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत् ॥
M N Dutt
Pious and acquainted with all forms of duty, by the help of his knowledge of both the worlds, that hero, though mortal, is still alive like an immortal.
११.२३.२२
नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी ।
यत्र शांतनवो भीष्मः शेतेऽद्य निहतः परैः ॥
यत्र शांतनवो भीष्मः शेतेऽद्य निहतः परैः ॥
M N Dutt
When Shantanu's son lies to-day, struck down with arrows, it seems that no other person alive on Earth who is learned and powerful and who is competent to perform great feats in battle.
११.२३.२३
स्वयमेतेन शूरेण पृच्छ्यमानेन पाण्डवैः ।
धर्मज्ञेनाहवे मृत्युराख्यातः सत्यवादिना ॥
धर्मज्ञेनाहवे मृत्युराख्यातः सत्यवादिना ॥
M N Dutt
Solicited by the Pandavas, this truthful, righteous, and virtuous hero, communicate to them the means of his own death.
११.२३.२४
प्रनष्टः कुरुवंशश्च पुनर्येन समुद्धृतः ।
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् ॥
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् ॥
M N Dutt
Alas, he who had revived the extinct line of Kuru, that illustrious and highly intelligent person, has left the world with all the Kurus in his company.
११.२३.२५
धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव ।
गते देवव्रते स्वर्गं देवकल्पे नरर्षभे ॥
गते देवव्रते स्वर्गं देवकल्पे नरर्षभे ॥
M N Dutt
From whom, O Madhava, will the Kurus, receive instructions of religion and duty after that foremost of men, viz., Devavrata, who resembles a god, shall have gone to heaven?
११.२३.२६
अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा ।
तं पश्य पतितं द्रोणं कुरूणां गुरुसत्तमम् ॥
तं पश्य पतितं द्रोणं कुरूणां गुरुसत्तमम् ॥
M N Dutt
See Drona, that best of Brahmanas, that preceptor of Arjuna, of Satyaki, and of the Kurus, is lying on the ground.
११.२३.२७
अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः ।
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव ॥
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव ॥
M N Dutt
The highly energetic Drona, O Madhava, was as a master of the four kinds of arms like Shukra of Vrigu's race.
११.२३.२८
यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम् ।
चकार स हतः शेते नैनमस्त्राण्यपालयन् ॥
चकार स हतः शेते नैनमस्त्राण्यपालयन् ॥
M N Dutt
Through his favour, Vibhatsu the son of Pandu has achieved the most of difficult feats. He now lies dead on the ground. Weapons refused to come at last at his command.
११.२३.२९
यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान् ।
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथक्कृतः ॥
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथक्कृतः ॥
M N Dutt
Placing him at their head, the Kauravas had challenged the Pandavas. That foremost of all warriors was in the end wounded with weapons.
११.२३.३०
यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत् ।
स भूमौ निहतः शेते शान्तार्चिरिव पावकः ॥
स भूमौ निहतः शेते शान्तार्चिरिव पावकः ॥
M N Dutt
As he moved about in battle, scorching his enemies in every direction, his movement resembled that of a blazing fire. Alas, he now lies dead on the ground, like an extinguished fire.
११.२३.३१
धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव ।
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा ॥
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा ॥
M N Dutt
The handle of the bow is yet in his grasp, The leathern fences, O Madhava, pre still on his fingers. Though killed, he still looks as if alive.
११.२३.३२
वेदा यस्माच्च चत्वारः सर्वास्त्राणि च केशव ।
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः ॥
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः ॥
M N Dutt
The four Vedas, and all kinds, of weapons, O Keshava, did not leave that hero even as they do not the Lord Prajapati.
११.२३.३३
वन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ ।
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ ॥
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ ॥
M N Dutt
His auspicious feet, worthy of adoration and adored before by bards and eulogists, and worshipped by disciples, are now being dragged by jackals.
११.२३.३४
द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन ।
कृपी कृपणमन्वास्ते दुःखोपहतचेतना ॥
कृपी कृपणमन्वास्ते दुःखोपहतचेतना ॥
M N Dutt
Senseless with sorrow, Kripi sorrowfully attends, O destroyer of Madhu, on that Drona who has been killed by Draupada's son.
११.२३.३५
तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम् ।
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् ॥
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् ॥
M N Dutt
Look at that sorrow-stricken lady, fallen upon the Earth, with disheveled hair and face Juser hanging down. Alas, she serves sorrowfully her lifeless husband, that best of all holders of weapons, lying on the ground.
११.२३.३६
बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव ।
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी ॥
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी ॥
M N Dutt
Many Brahmana saints, with matted locks on their head, are serving the body of Drona that is cased in armour cut asunder, O Keshava, with the arrows of Dhrishtadyumna.
११.२३.३७
प्रेतकृत्ये च यतते कृपी कृपणमातुरा ।
हतस्य समरे भर्तुः सुकुमारी यशस्विनी ॥
हतस्य समरे भर्तुः सुकुमारी यशस्विनी ॥
M N Dutt
The illustrious and delicate Kripi, depressed and Sorrow-stricken, is trying to perform the last rites on the body of her husband killed in battle.
११.२३.३८
अग्नीनाहृत्य विधिवच्चितां प्रज्वाल्य सर्वशः ।
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः ॥
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः ॥
M N Dutt
There, having placed the body of Drona on the funeral pyre and having put fire with due rites, those reciters of Samans are singing the three verses.
११.२३.३९
किरन्ति च चितामेते जटिला ब्रह्मचारिणः ।
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव ॥
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव ॥
M N Dutt
Those Brahmana saints, with matted locks on their head, have made the funeral pyre of that Brahmana with bows and arrows and carboxes, O Madhava.
११.२३.४०
शस्त्रैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम् ।
त एते द्रोणमाधाय शंसन्ति च रुदन्ति च ॥
त एते द्रोणमाधाय शंसन्ति च रुदन्ति च ॥
M N Dutt
Having collected various other sorts of arrows, that highly energetic hero is being consumed by them. Having placed his body on the pyre, they are singing and weeping.
११.२३.४१
सामभिस्त्रिभिरन्तःस्थैरनुशंसन्ति चापरे ।
अग्नावग्निमिवाधाय द्रोणं हुत्वा हुताशने ॥
अग्नावग्निमिवाधाय द्रोणं हुत्वा हुताशने ॥
M N Dutt
Others are reciting the three well-known Saman verses that are used on such occasions. Burning the dead body of Drona on that fire, like fire in fire, those saintly disciples of his, are proceeding towards the banks of Ganga, along the left side of the pyre and having placed Kripi at their head."
११.२३.४२
गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः ।
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा ॥
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा ॥
M N Dutt
Others are reciting the three well-known Saman verses that are used on such occasions. Burning the dead body of Drona on that fire, like fire in fire, those saintly disciples of his, are proceeding towards the banks of Ganga, along the left side of the pyre and having placed Kripi at their head."
॥ इति ११.२३ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.